भारतकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 617, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 617

२८४ बौधायनश्रौतसूत्रम् । [ १७ । २, २१ ] मेषीमिति¹ ' तेषां प्रसिद्धं वपाभिश्चरित्वा प्रसर्पन्ति प्रातः- सवनाय ' तदृजुधा संतिष्ठते ' प्रसर्पन्ति माध्यंदिनाय सव- नाय ' प्रसिद्धो ऽभिषवः ' प्रसिद्धं ग्रहा गृह्यन्ते ' समानं कर्माग्रयणाद्ग्रहादाग्रयणं² गृहीत्वा² षोडशिनमभिगृह्णातीन्द्र- मिद्धरी वहत इत्यनुद्रुत्योपयामगृहीतो ऽसीन्द्राय त्वा षोड- ५ शिने जुष्टं गृह्णामीति ' परिमृज्य सादयत्येष ते योनिरिन्द्राय त्वा षोडशिन इत्योक्थ्यं गृह्णात्यृजुधा माध्यंदिनग्ँ सवनग्ँ संतिष्ठते ' प्रसर्पन्ति तृतीयसवनाय ' प्रसिद्धमादित्यग्रहेण चरित्वाग्रयणं गृह्णात्यथ षोडशिनमभिगृह्णात्यासावि सोम इन्द्र त इत्यनुद्रुत्योपयामगृहीतो ऽसीन्द्राय त्वा षोडशिने जुष्टं १० गृह्णामीति ' परिमृज्य सादयत्येष ते योनिरिन्द्राय त्वा षोडशिन इत्योक्थ्यं गृह्णाति ' ॥ १ ॥ समानं कर्मा पवमानात्प्रैषमानेन चरित्वा स्वे धाम- न्यङ्गुभिश्चरति³ ' तेषां नाना मनोता नाना देवता नाना प्रत्यभिमर्शना नाना वसाहोमाः समानो वनस्पतिः १५ समानः स्विष्टकृत्प्रैषवान्समानीडा समान्यो दिशो ' नाना दिश इत्येके ' समानं कर्मा ध्रुववद्भ्यश्चमसेभ्यो ' ध्रुवव