भारतकोश
संग्रह पर लौटें

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

ऽध्यायः ] बौधायनीयं ७७ इति श्रीमदद्वैतविद्याचार्य-साग्निचित्य श्रीव्यङ्कटेश्वरदीक्षितस्य कृतिषु बौधायनशुल्वमीमांसायाम् द्वितीयोऽध्यायः। छन्दश्चितमिति। छन्दांस्येव चीयन्त इति छन्दश्चित्। न तु छन्दोभिश्चीयत इति। कल्पे छन्दश्चिद् यत्र क चाहुतिरागच्छति जुहोत्येव तत्राथ यदन्यदाहुतिभ्यः शरीरवद् यजुरेवेति तत्र देशे जपेदिति (बौ० श्रौ० सू० १०।२८) वचनात्। तत्र शरीर- वदिष्टकाद्रव्यवदित्यर्थः। कर्मान्ते च अग्निं विहरेदग्निरूपाणीति दर्शयेदित्युक्तम्। तत्र मिनुयादग्निं पक्षपुच्छादिविभागेन रूपाणि दर्शयेद्। इष्टकारूपाणि अर्धेष्टका- पादेष्टकारूपाणि। तत्तद्देशे यथास्थानं लिखित्वा शुष्केष्टकासूपधानमन्त्रं जपेदि- त्यर्थः। तस्माच्छन्दांस्येव चीयन्त इति छन्दश्चित्। त्रिषाहस्रस्य परस्ताच्चिन्वीत। ब्राह्मणक्रमात्तु पूर्वानुष्ठानम्। तस्माच्छयेनचितः प्रकृतित्वात् त्रिषाहस्रस्यान्ते प्रकृत्य- नुष्ठानपरिसमाप्तिरित्यभिप्रेत्योक्तं त्रिषाहस्रस्य परस्ताच्चिन्वीतेति। प्रकृतिं कृत्वैव विकृतेरधिकार इत्येकविधप्रसङ्गादुक्तम्। अनेन प्रक्रम्य त्रिषाहस्रपर्यन्तं चित्त्वैव विकृतेश्चयनमिति गम्यते। उक्तमर्थं साधयितुं हेतुमाह—कामेति। फलभेदात् काम्य- त्वात् परस्तादेवेत्यर्थः। तस्येति। तत्र मंत्ररूपमात्रत्वेऽपि इष्टकारूपाणि दर्शये- दित्युक्तत्वात्। आकृत्यपेक्षायां प्रकृतित्वाच्छयेनाकृतिर्भवतीति। अन्ये त्वाहुः। छन्दश्चितं त्रिषाहस्रस्य परस्ताच्चिन्वीत कामम्। छन्दश्चित् कामाकृतिमाश्रयति इति शेषः। अविवेकात् आकृतेरनुक्तत्वात्। विविच्येयमिति वचनाभावादित्यर्थः। तस्य रूपं श्येनाकृतिर्भवतीति। प्रकृतित्वात्। इति करणः परिभापासमाप्त्यर्थः॥ ४३॥ टीका भट्टात्मजेनेयं द्वारकानाथयज्वना। द्वितीयो व्याकृतोऽध्यायस्त्वग्नीनां धर्मवाचकः॥ इति बौधायनीये शुल्बसूत्रव्याख्यायां शुल्बदीपिकायां द्वितीयोऽध्यायः।

अथ तृतीयोऽध्यायः । अथ वै भवति श्येनचितं चिन्वीत सुवर्गकाम इति ॥ १ ॥ अथेदानों श्येनस्य प्रकृतित्वेन प्रथममनुष्ठेयत्वात्तत्स्वरूपं दर्शयति— अथेति । ब्राह्मणमिति शेषः । श्येनचितं चिन्वीत स्वर्गकाम इति सामा- न्यतः श्येनचिदाकारस्य स्वर्ग (फल ?) कत्वमवगम्यते ॥ १ ॥ आद्येऽध्याये सामान्येन सर्वक्षेत्रकरणमुक्तम् । द्वितीयेऽध्यायेऽग्नीनामविशे- षेण परिभाषा कथिता । छन्दश्चितश्चयनं विशेषाभावात् परिभाषासूत्रम् । इदानी- मग्नीनां सर्वेषामाकृतिविशेषं विवक्ष्याह । अथेति । श्येन इव चित् श्येन- चित् ॥ १ ॥ आकृतिद्वैविध्यं चतुरश्रात्मा श्येनाकृतिश्च विज्ञायते ॥ २ ॥ आकृतीति । श्येनचित आकृतिद्वैविध्यमित्यर्थः । श्रुतिचोदितश्येन- चिदाकृतिभेदो द्विविध इति यावत् । ननु श्येनचिद्विधायकवाक्ये श्येनचितो द्वैविध्याप्रतीतेः कथं श्येनचिद् द्विविध इत्याशङ्क्य “वयसां वा एषः प्रति- मया चीयत” इति वयःप्रतिमाकारतया श्येनचितो विधानात् , “समचतुर- श्राभिरग्निं चिनुत” इति समचतुरश्राकारतया च श्येनचितो विधा- नात् , श्येनचित आकृतिद्वयमपि सम्भवति इत्याह चतुरश्रात्मेति । श्येनचित आत्मा समचतुरश्र इत्यर्थः । समचतुरश्राकारतया कर्त्तव्यस्य श्येनचित आत्मा समचतुरश्र इति यावत् । श्येनाकृतिश्चेति । श्येनस्य आकृतिरिव आकृतिर्यस्य सः श्येनाकृतिरित्यर्थः । वयःप्रतिमाकारतया कर्त्तव्यस्य श्येनचितः श्येनाख्यपक्ष्याकृतिरिति यावत् ॥ २ ॥ आकृतिरिति । प्रतिज्ञातस्य श्येनस्य रूपद्वैविध्यम् । अस्तीति वाक्यशेषः । तदेव- दर्शयति । चतुरश्रात्मेति । आकृतिसंहितो बहुव्रीहिः । चतुरश्र आत्मा यस्य स चतुर- श्रात्मा श्येनचित् । अथवा चतुरस्र आत्मा श्येनचित इति वाक्यशेषः । श्येनस्येवा- कृतिर्यस्येति श्येनाकृतिः । कारणमाह—विज्ञायत इति । श्रुतिरवगम्यते ॥ २ ॥

ऽध्यायः ] बौधायनीयं ७६ उभयं ब्राह्मणम् । पञ्चदक्षिणायां श्रोण्यामुपदधाति पञ्चो- त्तरस्यां । वस्तो वय इति दक्षिणेंऽस उपदधाति । वृष्णिवर्च इत्युत्तरे । व्याघ्रो वय इति दक्षिणे पक्ष उपदधाति । सिंहो वय इत्युत्तरे । पुरुषो वय इति मध्य इति च ॥ ३ ॥ उभयमिति । “वयसां वा एष” इति, “समचतुरश्राभि”रिति वक्ष्य- माणश्रुतिवाक्याभिप्रायेण उभयं ब्राह्मणमित्युक्तम् । ननु समचतुरश्राकारोऽपि श्येनचित्कर्त्तुं शक्यत इत्युक्तं तदनुपपन्नम् । “नापक्षपुच्छश्येनो विद्यत इति” सपक्षपुच्छः श्येन इत्युक्तत्वाच्चतुरश्राकारतया कर्त्तव्यस्य पक्षपुच्छादीनां (अ १) प्राप्तेः तादृशस्य श्येनचित्त्वमेव नास्तीत्यत आह—पञ्चेति । अत्रोभयसाधारण्येन पक्षादिष्विष्टकोपधानविधानाच्चतुरश्राकारस्य पूर्वोक्तप्रकारेण श्येनचित्त्वम् । “दक्षिणे पक्ष उपदधाती”त्यादिश्रुतेः सपक्ष- पुच्छश्येनाकृतिविषयत्वेनाप्युपत्तेरिति चेन्न, “श्येनचितं चिन्वीत सुवर्गकाम” इत्येतत्प्रकरणस्थत्वेन “समचतुरश्राभिरसि चिनुत” इति श्रुतेरेतद्वाक्यवि- हितसमचतुरश्राकारस्य श्येनचित्त्वावश्यंभावेन सपक्षपुच्छतानियमस्य वक्तव्यत्वात् । किञ्चाविशेषेण प्रकृतस्य “दक्षिणे पक्षे” इत्यादेः श्येनाकृति- मात्रविषयत्वे प्रमाणञ्च न पश्यामः । आकृतिद्वैविध्ये सामान्येन ब्राह्मण- मुक्तं भवति ॥ ४ ॥ सा च श्रुतिः किं ब्राह्मणं ? आहोस्वित् मन्त्रः ? इति तत्राह उभयमिति । भवतीति वाक्यशेषः । उभयं वाक्यं ब्राह्मणमेव भवति । तदपि दाशतय्या विज्ञायते । प्र सप्तगुमृत्तधीतिमवर्त्या इति ( बौ० श्रौ० सू० २५।४पृ०२३२ ) शुन इत्यादिवन्मन्त्र इत्यर्थः । चतुरस्रात्मत्वे ब्राह्मणलिङ्गमुदाहरति । पञ्चेति । तत्र अंसश्रोण्यादिशब्दानां चतुरस्रश्येनस्यैव मुख्यत्वादिति भावः ॥ ३ ॥ अथापरं वयसां वा एष प्रतिमया चीयते यदग्निरिति ॥ ४ ॥ विशेषाकृतिद्वये ब्राह्मणद्वयं क्रमेणोदाहरति—अथापरमित्या- दिना ॥ ४ ॥

