बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
DevanagariHindipublished774 पृष्ठ
पृष्ठ 615, कुल 774 में से
संदर्भ में पढ़ेंपृष्ठ 615
[२८२] बौधायनश्रौतसूत्रम् । [ १६ । ३६ । ]
शतरात्रो॑ ऽतिरात्रो ज्योतिर्गौरा॒युरिति॒ व्यहश्चतुर्दशा- भिलवाः षडहा दशरात्रो महाव्रतं चातिरात्रश्चाथ सहस्र- रात्रो॑ ऽतिरात्रो नवनवतिस्त्रिवृतो ऽग्निष्टोमाः शतं पञ्च- दशा उक्थ्याः शतग्ं सप्तदशा उक्थ्याः शतमेकविग्ंशा उक्थ्याः शतं त्रिणवा उक्थ्याः शतं त्रयस्त्रिग्ंशा उक्थ्याः शतं चतुर्विग्ंशा उक्थ्याः शतं चतुश्चत्वारिग्ंशा उक्थ्याः शतमष्टाचत्वारिग्ंशा उक्थ्या नवनवतिरेव¹ त्रिवृतो ऽग्नि- ष्टोमा अथातिरात्रः॑ ॥ ३६ ॥ द्वादशः ॥
॥ इति षोडशः प्रश्नः ॥
¹ Thus Be; ॰नयतिमेव the other MSS.