भारतकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 675, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 675

महाहविर्भिश्चरित्वा गार्हपत्ये महापितृयज्ञहवीꣳषि श्रपयित्वा तैर्मार्जालीये प्रचरति॑ प्रैषवन्तः सवनीया॑ अनुब्रूहि यजे- तीतरेषाꣳ हविषामृजुधा ज्योतिरतिरात्रः संतिष्ठते॑ पुरस्ता- द्धानासोमानां वाजिनैश्चरित्वा त्रैयम्बकैश्चरति¹ समानं कर्मा- वभृथाद्यैतस्मिन्नवभृथ उपाददते वारुण्ये निष्कासं तुषा- ५ निति॑ वारुणस्य वारुण्यामिक्षावदानीया भवत्यैलौषेण सह तुषान्संप्रकिरन्ति² प्रसिद्धो ऽवभृथ॑ उदयनीययेष्ट्वा मैत्रा- वरुणीं वशामुपाकरोति॑ तस्यै द्यावापृथिव्या काया वैश्वकर्मणी सौरत्युपालम्भ्या भवन्ति॑ तासां प्रसिद्धं वपाभिश्चरित्वा पशुपुरोडाशान्निर्वपति॑ ताननुवर्तन्त आदित्यप्रभृतीनि १० शूनासीरीयहवीꣳषि॑ प्रैषवन्तः पशुपुरोडाशा॑ अनुब्रूहि यजेतीतरेषाꣳ हविषाꣳ॑ संतिष्ठते यथा पञ्चपशुः पशुरनुबन्ध्यस्त- र्थोथ पौर्णमासवैमृधाभ्यामिष्ट्वा यजमानायतन उपविश्य त्रेण्या शलल्या लोहितायसस्य च क्षुरेण शीर्षण्नि च वर्तयते परि च वपते पुरस्तादेवाग्रे ऽथ दक्षिणतो ऽथ पश्चादथोत्तरतो १५ ऽथोपरिष्टात्संतिष्ठन्ते चातुर्मास्याः सोमाः संतिष्ठन्ते चातुर्मास्याः सोमाः॑ ॥ ६२ ॥ अष्टादशः ॥ ॥ इति सप्तदशः प्रश्नः³ ॥


१ त्र्यंबकै० MSS. २ ०किरति M. ३ अथ ( r. इति ) बौधायन उत्तरततिसूत्रे प्रथमः प्रश्नः U.