भारतकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 91, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 91

[६०] बौधायनश्रौतसूत्रम् । [ ३ । २, ३ । ]

वनीये ' समानं कर्मा रथचक्रादैतावदेव नाना ' यदमुत्र तूष्णीमग्निहोत्रं तदिह सप्त ते अग्ने समिधः सप्त जिह्वा इति जुहोति ' यो ऽमुत्राग्नेयो ऽष्टाकपालः स इहाग्नेयः पञ्चकपाल- स्तस्य प्रयाजेषु चतस्रो२ विभक्तीर्दधात्यग्न आयाहि वीतये समिधो३ अग्न आज्यस्य वियन्त्वग्निं दूतं वृणीमहे तनूनपादग्न आज्यस्य वेत्वग्निनाग्निः समिध्यत इडो अग्न आज्यस्य वियन्त्वग्नि- र्वृत्राणि जङ्घनद्धर्हिरग्न आज्यस्य वेत्विति ' स्वयं संपन्न उत्तमः प्रयाजो ' ऽथात आज्यभागयोरेव मीमाꣳसा ' वार्त्रघ्नावाज्य- भागौ स्यातामित्येके ' वृधन्वन्तावाज्यभागौ स्यातामित्येके ' ऽग्निꣳ सोमेन बोधय त्वं नः सोमेत्येतौ स्यातामित्येके ' अग्न आयूꣳषि पवस ऽग्ने पवस्वेत्येतौ स्यातामित्येके ' यत्पवमानं४ तत्सोमरूपं ' पङ्क्त्यौ५ हविषो ऽग्ने तमद्याधा ह्यग्न इत्यथ पुनरूर्जा सह रय्येत्यभितः पुरोडाशमाहुती जुहोत्यग्निं प्रति स्विष्टकृतं निराहाभिष्टे अद्य एभिर्नो अर्कैरिति संयाज्ये ' अन्वाहार्यमामाद्य ॥ २ ॥ पुनराधेयदक्षिणां६ ददाति पुनर्निष्कृतं रथं पुनरुत्यूतं वासः पुनरुत्सृष्टमनड्वाहं ' तस्यानूयाजेषु७ विभक्तौ८ दधात्यग्ना यो मर्त्यो दुवो धियं जुजोष धीतिभिः । अमन्दु ष प्र पूर्व्य


पादटिप्पण्यः (Footnotes): १ BH insert जुहोति । २ om. TJ. ३ समिधः समिधो Be BH. ४ Thus BH, ०मानस् the other MSS. ५ Thus BJ Be; पंक्त्यो T; पङ्कौ H; F totally corrupt. ६ दक्षिणां JF. ७ अनुयाजेषु all except T Be. ८ Thus HB; विभक्तीर्द० the other MSS.