बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 679, कुल 774 में से
संदर्भ में पढ़ेंसूतः१ सूतसवेन यक्ष्यमाणो भवति स उपकल्पयते कृष्णाजिनꣳ सुवर्णरजतौ च रुक्मौ पर्णमयं पात्रꣳ हिरण्यं घृतमभिषेचनाय ' दीक्षते ' तस्य तिस्रो दीक्षास्तिस्र उप- सदो ' ऽष्टौ हवीꣳषि प्रातःसवनीयाननुवर्तन्ते यदाग्नेयो भवत्याग्नेयो वै ब्राह्मण इत्येतानि ' समानमाभिषेकस्य ५ कालादभिषेकस्य काले यजमानायतने कृष्णाजिनं प्राचीन- ग्रीवमुत्तरलोमोपस्तृणाति ' तद्यजमानं प्राञ्चमुपवेश्य सुवर्ण- रजताभ्याꣳ रुक्माभ्यां पर्युपास्य पर्णमये पात्रे घृतमानीय हिरण्येनोत्पूयाभिषिञ्चति देवस्य त्वा सवितुः प्रसवे ऽश्विनो- र्बाहुभ्यां पूष्णो हस्ताभ्याꣳ सरस्वत्यै वाचो यन्तुर्यन्त्रेण सूतस- १० वेनाभिषिञ्चामीति ' समुन्मृष्टे समुत्क्रोशयन्तीति समानमा मुखस्य विमार्जनात्स' एष सूतसवः सप्तदशो ऽग्निष्टोम ' एष एव सूतसव ' एष ग्रामणीसव२ ' एष ऋतसव ' ऋतवो ह्येनेनातः पूर्वमीजिरे ' ॥ ४ ॥ प्रथमः ॥ सोमसवेन यक्ष्यमाणो भवति स उपकल्पयते सौमीꣳ १५ सूतवशां कृष्णाजिनꣳ सुवर्णरजतौ च रुक्मौ पर्णमयं पात्रं पयो ऽभिषेचनायाथ वै ब्राह्मणं भवति यत्किंच राजसूयमृते सोमं तत्सर्वं भवतीति ' स आमावास्येन हविषेष्ट्वाद्यावच्छान्यानु- मतप्रभृतिभिरेति संवत्सरं चातुर्मास्यैः सहेन्द्रतुरीयप्रभृतिभिरथ रत्निनाꣳ हविर्भिर्यजते ' ऽथ देवसुवाꣳ हविर्भिर्यजते ' २०
१ om. M. २ ग्रामणि• M Be.