बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 105, कुल 366 में से
संदर्भ में पढ़ेंऽध्यायः ] बौधायनीयं ७५ व्यासं द्वितीयम् । तेन षडिष्टकाः । षोडशाङ्गुलदीर्घमष्टाङ्गुलन्यासं तृतीयमेकम् । तेन पञ्च । अष्टाङ्गुलन्यासं द्वादशाङ्गुलदीर्घं चतुर्थम् । तेन द्वे । धिष्ण्यदीर्घं अष्टाङ्गुलन्यासमेकं पञ्चमम् । तेनैका । एवं समस्ताः षट्षष्टिरिष्टकाः । मण्डलपक्षे आग्नीध्रीयहोत्रीयाष्टेष्टकमार्जालीयानां चत्वारि करणानीष्ट- काश्च द्रष्टव्याः ॥ ४१ ॥ [ इति धिष्ण्यानामुपधानप्रकारः । ] उख्यभस्मना संसृज्येष्टकाः कारयेदिति । संवत्सरभृत एवैत- दुपपद्यते न रात्रिभृतः । एवमस्य मन्त्रवती चितिकॢप्तिः ॥ ४२ ॥ इष्टकानिर्माणे विशेषमाह—उख्येति । उख्यभस्मना मृदं संयोज्य तयैवेष्टकाः कुर्यात् । संवत्सरेति । संवत्सरोख्यभरणपक्ष इदं संभवति । संव- त्सरग्रहणं मासादीनामुपलक्षणम् । तदपि उख्यया भस्मसंसृष्ट्या मृदेष्टकाकरण- संभवात् । न रात्रिभृत इति रात्रिपदे चोदना अतिरात्रप्रभृत्याविंशद्रात्रं चोदितकल्पेष्वयं नियमो वोपपद्यते । तेषु उख्यभस्मसंसृष्टमृदा तत्करणा- संभवात् संवत्सरभरणपक्ष एव ज्यायानिति स्तौति--एवमिति । एवं उख्यसंसृष्टमृदेष्टकाकरणे अस्य यजमानस्य चितिकॢप्तिरिष्टकाकरणं मन्त्रयुक्तं भवति ॥ ४२ ॥ उख्येति । उख्यभस्मना संसृज्येष्टकाः कारयेदिति शाखान्तरीयवचनमस्ति । संवत्सरमुख्यं बिभर्त्तीति संवत्सरभृद् यजमानः । एतदुख्यभस्मना संसृज्येष्टका- करणम् । संवत्सरेति । रात्रिशब्देन तिस्रो रात्रीर्दीक्षितः स्याद् इत्यादि रात्रिशब्देन विहितदीक्षाकल्पाः लक्ष्यन्ते । त्रिंशद्रात्रिपर्यन्तेषु दीक्षाकल्पेषु प्रवृत्तस्य नोपपद्यते । संवत्सरशब्दोऽपि मासादिकल्पस्योपलक्षणम् । तावन्मात्रेणापि कालेन इष्टका- करणस्य शक्यत्वात् । तत्परत्वाद् वाक्यस्य । एवमिति । अस्य यजमानस्य मन्त्रेण कृतायामुखायां मन्त्रेण संस्कृतस्योख्यस्य भस्मना संसृष्टत्वाद् इष्टकाकॢ- प्तिर्मन्त्रवतीति ॥ ४२ ॥ [ इति इष्टकानिर्माणे विशेषः । ] छन्दश्चितं त्रिषाहस्रस्य परस्तात् चिन्वीत । कामविवेकात् । तस्य रूपं श्येनाकृतिर्भवतीति प्रकृतित्वात् ॥ ४३ ॥ छन्द इति । त्रिसाहस्रस्य परस्ताच्छन्दश्चितं चिन्वीत । श्येनस्य Nepal Sanskrit University, Balmeeki Campus, Kathmandu