बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 604, कुल 774 में से
संदर्भ में पढ़ें[ १६ । २५, २६ । ] बौधायनश्रौतसूत्रम् । २७१ न्नतिरात्रस्तस्य सप्तदशं प्रातःसवनमेकविꣳशं माध्यंदिनꣳ सवनं त्रिणव आर्भवः पवमानस्त्रयस्त्रिꣳशमग्निष्टोमसामैकविꣳशान्य्- उक्थानि सषोडशिकानि ' षोडशं प्रथमꣳ रात्रिसाम पञ्चदशा- नीतराणि चित्रद्रायंतरः१ सन्धिः ' स दाक्षिणानि हुत्वाग्नीध्रे स्रुवाहुतिं जुहोति त्वꣳ सहस्रस्य प्रतिष्ठासि२ वैष्णवो वामन- स्त्वम् । सा३ मा सहस्र आभज प्रजया पशुभिः सह पुनर्मा- विंशताद्रयिरिति ' वामन एतेषां त्रयाणां चत्वारिꣳशच्छतानां४ प्रथमो नीयते ' नात्राक्षीनसंततिं करोति ' ॥ २५ ॥ अथैताꣳ सहस्रतमीमुत्तरेणाग्नीध्रं५ पर्याणीयाहवनीयस्यान्ते द्रोणकलशमवघ्रापयेदाजिघ्र कलशं मह्युरुधारा पयस्वत्या वा विशन्त्विन्दवः समुद्रमिव सिन्धवः । सा मा सहस्र आभज प्रजया पशुभिः सह पुनर्माविशताद्रयिरिति ' प्रजयैवैनां पशुभी रय्या समर्धयति प्रजावान्पशुमान्रयिमान्भवति य एवं वेदेति ब्राह्मणमेव भवति तया सहाग्नीध्रं परेत्य पुरस्ता- त्प्रतीच्यां तिष्ठन्त्यां जुहुयादिति ' स तया सहाग्नीध्रं परेत्य पुरस्तात्प्रतीच्यां तिष्ठन्त्यां जुहोत्युभा जिग्यथुर्न पराजयेथे न पराजिग्ये कतरश्चनैनोः । इन्द्रश्च विष्णो यदपस्पृधेथां त्रेधा
१ Thus M ; बृहद्रायंतरः Be ; बृहद्रथंतरः the other MSS. २ प्रतिष्ठा ष्षसि all, also M. ३ स M. ४ Thus M only (sic !) ; चत्वारिꣳशतानि all the other MSS. ५ ॰ग्नीध्रीयं MSS. ; U sec. m. ॰ग्नीध्रौ ।