बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 58, कुल 774 में से
संदर्भ में पढ़ेंअन्वाधेयम् : ऋत्विजां वरणम् Digitized by Madhuban Trust [ २ । ३, ४ । ] बौधायनश्रौतसूत्रम् । ३७ ग्रावस्तुदिति होतुः । प्रस्तोता प्रतिहर्ता सुब्रह्मण्य इत्युद्गातुरभि- गरो ध्रुवगोपः सङ्श्राव इति१ सदस्यस्य । स्वप्रधाना२ । अस्व- प्रधाना२ इत्येके२ । दश वैकादश वा चमसाध्वर्यवो ऽन्यद्दक्षि- णाभिः परिक्रीता भवन्तीति विज्ञायते । तस्मादग्निहोत्रस्य यज्ञक्रतोरेक ऋत्विग्दर्शपूर्णमासयोश्चत्वार ऋत्विजो ऽध्वर्युर्ब्रह्मा होताग्नीध्र इति । चातुर्मास्येषु प्रतिप्रस्थाता पञ्चमः । पशुबन्धे मैत्रावरुणः षष्ठः । सर्वे सौम्ये ऽध्वरे । तान्कर्मणःकर्मणो वृणीतै- कैकमुपसंगृह्य चोदयेदसावहमाध्वर्यवेण त्वा गच्छामि याजयतु मां भवानिति । ब्रह्मत्वेन हौत्रेणौद्गात्रेण सादस्येनेति । न सदस्यो विद्यत इत्येके । स्वेनस्वेन कर्मणा होत्रकान्३ होत्रकानित्येके२ । तत्पुरुषा होत्रकाश्चमसाध्वर्यवश्चाध्वर्युर्वा ऋत्विजां प्रथमो युज्यते तेन स्तोमो योक्तव्य इति ॥ ३ ॥ आदित्यो देवो दैवो ऽध्वर्युः स मे ऽध्वर्युर्ध्वर्यो ऽध्वर्युं त्वा वृण इत्यध्वर्युमादित्यो देवो दैवो ऽध्वर्युः स ते ऽध्वर्युस्ते- नानुमतः कर्मैवाहं करिष्यामीत्यों तथेति प्रतिवचनं । चन्द्रमा देवो दैवो ब्रह्मा स मे ब्रह्मा ब्रह्मन् ब्रह्माणं त्वा वृण इति ब्रह्माणं । चन्द्रमा देवो दैवो ब्रह्मा स ते ब्रह्मा तेनानुमतः कर्मैवाहं करिष्यामीत्यों तथेति प्रतिवचनमग्निर्देवो दैवो होता १ सङ्श्राव B Be JH, संश्रावयति T, सङ्श्रावयति F, with श्र Bh. २ Thus Be, स्वप्रधानाः स्वप्रधाना इत्येके J ; स्वप्रधान अस्वप्रधान इत्येके B ; स्वधान अस्वप्रधानादत्येके F ; स्वप्रधाना इत्येके H ; स्वस्वप्रधाना इत्येके T. ३ Thus B ; होत्रकाञ्छोत्रका इत्येके T ; होत्रकान् होत्रकानित्येके JHF ; Be om. न होत्रकान् । CC-0. Public Domain. Vipin Kumar Collection, Deoband