बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 746, कुल 774 में से
संदर्भ में पढ़ेंऊर्ध्वायै॑ त्रयस्त्रिꣳशो ऽमृतो ऽर्वाच्यै॑ सर्वासामेव चतुष्टोमो॑ दिशामेव सायुज्यꣳ सलोकतामाप्नुवन्ति य एतेनायनेन यन्ति य उ चैनदेवं विदुर्"यात ऋतूनामेव॑ त्रिवृद्वसन्तस्य॑ पञ्च- दशो ग्रीष्मस्य॑ सप्तदशो वर्षाणामेकविꣳशः शरद्'स्त्रिणवो ५ हेमन्तस्य॑ त्रयस्त्रिꣳशः शिशिरस्य॑ सर्वेषामेव चतुष्टोम॑ ऋतूनामेव सायुज्यꣳ सलोकतामाप्नुवन्ति य एतेनायनेन यन्ति य उ चैनदेवं विदुर्"यात ऋषीणामेव॑ त्रिवृद्वसिष्ठस्य॑ पञ्चदशो भरद्वाजस्य॑ सप्तदशो विश्वामित्रस्यैकविꣳशो जमदग्ने- स्त्रिणवः कश्यपस्य¹ त्रयस्त्रिꣳशो गौतमस्यागस्त्यस्य² चतुष्टोम॑ १० सर्वेषामेव चतुष्टोम॑ ऋषीणामेव सायुज्यꣳ सलोकतामाप्नुवन्ति य एतेनायनेन यन्ति य उ चैनदेवं विदुर्"यातो देवताना- मेव॑ त्रिवृदग्नेः॑ पञ्चदश इन्द्रस्य॑ सप्तदशः प्रजापते॑रेकविꣳशो ऽमुष्य³ तपतस्त्रिणवश्चन्द्रमसस्त्रयस्त्रिꣳशो विश्वेषां देवानाꣳ॑⁴ सर्वासामेव चतुष्टोमो॑ देवतानामेव सायुज्यꣳ सलोकतामाप्नु- १५ वन्ति य एतेनायनेन यन्ति य उ चैनदेवं विदुः॥ ५२ ॥ अथातो दर्शपूर्णमासयोरयनमित्याचक्षते॑ सूर्य्याचन्द्रमसो- रयनमित्येक आहुः॑ पौर्णमासेन⁵ सोमेन यक्ष्यमाणो भवति॑ दीक्षते॑ तस्यापरिमित्ता दीक्षाः षडुपसदः॑ स तथा राजानं
१ कश्य० Be, काश्य० the other MSS. २ Thus L and Be; all the other MSS. om. अग० । ३ Instead of मुष्य Be: उप, L मु । ४ Thus L Be; the other MSS. have एवं after देवानां । ५ पूर्ण० MSS. exc. L.