८० शुल्वसूत्रम् [ तृतीयो- अथ श्येनाकृतिब्राह्मणमुदाहरति । अथापरमिति । वयसां पक्षिणाम् । प्रतिमया प्रतिबिम्बेन । यः प्रतिज्ञातोऽग्निः स एषः पक्षिणामाकृतिप्रतिमया रूपेण चीयत इत्यर्थः ॥ ४ ॥ उत्पततां छाययेत्यर्थः ॥ ५ ॥ अथ पक्षिणः स्थित्यवस्थायां पक्षविस्ताराद्यसंभवादाह--उत्पत- तामिति । उच्चैः पतन्ति गच्छन्तीत्युत्पतन्ति तेषाम् । प्रतिमयेत्यस्य व्याख्यानं छाययेति सादृश्येनेत्यर्थः ॥ ५ ॥ ब्राह्मणे प्रतिमयेति श्रुतत्वात् किं तुण्डदृष्टिश्रोत्राद्यवयवयुक्तेन ? नेत्याह । उत्पततामिति । इति ब्राह्मणे श्रुतस्य प्रतिमाशब्दस्य अर्थ इत्यर्थः ॥ ५ ॥ समचतुरश्राभिरग्निं चिन्वीत दैवस्य मानुषस्य च व्यावृत्त्या इति मैत्रायणीयब्राह्मणं भवति ॥ ६ ॥ चतुरश्राकारश्येनचिति ब्राह्मणमुदाहरति--समचतुरश्राभिरिति । समचतुरश्राणामेवेष्टकानां चयन(त्व)विधानात् सपक्षपुच्छस्य श्येनचितश्च- तुरश्राकारत्वं लभ्यते ॥ ६ ॥ अथ चतुरस्राणामप्यग्नीनां पूर्वोदाहरणेन गौण्या वृत्त्या श्रोण्यंससहितात्म- संभवात् चतुरस्रैकविषयं ब्राह्मणान्तरमुदाहरति । समचतुरस्राभिरिति । समचतुरस्राभि- रिष्टकाभिः । मानुषं लौकिकम् । लोके आयतचतुरस्राभिरनियतरूपाभिर्वा प्रासादा यः क्रियन्ते तस्माद् दैवस्य मानुषस्य च व्यावृत्त्यै समचतुरस्राभिरेव चिन्वीतेति ब्राह्मणस्यार्थः । समचतुरस्राभिरेव श्येनाकृतेः कर्तुमशक्यत्वात् समचतुरस्रार्थता सिद्धा अस्य ब्राह्मणस्य ॥ ६ ॥ [ इति श्येनचिदाकारनिरूपणम् । ] तस्येष्टकाः कारयेत् पुरुषस्य चतुर्थेन पञ्चमेन षष्ठेन दश- मेनेति ॥ ७ ॥ चतुरश्रश्येनचित इष्टकाकरणमाह--तस्येष्टका इति । पुरुषस्य विशं- त्यधिकशताङ्गुलप्रमाणस्य चतुर्थेन सर्वतस्त्रिंशदङ्गुलेन । पञ्चमेन सर्वतो- ऽरत्निप्रमाणेन । षष्ठेन सर्वतोविंशत्यङ्गुलप्रमाणेन । दशमेन सर्वतो द्वादशाङ्गुलप्रमाणेन करणेन समचतुरश्रैष्टकाः कारयेत् ॥ ७ ॥ तस्येष्टका इति । तस्य चतुरश्रश्येनचितः । पुरुषस्य चतुर्थेन त्रिंशदङ्गुलेन पुरुष- क्षेत्रवर्गस्य षोडशधा विभागः । पञ्चमेन अरत्निना पुरुषक्षेत्रवर्गस्य पञ्चविंशो भागः ।

अध्यायः ] बौधायनीयं ८१ षष्ठेन पुरुषस्य विंशत्यङ्गुलेन पुरुषक्षेत्रस्य षट्त्रिंशांशः। दशमेन प्रादेशेन पुरुषक्षेत्रस्य शतांशः। इतिकरणः करणसमाप्त्यर्थः। एवं चत्वारि करणानि। प्रथमेन षण्णव- तिरिष्टकाः। द्वितीयेन दशाधिकं षट्शतम्। तृतीयेन चतुस्त्रिंशाधिकं शतद्वयम्। चतुर्थेन षष्टिः। तत्र चोडानाकसदश्चतस्रः पञ्चम्यः। षट् षड्भागीयाः ॥ ७ ॥ अथाग्निं विमिमीते ॥ ८ ॥ असिक्षेत्रमानमाह—अथाग्निमिति। असिः असिक्षेत्रम् ॥ ८ ॥ अथाग्निमिति। उख्यभस्मना संसृज्येष्टकाः कारयेदिति २४२) वचनाद्दीक्षित- स्येष्टकाः कृत्वा अनन्तरं दीक्षान्त्यदिवसेऽग्निं विमिमीते। रात्रिभरणपक्षे अग्नि- विमाने न दीक्षादिलक्षणा। अथाग्निं विमिमीत इति यत्रास्ति तत्र अथशब्दस्य अयमर्थः ॥८॥ यावान् पुरुष ऊर्ध्वबाहुस्तावदन्तराले वेणोश्छिद्रे करोति। मध्ये तृतीयम्। यदमुत्र स्पन्द्यया करोति तदिह वेणुना करोति ॥ ९ ॥ यावानिति। पुरुषः यजमानः। ऊर्ध्वं प्रसारितभुजो यावान् भवति तावदन्तरालं ययोस्ते तावदन्तराले। छिद्रे करोति इति। पुरुषप्रमाणादुभयत- श्छिद्रार्थं किञ्चिदधिकं वेणुं परिगृह्य पुरुषप्रमाणाद् बहिरेव छिद्रद्वयं कुर्या- दित्यर्थः। मध्य इति। छिद्रयोर्मध्येऽपि वेणोश्छिद्रं तृतीयं करोति। ननु उभयतःपाशया मध्ये चिह्नितया पुरुषमात्रया स्पन्द्ययापि क्षेत्रमानसम्भवे किमुच्यते वेणोरिति ? अत आह—यदमुत्रेति। अन्यक्षेत्रमानादिषु स्पन्द्यया यद् यत् करोति तदिहासिक्षेत्रमाने। “वेणुना विमिमीत” इति श्रुतेरिति भावः ॥ ६ ॥ मानप्रकारमाह। यावानिति। यावत् प्रमाणं पुरुषो यजमान ऊर्ध्वबाहुः। अनेन लौकिकपुरुष उक्तो भवति। यजमानारत्निना पारिभाषिकः पञ्चारत्निः। इष्टकाकरणे यः पुरुषः परिगृहीतस्तेनाग्निं विमिमीते। (इष्टकाकरणे यः पुरुषः अग्निमानेऽपि स एव भवति इति टिः)। तावदन्तराले पुरुषमात्रान्तराले ययो- श्छिद्रयोस्ते तथोक्ते। प्रमाणात् किञ्चिदतिरिक्तं वेणुं परिगृह्य पुरुषप्रमाणमन्तरालं यथा भवति तथा अन्त्योश्छिद्रं करोति। तत्र छिद्राभ्यन्तरार्धयोः पुरुषप्रमाणे- ऽन्तर्भावः। मध्य इति। करोतीति शेषः। यदमुत्रेति। अमुत्र क्षेत्रकरणे। उभयतः पाशस्थानीयेऽन्त्ये छिद्रे। मध्यच्छिद्रं लक्षणस्थानीयम् ॥ ९ ॥ ११

