बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 616, कुल 774 में से
संदर्भ में पढ़ेंअतिरात्रं करिष्यन्नुपकल्पयते चतुरो ऽतिरात्रपशूनरुण- पिशङ्गमश्वमौदुम्बरꣳ षोडशिपात्रं चतुरस्रि ज्यायसो ऽम्भृणा- ज्ज्यायस एकधनानदीक्षते । रोहिण्या पिङ्गल्यैकहायन्या सोमं क्रीणाति । द्वादशोपसदः । प्रसिद्धेन कर्मणोपवसथादेत्य१ वसतीवरीः परिहृत्य पयाꣳसि विशिष्योपवसन्त्यथातो महा- रात्र एव बुध्यन्ते । प्रातराज्यानि गृहीत्वा राजानमुपावहृत्य प्रातरनुवाकमुपाकरोति । परिहिते प्रातरनुवाके ऽपो ऽच्छै- त्यद्भिरेदै२त्यतिरात्रं क्रतुमुपैति । प्रसिद्धो ऽभिषवः । प्रसिद्धं ग्रहा गृह्यन्ते । समानं कर्माग्रयणाद्ग्रहादाग्रयणं गृहीत्वा षोडशिनं गृह्णात्यातिष्ठ वृत्रहन्नथमित्यनुद्रुत्योपयामगृहीतो ऽसीन्द्राय त्वा षोडशिने जुष्टं गृह्णामीति । परिमृज्य सादयत्येष ते योनिरिन्द्राय त्वा षोडशिन इत्योक्थ्यं गृह्णाति । समानं कर्माश्विनाद्ग्रहादाश्विनं ग्रहं३ गृहीत्वा चतस्रो रशना आदाय यूपमभ्यैति । खर्वन्तं यूपमुत्सृज्य चतुरो ऽतिरात्रपशूनुपाकरोत्याग्नेयमैन्द्राग्नमैन्द्रꣳ४ सारस्वतौ
१ Thus U, cp. supra XVI. 3 (p. 247. 6); ०प्योपवसथादैत्याथ M; ०प्योपवसथादैत्य D; ०प्योपवसथादैत्याथ Tr; ०प्योपवसथादैत्य Be; ०नोपवस- थादथ B Be 12; ०प्योपवसथ्यादथ H. २ ऽदैति M, ऽरैति the other MSS. ३ पात्रं ins. B 12 D. ४ om. B Be. ५ वृष्णिꣳ ins. M.