बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 661, कुल 774 में से
संदर्भ में पढ़ेंभवति॑ तेन पूर्णमासः सेन्द्र॑ ऐन्द्रं दध्यमावास्यायां॑ तेना- मावास्या सेन्द्रेति॑ केनो स्विदनौजानस्य सेन्द्रौ भवत इत्यै- न्द्राग्नेन पुरोडाशेनेत्येव ब्रूयादित्य॑थ वै भवति देवा वै यद्यज्ञे ऽकुर्वत तदसुरा अकुर्वत॑ ते देवा एतामिष्टिमपश्यन्नाग्ना- वैष्णवमेकादशकपालꣳ सरस्वत्यै चरुꣳ सरस्वते चरुं॑ तां ५ पौर्णमासꣳ सꣳस्थायानुनिर्वपन्त॑तो देवा अभवन्परासुरा॑ यो भ्रातृव्यवान्स्यात्स पौर्णमासꣳ सꣳस्थाप्यैतामिष्टिमनुनिर्वपेत्पौ- र्णमासेनेव वज्रं भ्रातृव्याय प्रहृत्याग्नावैष्णवेन देवताश्च यज्ञं च भ्रातृव्यस्य वृङ्क्त इति ब्राह्मणꣳ॑ स एष भ्रातृव्यवतो यथाकाम- प्रयोगो१॑ मिथुनान्पशून्त्सारस्वताभ्यां॑ यावदेवास्त्यास्ति तत्सर्वं १० वृङ्क्त इति ब्राह्मणम॑थ वै भवति ॥ ४७ ॥ पौर्णमासीमेव यजेत भ्रातृव्यान्नामावास्यामिति॑ स२ पौर्णमासौ पौर्णमासीमेव यजेत भ्रातृव्यान्नामवास्याꣳ॑ हत्वा भ्रातृव्यं नाप्याययतीति ब्राह्मणं॑ तदेतत्स्तरणावगधं वापरोध्यावगधं३ वेत्य॑थ वै भवति साकं प्रस्थायीयेन यजेत १५ पशुकाम इत्येतैर्यैष्या यक्ष्यमाण उपकल्पयत औदुम्बरं महत्याचं प्रभूतमाज्यमित्य॑थ देवस्य त्वा सवितुः प्रसव इति४ प्रतिपदं कृत्वाग्नेयमष्टाकपालं निर्वपत्यैन्द्रमेकादशकपालमैन्द्रꣳ
१ यथाकामंप्र० M. २ om. M. ३ परोध्यावगधं M, omitting वा : वापरोध्यावगधं all the other MSS. ४ इत्येवमेव M.