८२ शुल्बसूत्रम् [ तृतीयो· तस्यात्मा समचतुरश्रश्चत्वारः पुरुषाः । पक्षः समचतुरश्रः पुरुषः । स तु दक्षिणतोऽरत्निना द्राघीयान् । एतेनोत्तरः पक्षो व्याख्यातः । पुच्छं समचतुरश्रः पुरुषः । तमवस्तात् प्रादेशेन वर्धयेत् । एवं सारत्निप्रादेशः सप्तविधः संपद्यते ॥१०॥ तस्यात्मेति । तस्य चतुरश्रश्येनचितः । आत्मा पक्षपुच्छव्यतिरिक्त- प्रदेशः । समचतुरश्रा इति । पुरुषचतुष्टयपरिमित इत्यर्थः । पुरुषद्वय- प्रमाणेन सर्वतश्चतुरश्रं कुर्यादिति यावत् । पक्ष इति । पक्षपुच्छे सर्वतः पुरुषप्रमाणे । आत्मनो दक्षिणोत्तरपश्चाद्भागे (अरत्निभ्यां ?) प्रादेशेन (च ?) वर्धयेदित्यर्थः । एवं सारत्निप्रादेश इति । “यूपावटी- याच्छङ्कोरर्धप्रक्रममवशिष्ट्यानुपृष्ठ्यं पुरुषं वेणुं निधाय छिद्रेषु शङ्कून्नि- हत्योन्मुच्याऽपराभ्यां दक्षिणाप्राक् परिलिखेदान्ताच्चक्षुमिताच्चतुरश्र- पूर्वान्तादुन्मुच्य पूर्वस्मादपरस्मिन् प्रतिमुच्य दक्षिणाप्रत्यक् परिलिखेदा- न्तादुन्मुच्य वेणुं मध्यमे शङ्कावन्त्यवेणोश्छिद्रं प्रतिमुच्योपर्य्युपरि लेखा- समरे दक्षिणां वेणुं निधायान्त्यच्छिद्रे शङ्कुं निहत्य तस्मिन् मध्यमवेणोश्छिद्रं प्रतिमुच्य पूर्वापरे छिद्रे लेखान्तयोर्यत्र निपतितस्तत्र प्रतिष्ठाप्य छिद्रयोः शङ्कून्निहन्ति, स पुरुषश्चतुरश्रः । एवं प्रदक्षिणं चतुर आत्मनि पुरुषा- नवमिमीते । “पुरुषं दक्षिणे पक्षे पुरुषं पुच्छे पुरुषमुत्तरे पक्षे” इति (बौधा. श्रौ. सू. ) एवं पूर्वोक्तप्रकारेण सारत्निप्रादेशः अरत्निभ्यां प्रादेशेन च सहितः सप्तपुरुषप्रमाणोऽपि संपद्यत इत्यर्थः ॥ १० ॥ तस्यात्मेति । प्रधाना वयवत्वात् पक्षपुच्छव्यतिरिक्तांश आत्मेत्युच्यते । आत्मनः प्रमाणं द्विपुरुषप्रमाणकरणीकसमचतुरस्रमित्यर्थः । पक्ष इति । दक्षिणः पक्षः पुरुष- प्रमाणकरणीकः समचतुरस्रः। आत्ममध्येन पक्षमूलमध्यसंधानम् । सत्विति । स पक्षः दक्षिणान्ते पुरुषमात्रायामेनाऽरत्निना द्राघीयान् दीर्घतरः । दक्षिणोत्तरेण षडरत्निरित्यर्थः । पुच्छमिति । पुरुषप्रमाणकरणीकः। प्राञ्चमेन (२।१५) मित्युक्तत्वात् पश्चात् पुच्छं भवति । मध्ये संधानञ्च । : तमवस्तादिति । पूर्वापरेणैकादशप्रादेशप्रमाण इत्यर्थः । एवमिति । आत्मा चत्वारः पुरुषाः । पक्षपुच्छास्त्रयः पुरुषाः । पक्षयोररत्निभ्यां पुच्छे प्रादेशेन

ऽध्यायः ] बौधायनीयं ८३ पुरुषायामं अर्धपुरुषन्यासं अर्धपुरुषक्षेत्रं सम्भवति । एवं सप्तविधः अर्धा- ष्टमविधोऽग्निः संपद्यते । अत्र कल्पे अरत्निना वा पक्षौ द्राघीयांसौ भवत इति प्रादेशवृद्धेर्वैकल्पिकत्वमुक्तम् । तच्छाखान्तरे एवमप्यस्तीति ज्ञापनार्थम् ( नानुष्ठा- नार्थमिति टिः ) तस्मिन् पक्षे क्वचिदपि प्रयोगानुपदेशात् । अथ वेणुना मानमुच्यते । यूपावटीयाच्छङ्कोरर्धप्रक्रममवशिष्य अनुपृष्ठ्यं वेणुं निधाय छिद्रेषु शङ्कन् निहत्य उन्मुच्य अपराभ्यां दक्षिणाप्राक् परिलिखेद् आ अन्तात् । अत्र चक्षुर्निर्मितात् चतुरस्रपूर्वान्तात् उन्मुच्य पूर्वस्मादपरस्मिन् प्रतिमुच्य दक्षिणाप्रत्यक् परिलिखेद् आ अन्तात् । उन्मुच्य वेणुं मध्यमे शङ्कावन्त्यं वेणोश्छिद्रं प्रतिमुच्य उपर्युपरि लेखासमरं दक्षिणा वेणुं निधायान्त्ये छिद्रे शङ्कुं निहत्य तस्मिन् मध्यमं वेणोश्छिद्रं प्रतिमुच्य पूर्वापरे छिद्रे लेखान्तयोर्यत्र निपततस्तत्र प्रतिष्ठाप्य छिद्रयोः शङ्क निहन्ति । स पुरुषश्चतुरस्रः । एवं प्रदक्षिणं चतुर आत्मनि पुरुषानवमिमीते । पृष्ठ्यायां पूर्वयोश्चतुरस्रयोः पश्चाच्छङ्कुः । अपरयोः पौरस्त्यम् । पुरुषं दक्षिणे पक्षे । दाक्षिणात्यानां पञ्चानां मध्यमेषु त्रिषु वेणुं प्रतिमुच्य उन्मुच्यापराभ्यामित्यादि । पुरुषं पुच्छे । पाश्चात्यानां त्रयाणां दक्षिणयोरन्त्ये छिद्रे प्रतिमुच्य मध्यमे छिद्रे शङ्कुं निहन्यात् । एवमुत्तरयोः । एवं स्थितानां पञ्चानां मध्यमेषु त्रिषु तिर्यञ्चं वेणुं प्रतत्य उन्मुच्य उत्तराभ्यामिति द्रष्टव्यम् । पुरुषमुत्तरे पक्षे । दक्षिणपक्षवत् । वेणोः पञ्चमे लक्षणं कृत्वा तेन पक्षौ वर्धयेत् । एवं दशमे लक्षणं कृत्वा पुच्छम् ॥ १० ॥ [ इति चतुरश्रश्येनचिद्धिमानप्रकारः । ] उपधाने पक्षाग्रादुत्तरतः पुरुषतृतीयवेलायां चतस्रः पञ्चम्यः । तासामभितो द्वे द्वे पादेष्टके । ततोऽष्टौ चतुर्थ्यः । पक्षशेषं षड्भागीयाभिः प्रच्छादयेत् । एतेनोत्तरः पक्षो व्याख्यातः ॥११॥ इष्टकोपधानप्रकारमाह—उपधान इति । पक्षाग्रादुत्तरतः दक्षिण- पक्षस्याग्रात् दक्षिणान्त्यपाश्चाद्दारभ्य उत्तरभागे । पुरुषतृतीयेति । तृतीया च सा वेला च तृतीयवेला । पुरुषतृतीयवेलायां त्यक्तायामित्यर्थः । वेलाशब्देन अंश उच्यते । दक्षिणपक्षस्य दक्षिणप्रदेशादारभ्य चत्वारिंश- दङ्गुलं विहाय तत उत्तरभागे । चतस्र इति । चतस्रः पञ्चम्यः सर्व-

