बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 107, कुल 366 में से
संदर्भ में पढ़ेंऽध्यायः ] बौधायनीयं ७७ इति श्रीमदद्वैतविद्याचार्य-साग्निचित्य श्रीव्यङ्कटेश्वरदीक्षितस्य कृतिषु बौधायनशुल्वमीमांसायाम् द्वितीयोऽध्यायः। छन्दश्चितमिति। छन्दांस्येव चीयन्त इति छन्दश्चित्। न तु छन्दोभिश्चीयत इति। कल्पे छन्दश्चिद् यत्र क चाहुतिरागच्छति जुहोत्येव तत्राथ यदन्यदाहुतिभ्यः शरीरवद् यजुरेवेति तत्र देशे जपेदिति (बौ० श्रौ० सू० १०।२८) वचनात्। तत्र शरीर- वदिष्टकाद्रव्यवदित्यर्थः। कर्मान्ते च अग्निं विहरेदग्निरूपाणीति दर्शयेदित्युक्तम्। तत्र मिनुयादग्निं पक्षपुच्छादिविभागेन रूपाणि दर्शयेद्। इष्टकारूपाणि अर्धेष्टका- पादेष्टकारूपाणि। तत्तद्देशे यथास्थानं लिखित्वा शुष्केष्टकासूपधानमन्त्रं जपेदि- त्यर्थः। तस्माच्छन्दांस्येव चीयन्त इति छन्दश्चित्। त्रिषाहस्रस्य परस्ताच्चिन्वीत। ब्राह्मणक्रमात्तु पूर्वानुष्ठानम्। तस्माच्छयेनचितः प्रकृतित्वात् त्रिषाहस्रस्यान्ते प्रकृत्य- नुष्ठानपरिसमाप्तिरित्यभिप्रेत्योक्तं त्रिषाहस्रस्य परस्ताच्चिन्वीतेति। प्रकृतिं कृत्वैव विकृतेरधिकार इत्येकविधप्रसङ्गादुक्तम्। अनेन प्रक्रम्य त्रिषाहस्रपर्यन्तं चित्त्वैव विकृतेश्चयनमिति गम्यते। उक्तमर्थं साधयितुं हेतुमाह—कामेति। फलभेदात् काम्य- त्वात् परस्तादेवेत्यर्थः। तस्येति। तत्र मंत्ररूपमात्रत्वेऽपि इष्टकारूपाणि दर्शये- दित्युक्तत्वात्। आकृत्यपेक्षायां प्रकृतित्वाच्छयेनाकृतिर्भवतीति। अन्ये त्वाहुः। छन्दश्चितं त्रिषाहस्रस्य परस्ताच्चिन्वीत कामम्। छन्दश्चित् कामाकृतिमाश्रयति इति शेषः। अविवेकात् आकृतेरनुक्तत्वात्। विविच्येयमिति वचनाभावादित्यर्थः। तस्य रूपं श्येनाकृतिर्भवतीति। प्रकृतित्वात्। इति करणः परिभापासमाप्त्यर्थः॥ ४३॥ टीका भट्टात्मजेनेयं द्वारकानाथयज्वना। द्वितीयो व्याकृतोऽध्यायस्त्वग्नीनां धर्मवाचकः॥ इति बौधायनीये शुल्बसूत्रव्याख्यायां शुल्बदीपिकायां द्वितीयोऽध्यायः।