बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
DevanagariHindipublished774 पृष्ठ
पृष्ठ 603, कुल 774 में से
संदर्भ में पढ़ेंपृष्ठ 603
मुत्तरे॑ रथंतरं पूर्वै ऽहन्त्साम भवति॑ बृहदुत्तरे॑ वैखानसं पूर्वै ऽहन्त्साम भवति॑ षोडश्युत्तरे॑ हविष्मन्निधनं पूर्वमहर्भवति॑ हविष्कृन्निधनमुत्तरं॑ नानैवार्धमासयोर्भवतो नानावीर्ये भवत इति ब्राह्मणम्॑ संतिष्ठते द्विरात्रस्त्रिरात्रेण यक्ष्यमाणो भवति॑ स उपकल्पयते सहस्रं॑ तस्मिन्नुन्नतो वेहद्दामन इति भवन्त्ये- ५ थास्यैषा सहस्रतम्यन्यतराव्णौ कण्डूक्षतोपकॢप्ता१ भवति॑ दीक्षते॑ रोहिण्या पिङ्गल्यैकहायन्या सोमं क्रीणाति॑ द्वादशोप- सदः॑ ॥ २४ ॥ तायते प्रथमे ऽहन्नग्निष्टोमस्त॑स्य त्रिवृत्प्रातःसवनं पञ्चदशं माध्यंदिनग्ँ सवनग्ँ सप्तदशं तृतीयसवनम्॑ स दाक्षिणानि १० हुत्वाग्नीध्रे स्रुवाहुतिं जुहोति लङ्