८४ शुल्बसूत्रम् [ तृतीयो- तोऽरत्निप्रमाणका उपदध्यादिति पक्षाग्रादुत्तरत इत्युक्त्या एवमव- गम्यते । तासामिति । तासां पञ्चमीनां अभितः पूर्वपश्चिमयोः पार्श्वयोः द्वे द्वे पादेष्टके, (दक्षिणोत्तरे ) (पञ्चम्याः पादेष्टके इत्यर्थः ?) सर्वतः प्रादेश- प्रमाणके । ततोऽष्टाविति । ततस्तस्मात् प्रदेशादुत्तरे भागे अष्टौ चतुर्थ्यः सर्वतः प्रक्रमप्रमाणकाः । पक्षशेषमिति । उभयोः (?) पक्षशेषं अवशिष्ट- प्रदेशं षड्भागीयाभिः सर्वतो विंशत्यङ्गलप्रमाणेष्टकाभिः प्रच्छादयेदित्यर्थः । पक्षस्याग्रे पूर्वत्यक्तप्रदेशे द्वादशषड्भागीया । पक्षोत्तरपार्श्वे ( षट् ? ) षड्- भागीया उपदध्यादिति यावत् । एतेनोत्तर इति । दक्षिणपक्षे यथोपधानं तथोत्तरपक्षे उपदध्यादित्यर्थः ॥ ११ ॥ उपधान इति। चतस्रः पञ्चम्यः। पक्षाग्रादुत्तरत उपधानम्। दक्षिणान्तादुत्तरतः। पुरुषतृतीयवेलायां चत्वारिंशदङ्गुलप्रमाणवेलायामतीतायामित्यर्थः । अन्यथा उत्तरत्र पूरणासम्भवात् । पश्चात् पुरस्ताच्च प्रादेशमवशिष्य मध्ये पूर्वापराश्चतस्रः पञ्चम्यः । तासां पञ्चमीनां पश्चात् पुरस्ताच्च अवशिष्टक्षेत्रे द्वे द्वे दशम्यवित्यर्थः । ततविति । उत्तरत इत्यनुवर्त्तते । पञ्चमीरीत्या उत्तरतस्तृतीयेन पूर्वापरा अष्टौ चतुर्थ्य इत्यर्थः । अष्टौ चतुर्थ्य उपदध्यात् । चतसृभिश्चतसृभिरेकैका रीतिः । पक्षशेषमिति । अनुपहितं क्षेत्रं षड्भागीयाभिः षष्ठेनेत्युक्तेः । तत्र पञ्चमीभ्यो दक्षिणतो द्वादश । चतुर्थीभ्य उत्तरतः षड्भिरेका रीतिः । एवमष्टादश । एवं पक्षे चतुस्त्रिंशदिष्टकाः । एतेनोत्तर इति । एतेनोपधानप्रकारेण । पक्षाग्राद् दक्षिणतः पुरुषतृतीयवेलायामि- त्याद्यूहनीयम् ॥ ११ ॥ पूर्वापरयोः पुच्छपार्श्वयोश्चतुर्भागीया उपदध्यात् । दक्षिणो- त्तरयोः पादेष्टकाः ॥ १२ ॥ पूर्वापरयोरिति । चतस्रश्चतस्र उपदध्यात् । दक्षिणोत्तरयोरिति । दक्षिणोत्तरयोः पार्श्वयोः षट् षट् पादेष्टकाः ॥ १२ ॥ पूर्वापरयोरिति । पुच्छस्य पूर्वपश्चिमान्तयोश्चतस्रश्चतस्रः । दक्षिणोत्तरयोरिति । पार्श्वयोरित्येव सामर्थ्यात् । षड्भिः षड्भिः ॥ १२ ॥ शेषमग्निं पञ्चमभागीयाभिः प्रच्छादयेत् । एष द्विशतः प्रस्तारः ॥ १३ ॥ शेषमिति । शेषं पञ्चमभागीयाभिः प्रच्छादयेत् । आत्मनि शतं पुच्छ- मध्ये द्वादश । एवमिति । एवं द्विशतः प्रस्तारः ॥ १३ ॥

ऽध्यायः ] बौधायनीयं ८५ शेषमिति । पुच्छस्य मध्यमो भाग आत्मा च शेषः । एष इति । सिद्धस्य पुनर्वचनेन “पञ्चमायां वा चितौ संख्यां पूरयेद्” (२।१०) इत्यत्रापि द्विशतोऽस्तीति सूचयति । एवं पक्षयोरष्टषष्टिः । पुच्छे द्वात्रिंशत् । आत्मनि शतम् । चतुर्थ्यश्चतु र्विंशतिः । पञ्चम्यो विंशत्यधिकं शतम् । षष्ठ्यः षट्त्रिंशत् । दशम्यो विंशतिः ॥१३॥ अपरस्मिन् प्रस्तारे पक्षाग्रादुत्तरतोऽर्धव्यायामवेलायां तिस्रस्तिस्रः षष्ठ्यो द्वे द्वे द्विपदे इति विपर्यासमुपदध्यात् । तथोत्तरे ॥ १४ ॥ अपरस्मिन्निति । द्वे पदे यस्याः सा द्विपदा । ते द्विपदे । प्रक्रम- प्रमाणके द्वे द्वे इष्टक इत्यर्थः । विपर्यासमिति । पूर्वापरप्रदेशयोर्मध्ये च तिस्रस्तिस्रः षड्भागीयाः सर्वतो विंशत्यङ्गुलप्रमाणकाः । दक्षिणश्रोणिसक्तौ उपदध्यात् । अन्तरालयोर्द्वे द्वे चतुर्थ्यौ दक्षिणोत्तरे उपदध्यादित्यर्थः । एवमुत्तरे पक्षे ॥ १४ ॥ अपरस्मिन् इति । विशेषो वक्ष्यत इति शेषः । पक्षदक्षिणान्तादारभ्योत्तरतोऽ- रन्निद्वयेऽतीते पक्षपश्चिमपार्श्वे उदीच्यस्तिस्रः षष्ठ्यः । ततः पुरस्ताद् दक्षिणोत्तरे द्वे द्वे द्विपदे चतुर्थ्यौ । ततस्तिस्रः षष्ठ्यः । ततो द्वे द्विपदे । ततः पूर्वपार्श्वे तिस्रः षष्ठ्यः । इतिरेवमित्यर्थे । एवं एता विपर्यस्योपदध्याद् इत्यर्थः । तथोत्तर इति । पक्ष उपदध्यादिति शेषः ॥ १४ ॥ दक्षिणस्यां श्रोण्यां नव षष्ठ्यश्चतुरश्रकृताः । तथोत्तर- स्याम् । नव नव षष्ठ्यो द्वे द्वे द्विपदे इति दक्षिणादंसादुत्तरा- दंसाद् विपर्यासमुपदध्यात् ॥ १५ ॥ दक्षिणस्यामिति । दक्षिणस्यां श्रोण्यां नव षष्ठ्यः सर्वतो विंशत्यङ्गुल- प्रमाणकाः यथा समचतुरश्रं भवति दक्षिणश्रोणिसक्तौ(तथा?)उपदध्यात् । तथोत्तरस्यामिति । एवमुत्तरस्यां श्रोण्याम् । अंसप्रदेशोपधानमाह— नव नवेति । नव नव षष्ठ्यः षड्भागीयाः, द्वे द्वे द्विपदे प्रक्रमप्रमाणके इति। दक्षिणादंसादिति । दक्षिणांसादारभ्य उत्तरांसपर्यन्तं विपर्यासं यथा भवति तथोपदध्यादित्यर्थः । आत्मनः अंससक्त्योर्मध्ये(च?)त्रिचतुरश्रकृताः नव- नव षष्ठ्यः । आसामन्तरालयोर्द्वे द्वे चतुर्थ्यावुपदध्यादिति यावत् ॥ १५ ॥

२. द्वितीय अध्याय: वर्ग-करण, मण्डल-करण (वृत्त का वर्गीकरण) एवं क्षेत्रफल-समीकरण

८६ शुल्वसूत्रम् [ तृतीयो- दक्षिणस्यामिति । आत्मनः दक्षिणस्यां श्रोण्यां षष्ट्यङ्गुलपरिमितं समचतुरस्रं क्षेत्रं परिगृह्य तत्र नव षष्ठ्य उपधेयाः । तयोत्तरस्यामिति । आत्मश्रोण्यां नव षष्ठ्यश्च- तुरस्रकृता इत्यर्थः । नव नवेति । आत्मनि दक्षिणांसे षष्ट्यङ्गुलपरिमितं सम- चतुरस्रं क्षेत्रं परिगृह्य तत्र नव षष्ठ्यः । तत उत्तरेण पूर्वापरे द्वे द्विपदे । तत उत्तरेण पूर्ववन्नव षष्ठ्यः । ततो द्वे द्विपदे । तत उत्तरांसे नव षष्ठ्यः । इतिरेवमित्यर्थे । एवं दक्षिणांसादारभ्योत्तरांसाद् विपर्यस्योपदध्यात् ॥ १५ ॥ शेषमग्निं पञ्चमभागीयाभिः प्रच्छादयेत् ॥ १६ ॥ शेषमिति । शेषमग्निमवशिष्टं क्षेत्रं पञ्चमभागीयाभिः प्रच्छादयेत् । पक्षयोरग्रप्रदेशयोः दश दश पञ्चमभागीयाः । आत्मपक्षसन्ध्योरग्रप्रदेशयोः दक्षिणोत्तरयोः पञ्च पञ्च पञ्चमभागीयाः । आत्मपक्षसन्ध्योः पञ्च पञ्च । तयोर्मध्ये पक्षसंमिताः नवरीतयः । पुच्छात्मसन्धौ पञ्च पञ्चम्यः । ततः पश्चात् पुच्छे पञ्चविंशतिः पञ्चम्यः समचतुरश्रं यथा भवति तथोपधेयाः । पुच्छात्मसन्धौ उपहिताभ्यः पुरस्तात् दश पञ्चम्यः दक्षिणोत्तरा दीर्घ- चतुरश्रं यथा भवति तथोपधेयाः । (दीर्घचतुरश्र) एवमवशिष्टक्षेत्रं प्रच्छाद- येदित्यर्थं ॥ १६ ॥ एष द्विशतः प्रस्तारः । व्यत्यासं चिनुयाद् यावतः प्रस्तारां- श्चिकीर्षेत् ॥ १७ ॥ एष इति । एवमेष द्विशतः प्रस्तार इति । ननु तृतीयप्रस्तारेऽपि यद्येवमेव उपधानं कुर्यात् तदा सन्ध्यपिधानरूपोऽग्निधर्मो न प्राप्नुयादित्यत आह—व्यत्यासमिति । पञ्च वा, दश, पञ्चदश वा यावतः प्रस्तारान् चिकीर्षेत् तावत्सु प्रथमवत्तृतीयं द्वितीयवच्चतुर्थम् एवमादिप्रकारेण व्यत्यासं विपरीतं चिनुयादित्यर्थः ॥ १७ ॥ यावतः प्रस्तारानिति । साहसे प्रथमः प्रस्तारस्त्रिरावर्तते । द्विषाहस्रे प्रथम- द्वितीयौ पञ्च पञ्च । त्रिषाहस्रे प्रथमः प्रस्तारः अष्टकृत्वः ॥ १७ ॥ अथापरः ॥ १८ ॥

