बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 106, कुल 366 में से
संदर्भ में पढ़ें७६ शुल्बसूत्रम् [ द्वितीयो-
प्रकृतित्वेन श्येनचित् त्रिषाहस्रं कृत्वा, छन्दःशब्दस्योपलक्षणपरत्वेन छन्द- श्चित्कङ्कादीनां विकृतित्वेन पश्चादनुष्ठानं केचिदाहुस्तदनुपपन्नम्। श्येनस्य त्रिषाहस्रपर्यन्तमनवच्छिन्नतयानुष्ठानं कृत्वा पश्चात् कङ्कादीनामनुष्ठान- मित्यत्र प्रमाणाभावात्। ननु त्रिषाहस्रस्य परस्ताच्छन्दश्चितं चिन्वीतेति सामान्यनिर्देशेऽपि श्येनचित्यादावनुष्ठानोपक्रमात्। अस्मिन्नेव त्रिषाह- स्रपर्यन्तमनुष्ठानं कृत्वा तदनन्तरमितरेषामनुष्ठानमिति चेत्, एवं तर्हि कङ्कादिष्वपि त्रिषाहस्रपर्यन्तमनुष्ठीय अन्तराग्न्यन्तरानुष्ठानं न स्यात्। ननु श्येनचिदिव त्रिषाहस्रपर्यन्तमनुष्ठानम् अग्न्यन्तराणामपि अस्तु इति चेन्न; त्रिषाहस्रानुष्ठानानन्तरं जानुदघ्नस्य वा ग्रीवादघ्नस्य वा अनुष्ठान- मिति द्वैधे नियमितत्वात् प्रत्येकं त्रिषाहस्रानुष्ठानाप्रसक्तेः। अतो यस्य कस्याप्यग्नेः त्रिषाहस्रानन्तरं छन्दश्चयनं कर्तव्यम्। युक्तञ्चैतत्। तथाहि “साहस्रं चिन्वीत प्रथमं चिन्वानः, द्विषाहस्रं चिन्वीत द्वितीयं चिन्वानः, त्रिषाहस्रं चिन्वीत तृतीयं चिन्वान” इति जानुदघ्नादिक्रमेणाम्नातानां सहस्रादीनां प्रथमादिभावेन त्रिषाहस्रानन्तर्यस्यैव युक्तत्वात्। ननु त्रिषा- हस्रानन्तरमपि छन्दश्चितेरनुष्ठानं न प्राप्नोति। जानुदघ्ना वा ग्रीवा- दघ्ना वा कार्या इति परिमाणस्यानन्तरानुष्ठेयेष्वपि समाम्नानादिति चेत्। अनिन्दक( ? ) श्छन्दश्चिदाम्नानमहिम्ना च जानुदघ्ना वेत्या- दिनियमस्य तदितर(१)परिमाणकङ्कादिविषयत्वात्। यदि श्येनचित्येव त्रिषाहस्रपर्यन्तमनुष्ठानमङ्गीक्रियते तदा श्मशानचयनस्य नाभिदघ्नं द्विषा- हस्रं चाङ्गीकृत्य धर्मोपदेशो विरुद्धः स्यात्। (यदि ?) नाभिदघ्नं पुरस्ता- ज्जानुदघ्नं पश्चादित्यादि कल्पसूत्रमप्यनुपपन्नं स्यात्। तस्मात् श्येनानन्तरं श्येनकङ्कसमूह्यात् इत्थं नियमेन त्रिषाहस्रं कृत्वा त्रिषाहस्रस्य परस्ता- च्छन्दश्चितं चिन्वीतेति वचनबलात् त्रिषाहस्रानन्तरमेव छन्दश्चितोऽनुष्ठा- नमिति सिद्धम्। छन्दश्चित्कामाकृतिं आश्रयतीति पृच्छति--कामिति। उत्तरमाह--अविवेकादिति। श्रुतावाकृतिविशेषस्य अनिर्धारणात् प्रकृतिमेवाश्रयतीत्यर्थः॥४३॥