बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 85, कुल 774 में से
संदर्भ में पढ़ें६४ बौधायनश्रौतसूत्रम् । [२।१८।] मपोद्धृत्याथ प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य जघनेन गार्हपत्यं तिष्ठंस्तनूभिरुपतिष्ठते ये ते अग्ने शिवे तनुवौ विराट् च खराट् च ते मा विशतां ते मा जिन्वताम् । ये ते अग्ने शिवे तनुवौ सम्राट् चाभिभूश्च ते मा विशतां ते मा जिन्वताम् । ये ते अग्ने शिवे तनुवौ विभूश्च परिभूश्च ते मा विशतां ते ५ मा जिन्वताम् । ये ते अग्ने शिवे तनुवौ प्रभ्वी च प्रभूतिश्च ते मा विशतां ते मा जिन्वताम् । यास्ते अग्ने शिवास्तनु- वस्ताभिस्त्वादध इति ' सर्वाभिर्गार्हपत्यम् ' सर्वाभिरन्वाहार्य- पचनम् ' सर्वाभिराहवनीयमथ घोरास्तनूरनुदिशति यास्ते अग्ने घोरास्तनुवस्ताभिरमुं गच्छेत्येवं यं यजमानो द्वेष्टि तं १० मनसा ध्यायत्येथाप१ उपस्पृश्य विराजक्रमैरुपतिष्ठते ' नर्य२ प्रजां मे गोपाय । अमृतत्वाय जीवसे । जातां जनिष्यमाणां च । अमृते सत्ये प्रतिष्ठितामिति गार्हपत्यमंथर्व पितुं मे गोपाय । रसमन्नमिहायुषे । अदब्धायो ऽशीततनो । अविषन्नः पितुं कृण्वित्यन्वाहार्यपचनम् ' शंस्य पशून्मे गोपाय । द्विपादो १५ ये चतुष्पदः । अष्टाशफाश्च य इहाग्ने । ये चैकशफा आशुगा इत्याहवनीयम् ' सप्रथ सभां मे गोपाय । ये च सभ्याः सभासदः । तानिन्द्रियावतः कुरु । सर्वमायुरुपासतामिति सभ्यमहे बुध्निय मन्त्रं मे गोपाय । यमृषयस्त्रयिविदा विदुः । ऋचः सामानि यजूंषि । मा हि श्रीरमृता सतामित्यव- २०
१ धायेदित्याथाप B Be. २ Of these mantras J gives only the pratikas.