ऽध्यायः ] बौधायनीयं ८७ पूर्वोक्तात्सिक्षेत्र एव इष्टकाकरणभेदात् अपरं चतुरश्रं श्येनचितमाह— अथापर इति ॥ १८ ॥ अथापर इति । चतुरस्रश्येनचितोऽपरः प्रकार उच्यत इति शेषः । अस्मद्- ब्राह्मणलिङ्गानुसारेणानियतरूपाइचयनप्रकारा वक्ष्यन्त इत्यर्थः ॥ १८ ॥ पुरुषस्य पञ्चम्यः । ता एवैकतोऽध्यर्धाः । तासामर्ध्याः पाद्याश्च ॥ १९ ॥ पुरुषस्येति । पुरुषस्य पञ्चम्यः सर्वतोऽरत्नप्रमाणकाः । ता एव एक- तोऽध्यर्धाः षट्त्रिंशदङ्गुलदीर्घाः चतुर्विंशत्यङ्गुलायामाः । (तासामिति । पञ्चमीनाम् । अर्ध्याः चतुर्विंशत्यङ्गुलदीर्घाः द्वादशाङ्गुलायामाः ?) पाद्याः सर्वतो द्वादशाङ्गुलाः ॥ १९ ॥ तत्र करणानि । पुरुषस्येति । सर्वतोऽरत्निमात्राः । ता एवैकत इति

८८ शुल्बसूत्रम् [ तृतीयो- दक्षिणोत्तरयोरिति । पश्चात् प्रादेशमवशिष्य पुरस्तादरत्निं चावशिष्य मध्ये उदगायताः ॥ २१ ॥ पुच्छस्यावस्ताच्चतस्रोऽर्धेष्टका उदीचीः । तासामभितो द्वे पादेष्टके । जघनेन पुच्छाप्यययोरेकैकामर्धेष्टकां प्राचीम् ॥२२॥ पुच्छस्यावस्तादिति । पुच्छस्य पश्चात्प्रदेशे (पुरस्तादरत्निं चावशिष्य) मध्य उपदध्यात् । पुच्छस्य पश्चाद् उदगायताश्चतस्रोऽर्धेष्टका दक्षिणोत्तरयोः श्रोण्योः प्रादेशमवशिष्य मध्ये उपदध्यात् । तासामिति । तासामभितः पुच्छश्रोण्योः एकैकां पादेष्टकामुपदध्यात् । जघनेनेति । जघनेन पुच्छाप्य- ययोरेकैकामर्धेष्टकां प्रागायतामुपदध्यात् ॥ २२ ॥ पुच्छस्येति । पार्श्वयोरुभयत्र प्रादेशमवशिष्य मध्ये उदगायताः । तासामिति । पुच्छश्रोण्योरित्यर्थः । दक्षिणस्यामेकाम् । उत्तरस्यामेकाम् । जघनेनेति । पूर्व- पुच्छपार्श्वयोरुपहिताध्यर्धाभ्यः पुरस्तात् । दक्षिणोत्तरपार्श्वयोरध्यर्धामूलसंहिते प्रागायते ॥ २२ ॥ शेषमग्निं पञ्चमभागीयाभिः प्रच्छादयेत् । एष द्विशतः प्रस्तारः ॥ २३ ॥ [ अत्र ग्रन्थः पतितः प्रथमप्रस्तारस्यान्तिमोंऽशः द्वितीयप्रस्तारस्य चोपक्रमो न दृश्यते ] ॥ २३ ॥ शेषमग्निमिति । पक्षशेषयोरष्टाचत्वारिंशत् । पुच्छशेषे द्वादश । आत्मनिशतम् । एष इति । तत्र पक्षयोर्द्विसप्ततिः । अष्टाविंशतिः पुच्छे । आत्मनि शतम् । अस्मिन् प्रस्तारे षष्टिः शतं पञ्चम्यः । अष्टावध्यर्धाः । त्रिंशदर्ध्याः । द्वेपादेष्टके ॥ २३ ॥ अपरस्मिन् प्रस्तारे आत्मस्रक्तिषु पादेष्टका उपदध्यात् । तासामभितो द्वे द्वे अर्धेष्टके । पूर्वस्मिन्ननीके पञ्च ॥ २४ ॥ (शेष) कोणेषु चतस्रः पादेष्टकाः । तासामिति । तासां पादेष्टकाना- मभितः पार्श्वयोर्द्वे द्वे अर्धेष्टके उपदध्यादित्यर्थः । दक्षिणांसोपहितपादेष्ट- कायाः पश्चा (त्प्रागा ? ) ( उदगा) यते द्वे अर्धेष्टके क्रमेण उपदध्यात् । तस्या उत्तरतो द्वे अर्धेष्टके उदगायते क्रमेणोपदध्यात् । एतेन इतर- स्रक्तिषूपहितानां पादेष्टकानामपि पार्श्वयोर्द्वे द्वे अर्धेष्टके क्रमेणोपदध्या-

ध्यायः ] बौधायनीयं ८६ दिति व्याख्यातम् । पूर्वस्मिन्निति । पूर्वस्मिन्ननीके आत्मनः पूर्वान्तेपूर्वी- पहितानामन्तराले पञ्चार्धेष्टका उदीचीरुपदध्यात् ॥ २४ ॥ अपरस्मिन् प्रस्तार इति । आत्मश्रोण्यंसयोः । तासामिति । दक्षिणांसप्रभृति प्रदक्षिणमुत्तरतः पश्चात्, पुरस्ताद् उत्तरतः दक्षिणतः पुरस्तात् पश्चात् दक्षिणत इति । एवं षोडश । पूर्वस्मिन्ननीक इति । आत्मपूर्वान्ते पूर्वोपहितान्तराले पञ्च अर्धेष्टका उदीचीः ॥ २४ ॥ पक्षाग्रयोस्तिस्रस्तिस्रोऽध्यर्धा उदीचीः । तासामन्तरालेष्वेकै- कामर्धेष्टकां प्राचीम् ॥ २५ ॥ पक्षाग्रयोरिति । पक्षाग्रयोः दक्षिणोत्तरयोः । पक्षाग्रयोस्तिस्रस्तिस्र उदगायता अध्यर्धेष्टकाः पार्श्वयोरेकैकां मध्ये चैकामुपदध्यात् । तासा- मिति । तासामन्तरालेषु एकैकस्मिन् पक्षे द्वे द्वे अर्धेष्टके प्रागायते उप- दध्यात् ॥ २५ ॥ पक्षाग्रयोरिति । मध्ये पार्श्वयोरुदगायताः । तासामिति । एकैकस्मिन् पक्षे द्वे द्वे पक्षाग्रसंगते प्रागायते ॥ २५ ॥ शेषमग्निं पञ्चमभागीयाभिः प्रच्छादयेत् ॥ २६ ॥ एष द्विशतः प्रस्तारः । व्यत्यासं चिनुयाद् यावतः प्रस्तारां- श्चिकीर्षेद् ॥ २७ ॥ शेषमिति । सुगमम् ॥ २६–२७ ॥ शेषमग्निमिति । पक्षसन्धिरीतिभ्यां सह पक्षयोश्चतुःपञ्चाशत् पञ्चम्यः । पुच्छेन सह आत्मनि मध्यतः पञ्चसप्ततिः । आत्मपार्श्वयोरष्टादशाष्टादश । एवं पक्षयोश्चतुःषष्टिः । पुच्छे त्रिंशत् । षट्शतमात्मनि । अस्मिन् प्रस्तारे पञ्चषष्टिः शतं पञ्चम्यः । षडध्यर्धाः । पञ्चविंशतिरर्ध्याः । चतस्रः पाद्याः ॥ २६–२७ ॥ [ इति चतुरश्रश्येनचिदुपधानप्रकारः । ] अथ वक्रपक्षो व्यस्तपुच्छः ॥ २८ ॥ अथ चतुरश्रश्येननिरूपणानन्तरं वक्रश्येन उच्यते—वक्रेति । वक्रौ कुटिलौ पक्षौ यस्य स वक्रपक्षः । व्यस्तो विस्तीर्णः पुच्छो यस्य स व्यस्त- पुच्छः ॥ २८ ॥ १२

