बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 607, कुल 774 में से
संदर्भ में पढ़ें२७४ बॊधायनश्रौतसूत्रम् । [१६ । २८ ।] विँशाः पवमाना¹ उच्चस्तोमाः¹ स्युरित्येतदेकमेको ऽग्निष्टोमो द्वावुक्थ्यावथातिरात्रश्छन्दोगानु² सामविकल्पं³ पृच्छेयुरित्येत- दपरम् । श्रद्धादेवं यजमानं चत्वारि वीर्याणि नोपानमन्नेज- न्द्रियं ब्रह्मवर्चसमन्नाद्यमित्येतान्कामानवरुरुत्समानश्चतूरात्राय⁴ दीक्षते । तस्यापरिमता दीक्षा द्वादशोपसदस्तस्याह्नान्यग्नि- ५ ष्टोमा एवैते चतुष्टोमाः स्युरित्येतदेकमेको ऽग्निष्टोमो द्वावु- क्थ्यावथातिरात्रश्छन्दोगानु² सामविकल्पं पृच्छेयुरित्येतदपरं । पुष्टिकामश्चतूरात्राय दीक्षते । तस्यापरिमता दीक्षा द्वादशो- पसदो । ऽथ वै भवति पुरोडाशिन्य उपसदो भवन्तीति । प्रथमे चतूरात्रे आग्नेय आज्य आग्नेयमष्टाकपालग् सायंप्रात- १० रन्ववधाय जुहोति । द्वितीये चतूरात्रे सौम्य आज्ये सौम्यं चतुष्कपालग् सायंप्रातरन्ववधाय जुहोति । तृतीये चतूरात्रे वैष्णव आज्ये वैष्णवं त्रिकपालग् सायंप्रातरन्ववधाय जुहोति । तस्य त्रिवृत्सप्तदशौ विपर्यासग् स्तोमौ भवतः । प्राणो वै त्रिवृ- दन्नग् सप्तदशः प्रजापतिः । प्राणाच्च खलु वा इदमन्नाद्याच्च १५
१ Thus (without visarga) Be; पवमानंस्तस्तोमा B Be 11 UD. २ I am in doubt whether छन्दोगान् सा० पृ० or छन्दोगाननु सा० पृ० should be put into the text; Be has each time the last mentioned reading, M presents once the first, once the last mentioned; the other MSS. छंदोगाञ्जन् or ॰नु or छंदोगाञ्ज । ३ स्तोमवि० B Be 11 DU; सामवि० Be. ४ Thus Be; ॰नवरुरुत्स (त्सु) कामश्च० B Be 11 UD.