बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 678, कुल 774 में से
संदर्भ में पढ़ें[ १८ । २, ३ । ] बौधायनश्रौतसूत्रम् । ३४५ राजा राजसूयेन यक्ष्यमाण आध्यायति¹ त्रिषु वर्णेष्वभिषिक्ते- ष्वध्यभिषिच्येय² पुरोहिते स्थपतौ सूत इति । पुरोहितो दीक्षते । तस्य तिस्रो दीक्षास्तिस्र उपसदः । समानमाभिषेकस्य कालादभिषेकस्य काले शुक्रामन्थिनोः सꣳस्रावेणाभिषिञ्चति । ५ चतुष्टोम एष भवति ।॥ २ ॥ स्थपति³ स्थपतिसवेन यक्ष्यमाणो भवति स उपकल्पयत आर्षभं चर्म सुवर्णरजतौ च रुक्मावौदुम्बरं पात्रं दध्यभिषेच- नाय । दीक्षते । तस्य तिस्रो दीक्षास्तिस्र उपसद । आग्नेयस्य मारुती पृश्निः पष्ठौह्युपालम्भ्या भवति । सप्त हवीꣳषि १० प्रातःसवनीयाननुवर्तन्ते यदाग्नेयो भवत्यग्निसुखाद्वाद्धिरित्ये- तानि । समानमाभिषेकस्य कालादभिषेकस्य काले यजमाना- यतन आर्षभं चर्म प्राचीनग्रीवमुत्तरलोमोपस्तृणाति । तद्यज- मानं प्राञ्चमुपवेश्य सुवर्णरजताभ्याꣳ रुक्माभ्यां पर्युपास्यौदुम्बरे पात्रे दध्यान्येनाभिषिञ्चति देवस्य त्वा सवितुः प्रसवे ऽश्विनो- १५ र्बाहुभ्यां पूष्णो हस्ताभ्याꣳ सरस्वत्यै वाचो यन्तुर्यन्त्रेण स्थपतिसवेनाभिषिञ्चामीति । समुन्मृष्टे समुत्क्रोशन्तीति समानमा मुखस्य विमार्जनात् । एष स्थपतिसवः सप्तदशो ऽग्निष्टोम । एष एव स्थपतिसव । एष वैश्यसव⁴ । एष ग्रामसवो । मासा हैनेनातः⁵ पूर्वमीजिरे ।॥ ३ ॥
१ •ध्यायतीति M. २ Thus MD Be 7; •षिच्येणु Be BU. ३ om. Be BU. ४ वैश्यस्य सव Be 7. ५ i. s. o. अतः Be 7 अज, D अजं । 44