६० शुल्बसूत्रम् [तृतीयोऽध्यायः] अथेति। चतुरश्रश्येनचिदुक्तः। श्येनाकृतिर्द्विरूपः। तयोरेक उच्यते। वक्रौ कुटिलौ पक्षौ यस्य स वक्रपक्षः। विस्तीर्णं पुच्छं यस्य स व्यस्तपुच्छः। एतत् सर्वं चतुरश्रश्येनचिदपेक्षया॥ २८॥ तस्येष्टकाः कारयेत् पुरुषस्य चतुर्थ्यः। तासामर्ध्याः पाद्याश्च॥ २९॥ तस्येष्टका इति। वक्रश्येनचित इत्यर्थः। पुरुषस्येति। पुरुषक्षेत्र- मानदण्डस्य विंशत्युत्तरशताङ्गुलप्रमाणस्य चतुर्थेन भागेन त्रिंशदङ्गुलेन दण्डेन परितो मीयमानत्वाच्चतुर्थ्यः पुरुषक्षेत्रषोडशभागीया उच्यन्ते। तासामिति। चतुर्थीनामित्यर्थः॥ २९॥ तस्येष्टका इति। चतुर्थ्य इति द्वितीयार्थे प्रथमा। सर्वतस्त्रिंशदङ्गुलाः कारयेत्। तासामिति। नित्यमक्ष्णयापच्छेदूनमनादेशे (३।३०) इति वक्ष्यति। तत्र अर्ध्यास्त्यस्त्राः। तासां त्रिंशदङ्गुले द्वे पार्श्वे सचतुर्दशतिलद्विचत्वारिंशदङ्गुलमन्यत् पार्श्वम्। पाद्याश्चापि त्रिकोणाः। तासां त्रिंशदङ्गुलमेकं पार्श्वम्। इतरे ससप्त- तिलैकविंशत्यङ्गुले॥ २९॥ नित्यमक्ष्णयापच्छेदूनमनादेशे॥ ३०॥ नित्यमिति। पूर्वोक्तानामर्ध्यादीनां करणप्रकारविशेषानुक्तौ अक्ष्णयै- वापच्छेद इत्यर्थः॥ ३०॥ नित्यमिति। तासामर्ध्यास्तिर्यग्भेदा (३।१११) इत्येवमादिवचनाभावे। नित्यं सर्वदा। कर्णरूपेणापच्छेदूनम्॥ ३०॥ पादेष्टकाश्चतुर्भिः परिगृह्णीयात्। अर्धपदेन पदेनाध्यर्धपदेन पदसविशेषेणेति। ते द्वे यथा दीर्घसंश्लिष्टे स्यातां तथार्धेष्टकां कारयेत्॥ ३१॥ चतुरश्रपाद्याकरण्याः परिमाणमाह—पादेष्टका इति। ते द्वे यथेति। उक्तलक्षणचतुरश्रे दीर्घसंश्लिष्टे अध्यर्धपदप्रमाणपार्श्वसंश्लिष्टे यथा भवतः तथा कुर्यादित्यर्थः। इयमेव हंसमुखीत्युच्यते॥ ३१॥ पादेष्टकेति। पाद्याश्चेत्युक्तानामेव आकृत्यन्तरविधानम्। चतुर्भिः प्रमाणैः। परिगृह्णीयात् स्वीकुर्यात्। कथम्? दक्षिणत आरभ्य प्रागपवर्गम् अर्धाष्टमाङ्गुलेन, पञ्चदशाङ्गुलेन, अर्धत्रयोविंशाङ्गुलेन, ससप्ततिलैकविंशत्यङ्गुलेनेति। तस्याश्चतुरस्र- पाद्येति संज्ञा।

CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF तृतीयोऽध्यायः ] बोधायनीय ९१ इदमपि तासामर्थ्या इत्युक्तानामेव आकृत्यन्तरविधानम् । ते पूर्वोक्ते चतुर- स्त्रपाद्ये यथा अध्यर्धपदपार्श्वेन संश्लिष्टे स्यातां तथा कारयेत् । पञ्चकोणोऽयम् । अस्या हंसमुखीति संज्ञा । एवं पञ्चकरणानि । प्रथमेन त्रिचत्वारिंशत्त्रिशतम् । द्वितीयेन षट्पञ्चाशत्त्रिशतम् । तृतीयेन अष्टषष्ट्यधिकं शतद्वयम् । चतुर्थेन अष्टादश । पञ्चमेन पञ्चदश । तत्र चोडानाकसदष्टौ पाद्या द्वे अर्ध्ये । एवं सहस्रमिष्टकाः ॥ ३१ ॥ अथाग्निं विमिमीते ॥ ३२ ॥ सार्धसप्तपुरुषप्रमाणस्यासिक्षेत्रस्य वक्रपक्षश्येनाकारतया मानप्रकारं दर्शयति—अथाग्निमिति ॥ ३२ ॥ अथाग्निमिति ॥ ३२ ॥ आत्मा द्विपुरुषायामो दशपदन्यासः । तस्य दक्षिणादं- सादुत्तरतोऽध्यर्धप्रक्रमे लक्षणं करोति । एवमपरतः । तयोरुपरिष्टात् स्पन्द्यां नियम्यांसमपच्छिन्द्यात् । एतेनेतरासां स्रक्तीनामपच्छेदा व्याख्याताः । स आत्मा ॥ ३३ ॥ आत्मेति । द्विपुरुषायाम इति । प्राक्प्रत्यक् अष्टप्रक्रमदीर्घम्, उत्तर- दक्षिणा पञ्चप्रक्रमविस्तारं चतुरश्रं कृत्वा । दक्षिणादिति । दक्षिणांसे दक्षिणस्रक्तिमारभ्य उत्तरतः सार्धप्रक्रमं मित्वा तत्र शङ्कं निहत्य । एव- मिति । एवं तस्या एव स्रक्तेरपरतः शङ्कं निहत्य तयो रज्जुं नियम्य बहिःस्पन्द्यं वर्जयेदित्यर्थः । एतेनेतरासामिति । एवमन्यासां तिसृणां अपच्छेदा द्रष्टव्याः । स इति । चतसृषु स्रक्तिषु अपच्छिनावशिष्टांश आत्मे- त्यर्थः ॥ ३३ ॥ आत्मेति । दशपदेति । एवं चत्वारिंशत् षोडश्यो भवन्ति । तस्येति । दक्षिणा- दंसादारभ्योत्तरतः अध्यर्धप्रक्रमे लक्षणं करोति । अपरत् इति । दक्षिणादंसादेवारभ्य पश्चादपि अध्यर्धप्रक्रमे लक्षणम् । तयोरिति । तयोः शङ्कोरुपरिष्टात् स्पन्द्यां नियम्य अनुस्पन्द्यं अंसमपच्छिन्द्यात् । एवं सार्धपादा चतुर्थी निरस्ता भवति । एतेनेति । एतेन अपच्छेदनप्रकारेण । इतरासां आत्मनः श्रोण्यंसानाम् । अपच्छेदा Nepal Sanskrit University, Balmeeki Campus, Kathmandu

