बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 648, कुल 774 में से
संदर्भ में पढ़ेंचाऽ अवित्सोदं पितृभ्यो नमो अस्त्वत्येत्यध्वर्युर्होता ब्रह्मा त उपतिष्ठन्ते ' यत्रैव शतावृष्णां धारयति तन्निदधाति प्रति- ष्ठित्या इति ब्राह्मणं ' तदेवैनां निधाय दक्षिणतो निद- धात्यैतानि पात्राणि पुराणभस्मनः खरे सादयति ॥ ३६ ॥ पितृभ्यः स्वधाविभ्यः स्वधा नमः पितामहेभ्यः स्वधा- विभ्यः स्वधा नमः प्रपितामहेभ्यः स्वधाविभ्यः स्वधा नम इत्येच गर्भिणीं वडवां ददात्येथाप उपस्पृश्य बार्हस्पत्यस्य पशुपुरोडाशं याचति ' तेन चरति१ देवताप्रभृतिनेडान्ते- नाथ पशुभिश्चरति मनोताप्रभृतिभिरिडान्तैरित्येतान्पुरोडा- शान्याचत्यैन्द्रमेकादशकपालꣳ सावित्रं द्वादशकपालं वारुणं दशकपालमिति ' तैश्चरति देवताप्रभृतिभिरिडान्तैरनूयाजै- श्चरित्वा प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य पत्नीः संयाज्य प्राङेत्य ध्रुवामाप्याय्य त्रीणि पाशुवन्धिकानि समिष्टयजूंषि जुहोति यज्ञ यज्ञं गच्छेष ते यज्ञो यज्ञपते देवा गातुविद इत्येतै- मवभृथꣳ सꣳसादयन्ति२ यत्किंचित्सुरालिप्तं भवति तत्सह हृदयशूलानि भवन्त्येतत्समादायान्तरेण३ चात्वालोत्करावुद- ङ्ङुपनिष्क्रामन्ति ॥ ३७ ॥ द्वे सृती अशृणवं पितॄणामहं देवानामुत मर्त्यानाम् । ताभ्यामिदं विश्वं भुवनꣳ समेत्यन्तरा पूर्वमपरं च केतुमिति '
१ चरति M Tr. २ Thus M Tr Be ; ०सादयति HBU ; संप्रकिरंति T. ३ भवन्त्ये० HU ; भवन्तौत्ये० M ; भवतौत्ये० T ; भवत्ये० B Be.