बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 90, कुल 774 में से
संदर्भ में पढ़ेंदशाध्यायिकः : पुनराधेयम् Digitized by Madhuban Trust [ ३ । २, २ । ] बौधायनश्रौतसूत्रम् । ६६ अग्नीन्पुनराधास्यमानो भवति । तदाहुः कृतयजुः संभृत- संभारो भवति न संभृत्याः संभारा न यजुः कर्तव्यमित्येथो खलु संभृत्या एव संभाराः कर्तव्यं यजुः पुनराधेयस्य समृद्ध्या इति । स उपकल्पयते पुनर्निष्कृतꣳ रथं पुनरुत्स्यूतं वासः ५ पुनरुत्सृष्टमनड्वाहं दर्भकुलायं तिस्रो दर्भमय्योर्विस्स्रंसिकाः । प्रज्ञाता आग्न्याधेयिकाः संभाराः । सा याषाढ्याः पौर्णमास्याः पुरस्तादमावास्या भवति सा महासंवत्सरस्य पुनर्वसुभ्याꣳ संपद्यते तस्यामादधीतेति । तस्या उपवसथे ऽरण्योरग्नीन्समा- रोह्योदवसाय मथित्वाग्नीन्विहृत्याग्नेयमष्टाकपालं निर्वपति १० वैश्वानरं द्वादशकपालमग्निमुदासयिष्यन्निति । सा प्रसिद्धेष्टिः संतिष्ठते । ऽथ तदानीमेवाद्भिरग्नीन्समुक्ष्य ब्रह्मोदनꣳ श्रप- यित्वोपवसंत्यथ प्रातराग्न्याधेयिकं कर्म तायत । एतावदेव नाना । यदमुत्र मुञ्जकुलायं तदिह दर्भकुलायं । यो ऽमुत्रेध्मः प्रणयनीयः स इह दर्भमय्योर्विस्स्रंसिका । दर्भैर्गार्हपत्यमाद- धाति१ दर्भैरन्वाहार्यपचनं दर्भैराहवनीयं । दर्भैर्गार्हपत्यमा- दधात्याधाने२ सर्पराज्ञीर्ऋचो३ ऽनुवर्तयति ॥ १ ॥ भूमिर्भूम्ना द्यौर्वरिम्णेति चतस्रो गार्हपत्ये तिस्र आह- १ आदधाति om. Be FJ. २ Thus Be H; instead of आदधात्याधाने J has आदद्यन्नित्याधाने and F: ऽप्याधाने; T om. दर्भैर्गार्हपत्यम् and B is defective. ३ Thus H; सर्पराज्ञीऋचो Be; सर्पराज्ञीऋचा F; सार्पराज्ञीऋचो J; सर्प- राज्ञीयाऋचो T; B defective. CC-0. Public Domain. Vipin Kumar Collection, Deoband