६२ शुल्बसूत्रम् [ तृतीयो- व्याख्याताः । स इति । आत्मश्रोण्यंसेषु अर्धपञ्चमाश्रतुर्थ्यो निरस्ता भवन्ति । अथ शिष्टा अर्धपञ्चाविंशच्चतुर्थ्यो भवन्ति ॥ ३३ ॥ शिरोऽर्धषष्ठपदायाममर्धपुरुषव्यासम् तस्यांसौ प्रक्रमेण प्रक्रमेणापच्छिन्द्यात् ॥ ३४ ॥ शिर इति । अर्धं षष्ठं यस्य तदर्धषष्ठम् । सार्धपञ्चपदप्राक्प्रत्यग्दीर्घं, प्रक्रमद्वयविस्तारम्, आत्मनः पुरस्ताद् मध्यप्रदेशे दीर्घचतुरश्रं कृत्वा शिरसः पूर्वस्यां करण्यां मध्यप्रदेशे शङ्कुं निहत्यांसयोः स्रक्तीभ्यामारभ्य पश्चाद्भागयोः प्रक्रमप्रमाणे शङ्कू निहत्य शङ्कूनामुपरि स्पन्द्यां नियम्य बहिःस्पन्द्यमपच्छिन्द्यात्, यदवशिष्टं तच्छिर इत्यर्थः ॥ ३४ ॥ शिरविति । तस्य शिरसः । अयमत्र प्रकारः । पूर्वस्याः करण्या मध्ये शङ्कुं निहत्य दक्षिणोत्तरयोः करण्योः पूर्वभागे प्रक्रमप्रमाणे लक्षणं कृत्वा स्पन्द्यां नियम्य बहिःस्पन्द्यमपच्छिन्द्यात् । एवं अपच्छेदेन एका चतुर्थी निरस्ता भवति । इतरा अर्धपञ्चमाः शिरो भवन्ति ॥ ३४ ॥ पुच्छस्य षट्पदा प्राची द्विपुरुषोदीची । तस्य पूर्वे स्रक्ती त्रिभिस्त्रिभिः प्रक्रमैरपच्छिन्द्यात् ॥ ३५ ॥ पुच्छस्येति । तस्येति । दक्षिणोत्तरे अंससक्ती आरभ्य त्रिषु त्रिषु प्रक्रमेषु शङ्कुद्वयं निहत्य श्रोणिस्रक्त्योरपि शङ्कुद्वयं निहत्य शङ्कुषु स्पन्द्यामावध्य बहिःस्पन्द्यमपच्छिन्द्यात् । अवशिष्टः पुच्छमित्यर्थः ॥ ३५ ॥ पुच्छस्येति । आत्मपश्चिमपार्श्वेन सह । एवं चतुर्विंशतिश्चतुर्थांगीयाः । तस्येति । दक्षिणादंसादुत्तरतः प्रक्रमत्रयेऽतीते लक्षणम् । एवं उत्तरांसाद् दक्षिणतः । तयोः स्पन्द्यां नियम्य श्रोण्योर्निपातयेत् । एवं नव चतुर्थ्यो निरस्ता भवन्ति । पुच्छक्षेत्रे पञ्चदश परिशिष्टा भवन्ति ॥ ३५ ॥ पक्षो द्वादशपदायामो दशपदन्यासः । तस्य मध्यात् प्राञ्चि षट्पदानि प्रक्रम्य शङ्कुं निहन्यात् । श्रोण्योरेकैकम् । अथैनां स्पन्द्यया परिचिनुयात् । अन्तःस्पन्द्यमपच्छिद्य तत्पुरस्तात् प्राञ्चं दध्यात् । स निर्णामः । एतेनोत्तरस्य पक्षस्य निर्णामो व्याख्यातः । पक्षाग्रयोः प्रक्रमप्रमाणानि पञ्च पञ्च चतुरश्राण्यनूचीनानि कृत्वा

ऽध्यायः ] बौधायनीयं ६३ सर्वाण्यवाञ्चमक्ष्णयापच्छिन्द्यादर्धान्युद्धरेत् । एवं सारत्निप्रादेशः सप्तविधः संपद्यते ॥ ३६ ॥ पक्षो द्वादशेति । प्राक् प्रत्यक् दशपदव्यासं दक्षिणोत्तरं द्वादशपदायामं दीर्घचतुरश्रं विहृत्यापरस्याः करण्याः मध्यादारभ्य पुरस्तात् प्रक्रमत्रयं मित्वा तत्र शङ्कुं निहत्य श्रोणिसक्त्योः शङ्कुद्वयं निहत्य शङ्कूनामुपरि स्पन्द्यां नियम्यान्तःस्पन्द्यं परिच्छिन्द्यात् । प्राञ्चं दध्यादिति । अपरिच्छिन्नं पुरस्तात् आदध्यात् । स निर्णाम इत्यर्थः । पक्षाग्रयोरिति । चतुरश्राणि कारयेदित्युक्त्या पक्षाद् बहिरिति ज्ञायते । अनूचीनानि निरन्तराणी- त्यर्थः । अर्धान्युद्धरेद् दक्षिणपक्षाग्रेषु आग्नेयदलानि उत्तरपक्षाग्रेषु ऐशान्यदलानि त्यजेत् । एवमिति । एवञ्च सति सारत्निप्रादेशः सप्तविधः संपद्यते ॥ ३६ ॥ पक्षविति । आत्मदक्षिणपार्श्वमध्यसङ्गत उदगायतं । एवं त्रिंशत् चतुर्थ्यो भवन्ति । पक्षमध्यनमनमाह—तस्येति । पक्षापरान्तमध्याद् आरभ्य प्राञ्चं षट्पदानि प्रक्रम्य शङ्कुं निहन्यात् । श्रोण्योरिति । पक्षापरसक्त्योरित्यर्थः । अथैनामिति । एनां चिह्नान्तरालभूमिं सर्वत्र स्पन्द्यया वेष्टयेत् । अन्त इति । अन्तःस्पन्द्यं स्पन्द्यान्तर्गतं क्षेत्रमथोद्धृत्य पक्षस्य पुरस्तात् प्राञ्चं प्रागग्रमुपदध्यात् । एतदुक्तं भवति । पक्ष- पूर्वान्तमध्यादारभ्य प्राञ्चं षट्पदं प्रक्रम्य लक्षणं कृत्वा तस्मिन् पाशौ प्रतिमुच्य पक्षपूर्वसक्त्या निपातयेदित्यर्थः । स इति । य एष उक्तः स निर्णामः निर्गमनम् । अर्थनिर्देशोऽयं न संज्ञा अपनाम इत्युत्तरत्र ( ३।५४ ) वक्ष्यमाणत्वात् । एतेनेति । निर्णाम इत्यस्य प्रदर्शनार्थत्वात् । दक्षिणस्य पक्षस्य यदुक्तं द्वादशपदायाम इत्यादि तत्सर्वं परिगृह्यते । अन्यथासम्भवात् । पक्षाग्रयोरिति । पक्षाग्रयोर्दक्षिणत उत्तर- तस्ताभ्यां संश्लिष्टानि सर्वतस्त्रिंशदङ्गुलानि पञ्चचतुरस्राणि प्रागपवर्गाणि कृत्वा अवाञ्चं अवाग् यथा भवति तथा अक्ष्णया अपच्छिन्द्यात् । अर्धान्युद्धरेत् । एवं उभयत्र पञ्च चतुर्थ्यो भवन्ति । एवमिति । एवं पक्षात्मशिरःपुच्छेषु विभक्तेषु अरत्निक्षेत्राभ्यां प्रादेशक्षेत्रेण सह सप्तविधः पुरुषः संपद्यते । अर्ध्राष्टमपुरूषोऽग्निर्भवतीत्यर्थः । एवं सर्वत्र । अत्र आत्मनि सार्द्धपञ्चत्रिंशत् चतुर्थ्यः । शिरसि अर्धपञ्चमाः । पुच्छे पञ्चदश । दशसु पत्त्रेषु पञ्च । पक्षयोः षष्टिः । एवं विंशत्यधिकं शतं षोडश्यः । पुरुषक्षेत्रे षोडश षोडश्यः शेरते । एवं सर्वत्र द्रष्टव्यम् ॥ ३६ ॥

६४ शुल्वसूत्रम् [ तृतीयो- उपधाने शिरसोऽप्यये चतुर्थीमुपदध्यात् । हंसमुखीं पुरस्तात् । पादेष्टके अभितः । तयोरवस्तादभितस्तिस्रस्तिस्रश्चतुरस्रपाद्याः । शेषे पादेष्टकाः ॥ ३७ ॥ उपधान इति । क्रियमाण इति शेषः । शिरसोऽप्यय इति । आत्मन उपरि शिरसो मूलप्रदेशमध्य इत्यर्थः । हंसमुखीमिति । (सर्वतः) (पूर्वत?) चतुर्थ्याः पुरस्तादित्यर्थः । अभित इति । हंसमुख्या दक्षिणोत्तरपार्श्वयो- रित्यर्थः । तयोरवस्तादिति । उपहितयोः पाद्योरवस्तादधस्तात् पश्चाद्- भाग इत्यर्थः ॥ ३७ ॥ उपधान इति । सर्वत्राप्ययशब्देन पक्षपुच्छशिरसां आत्मसङ्गतः प्रदेशो विधीयते । शिरसोऽप्यये मूलप्रदेश इत्यर्थः । अविशेषात् मध्ये । पार्श्वयोरुभयत्र पञ्चदशाङ्गुलमवशिष्य । हंसमुखीमिति । पुरस्तात् चतुर्थ्याः पुरस्तात् प्रागग्रां हंसमुखी- मुपदध्यात् । पादेष्टक इति । हंसमुख्या अभितः प्रत्यगग्रे । अग्रप्रदेशेन संश्लिष्य दीर्घपार्श्वे पादेष्टके उपदध्यात् । तयोरुपहितयोः पादेष्टकयोरवस्तात् पश्चात् । अभितः चतुर्थीहंसमुख्योरभितः । तिस्रस्तिस्रश्चतुरस्रपाद्या उपदध्यात् । उभयत्र हंसमुखीपश्चिमान्तेन तुल्यां बहिर्दीर्घपार्श्वां प्रागग्रां एकैकामुपधाय तयोः पश्चात् पञ्चदशाङ्गुलव्यासत्रिंशदङ्गुलक्षेत्रे द्वे द्वे यथायोगमुपदध्यात् । शेष इति । शिरसः शेषे पादेष्टकाः । सामर्थ्याच्चतस्र इत्यर्थः । तत्र शिरोऽग्रहंसमुख्ययोर्मध्ये प्राग- म्प्रत्यगग्रे द्वे (?) । प्रत्यगग्रपाद्याभितः प्रागग्रे द्वे । एवं चतुर्दशेष्टकाः शिरस्युपहिता भवन्ति ॥ ३७ ॥ अपि वा शिरसोऽग्रे हंसमुखीमुपदध्यात् । तस्या अवस्ताच्चतु- र्थीमुपदध्यात् । पादेष्टकेऽभितः । तयोरवस्तादभितस्तिस्रस्तिस्रश्च- तुरस्रपाद्याः । शेषे पादेष्टकाः ॥ ३८ ॥ पक्षान्तरमाह—अपि वेति । शेष इति । प्रथमपक्षोक्तचतुर्थीस्थान इत्यर्थः ॥ ३८ ॥ अपि वेति । शिरसोऽग्रे हंसमुखीमुपधाय तस्याः पश्चात् चतुर्थीमुपधाय तयोर- भितः पादेष्टके दक्षिणोत्तराग्रे अभ्यन्तरदीर्घपार्श्वे उपधाय तयोः पश्चात् पश्चिमान्त-

