बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 745, कुल 774 में से
संदर्भ में पढ़ेंस्विट्देवाय त्रयस्त्रिꣳशो ऽथ चतुष्टोमस्स्विट्देवाथ¹ चतुरु- त्त्वारिꣳशो ऽथ चतुष्टोमो ऽथातिरात्रो॑ द्वादश² मासाः सप्त- दश क्रतवो॑ नवसु मासेषु नव क्रतूनुपैत्यथातिशिष्यन्ते त्रयस् मासा अष्टौ च क्रतवः॑ स द्वौ त्रिरात्रौ कुरुत एकं च द्विरात्रं॑ यद्यु वा एतदुपायेति चतुष्टोमेनाग्निष्टोमेन यजेत॑ ५ मासानामेव रूपꣳ स्तुतशस्त्राणि संवत्सरस्य रूपमग्निष्टोमो³ वाज²॑ एवमस्यैष६ संवत्सरः परीष्ट एवमाप्तो भवत्यथातो ऽयुजस्यैव⁴ युग्मास्यै॑कस्याꣳ स्तुवते ऽथ तिसृष्विति न्वयुजो॑ ऽथ युग्मांसतसृषु स्तुवते ऽथाष्टास्विति युग्मा॑ अयुजां चैव⁵ युग्मानां चैव सायुज्यꣳ सलोकतामाप्नुवन्ति य एतेनायनेन १० यन्ति य उ चैनदेवं विदुः ॥ ५१ ॥ अथातो दिग्न्नामेव॑ त्रिवृत्प्राच्यै॑ पञ्चदशो दक्षिणायै॑ सप्तदशः प्रतीच्या॑ एकविꣳश उदीच्यै॑ त्रिणव इत⁶
१-१ Wholly uncertain; चतुष्टोमैर्विꣳशो य चतुष्टोमस्स्विष्टदेवाय चतु- श्चत्वारिꣳशोयाद्याचत्वारिꣳशोय चतुष्टोमोयातिरात्रोद्वादश L Be; चतुष्टोमस्विष्टदे- वाय चतुरुत्वारिꣳशोय चतुष्टोमोयातिरात्रोच द्वादश the other MSS., partly incomplete. २ Thus MSS. exc. Be, which reads ॰ष्टोमस्यैष and L, which omits वाज । ४-५ Thus, on the whole, L; युजस्यैकस्यां स्तुवते य तिसृष्वितो न्वायुञ्जो य युग्मांश्चतसृषु स्तुवते याष्टासुरिति युग्मा अयुजांश्चैव Be; युजस्यैव युग्मां (or या-) स्यैवतस्यां स्तुवते (ति) य तिसृष्विति न्वयुजो य पुमांश्चतसृषु स्तुवते याष्टासुरित्यथ युग्मा अयुजस्यैव the other MSS. ६ Only in Be.