बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 649, कुल 774 में से
संदर्भ में पढ़ें३१६ बौधायनश्रौतसूत्रम् । [ १७ । ३८, ३६ । ]
प्रसिद्धꣲ हृदयशूलैश्चरित्वाथैतानि पात्राण्युदकान्ते पराञ्चि सादयति यस्ते देव वरुण गायत्रच्छन्दाः पाशो ब्रह्मन्प्रतिष्ठितः । तं त एतेनावयज इति पर्णमयं ऽ यस्ते देव वरुण त्रिष्टुप्- च्छन्दाः पाशः क्षत्रे प्रतिष्ठितः । तं त एतेनावयज इति नैय- ग्रोधं ऽ यस्ते देव वरुण जगतीच्छन्दाः पाशो विशु प्रतिष्ठितः । ५ तं त एतेनावयज इत्याश्वत्थं ऽ यस्ते देव वरुणानुष्टुप्छन्दाः पाशः पशुषु प्रतिष्ठितः । तं त एतेनावयज इति शाताह्वां ऽ तूष्णीꣲ शतं वालं च ऽ प्रसिद्धो ऽवभृथः ऽ साम चैव नाह देवैराप एष वो गर्भ इति चोथाप्रतीक्षमायन्ति वरुण- स्यानर्हित्वै ऽ प्रपथे समिधः कुर्वत एधो ऽस्येधिषीमहीत्ये- १० त्याहवनीये ऽभ्यादधाति समिदसि तेजो ऽसि तेजो मयि धेहीत्याहवनीयमुपतिष्ठन्ते ऽपो अन्वचारिषꣲ रसेन सम- सृक्ष्महि । पयस्वाꣲ अग्न आगमं तं मा सꣲसृज वर्चसेत्यथ कुसीदेन सक्तुहोमेन चरन्त्यथ देवता उपस्थाय यूपमुपतिष्ठते । संतिष्ठते सौत्रामणी१ ऽ ॥ ३८ ॥ एकादशः ॥ १५ २वेदमधीत्य स्नास्यन्नुपकल्पयत एरकां चोपबर्हणं च
१ सौत्रामणिः all exc. M; at the close of this adhyāya T adds इति चरकसूत्रम् । २ The text of adhyāya 12 is based on M(ackenzie), cp. Preface, p. II, and on the following MSS. of the Gṛhyasūtra: Ma(dras), on the whole a very good copy in grantha; E(gmore), nāgarī copy of grantha original; T(anjore), grantha, breaking of after the words अपामो ऽपोत्युक्त्वाष्टौ in kh. 41; H(aug), B(enares), these two closely related and on the whole rather bad. I made