ऽध्यायः ] बौधायनीयं ६५ सङ्गते चतुरस्रपाद्ये बहिर्दीर्घपार्श्वे प्रागग्रे उभयत उपधाय तयोः पश्चात् पद्न्यास- प्रक्रमदीर्घपूर्वापरचतुरस्रक्षेत्रे द्वे द्वे चतुरस्रपाद्ये उपधाय तयोर्युगलयोर्मध्येऽवशिष्ट- चतुर्भागीक्षेत्रे चतस्रः पादेष्टका इति । अयमपर उपधानकल्पः । अत्रापि शिरसि चतुर्दश ॥ ३८ ॥ शिरसोऽवस्तात् पञ्चपादेष्टका व्यतिषक्ता उपदध्यात् । तथा पुच्छस्य पुरस्तात् ॥ ३९ ॥ शिरसोऽवस्तादिति । शिरसः पश्चादात्मन्यग्रभागे पञ्च पाद्याः व्यत्यासेन संश्लिष्टा इत्यर्थः । तथा पुच्छस्येति । पुच्छादात्मनि पश्चाद्भागे पञ्च पाद्याः पूर्ववदुपदध्यात् ॥ ३९ ॥ शिरसविति । व्यतिषक्ता व्यत्यस्ता दक्षिणोत्तराभिः । द्वितीयाचतुर्थ्यौ प्रत्यगग्रे । इतराः प्रागग्राः । तथेति । पादेष्टकाः पञ्च व्यतिषक्ताः । अत्र द्वितीयचतुर्थ्यौ प्रागग्रे । इतराः प्रत्यगग्राः ॥ ३९ ॥ यद्यदपच्छिन्नं तस्मिन्नर्धेष्टकाः पादेष्टकाश्चोपदध्यात् ॥४०॥ यद्यदिति । प्रथमयच्छब्दः अव्ययत्वात् पञ्चम्यन्तः, द्वितीयस्तु प्रथ- मान्तः। तथा च यतोऽपच्छिन्नं यदपच्छिन्नमित्यर्थद्वयलाभात् आत्मपुच्छपक्षेषु स्रक्तीनां प्रदेशेभ्यः यतोऽपच्छेदः तत्र च पक्षयोरुपरितननिर्नामयो- रपि अर्थादुपधानं सिद्धं भवति । अपच्छिन्नस्यैवोपनमनाभिधानादिति भावः ॥ ४० ॥ यद्यदिति । अपच्छेदेषु अन्यासामसम्भवात् । सिद्धस्य वचनम् अर्ध्यामिश्राभिः पाद्याभिरुपधानार्थम् । तत्र शिरसि आत्मपूर्वापरान्ते पूर्वमेवोपहिताः पादेष्टकाः । अनेन सूत्रेण पुच्छपूर्वान्ते पार्श्वयोर्द्वे द्वे पादेष्टके । निर्णामान्तयोरपच्छेदेषु चतस्रश्च- तस्रः पाद्याः । अन्यत्र अर्धेष्टकाः ॥ ४० ॥ शेषमग्निं चतुर्भागीयाभिः प्रच्छादयेत् । पाद्याभिः संख्यां पूरयेत् ॥ ४१ ॥ शेषमिति । चतुर्भागीयाभिः षोडशभागीयाभिश्चतुर्थीभिरिति यावत् । एवमुपधाने कथं तर्हि शतेष्टकासंपत्तिः ? कथञ्च स्वयमातृण्णाया अन- पिधानमित्यत आह-पाद्याभिरिति ॥ ४१ ॥

शेषमिति। अत्र चतुर्भागीयाभिरेवेति न नियम्यते। ताभिः पूरयितुमश- क्यत्वात्। पाद्याभिरिति। चतुर्थीभिः प्रच्छादिते द्विशतसंख्या न पूर्यते। तत्र अर्द्धा- सहिताभिः पाद्याभिः संख्यां द्विशतसंख्यां पूरयेत्। तत्रैवमुपधानम्। शिरोवर्जं पुच्छेन सह आत्मनि उदीच्यो द्वादशरीतयः। तत्र पुच्छाग्रे मध्यतः षट् चतुर्थ्यः। पार्श्वयोरर्धे। द्वितीयरीत्यां पार्श्वयोरर्ध्ये मध्ये षोडशपाद्याः। तृतीयस्यां मध्ये द्वे चतुर्थ्यौ पार्श्वयोर्द्वे द्वे पाद्ये। चतुर्थ्यां पञ्च पाद्याः पूर्वोक्ताः। पञ्चम्यां पार्श्वयोरर्ध्ये मध्ये तिस्रश्चतुर्थ्यः। ततः पञ्चसु पञ्च पञ्च चतुर्थ्यः। तत्र अष्टम्यां मध्यामुद्धृत्य द्वे अर्ध्ये। पञ्चमीवदेकादशी। ततः पूर्वोक्ताः पञ्च पाद्याः। शिरसि चतुर्दश पूर्वमेवोक्ताः। पक्षयोः पत्त्राणि पञ्चार्ध्याः। तत्र दक्षिणपक्षस्थाः प्रागुत्तरविशेषाः। विप- रीता इतराः। तत्र पक्षयोः प्राच्यः षट् षड्रीतयः। तत्र दक्षिणे पक्षे दक्षिणादारभ्य मध्ये चतस्रश्चतुर्थ्यः पश्चात् पुरस्ताच्च अर्ध्ये। एवं द्वितीया। तृतीयस्यामादितः सप्त अर्ध्या उपधाय ततो दक्षिणपूर्वकण्णां अर्ध्यामेकामुपधाय ततश्चतस्रः पाद्याः संहिताग्रा उपदध्यात्। एवं चतुर्थी रीतिः। पञ्चम्यां आदितोऽर्ध्या ततस्तिस्रश्चतुर्थ्यस्ततोऽर्ध्या- त्रयम्। दक्षिणारीतिवत् षष्ठी रीतिः। एवमुत्तरः पक्षः। एवं षट्चत्वारिंशदात्मनि। शिरसि चतुर्दश। द्वात्रिंशत् पुच्छे। पक्षयोरष्टशतम्। अस्मिन् प्रस्तारे नवषष्टिश्चतुर्थ्यः। अर्ध्याः द्वासप्ततिः। पाद्याः द्विपञ्चाशत्। षट् चतुरस्रपाद्याः। एका हंसमुखी। एष द्विशतः प्रस्तारः॥ ४१॥ अपरस्मिन् प्रस्तारे हंसमुखीश्चतस्रश्चतसृभिः पादेष्टकाभिः- संयोजयेद् यथा दीर्घचतुरश्रं संपद्यते। तत्तिर्यक् स्वयमातृण्णा- वकाश उपदध्यात्॥ ४२॥ अपरस्मिन्निति। यथेति। चतस्रो हंसमुखीः परस्परसंश्लिष्टमुखा उपधाय पार्श्वद्वयोर्वा (हंसविशेष पाद्याद्वये मध्येऽन्तः सविशेषो पाद्याद्वये) चोपधीयमाने दीर्घचतुरश्रं भवतीति वेदितव्यम्। एवमुपधानप्रकारमभिधाय स्थलं निर्दिशति—तदिति। दीर्घचतुरश्रमित्यर्थः। तिर्यगिति। दक्षिणो- त्तरदीर्घमित्यर्थः. (?) ॥ ४२॥ अपरस्मिन्निति। एवं कृत्वा उपदध्यादिति विवक्षितम्। ईदृग्रूपा इष्टका उपदध्यादित्यर्थः। तत्रैवमुपधानम्। स्वयमातृण्णावकाशमध्यं गृहीत्वा पदत्रयव्यासं प्रक्रम- द्वयदीर्घं दीर्घचतुरस्रं दक्षिणोत्तरं बुद्ध्या परिकल्प्य चतुरस्रपूर्वपार्श्वे प्रत्यगग्रे द्वे