बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 124, कुल 366 में से
संदर्भ में पढ़ें६४ शुल्वसूत्रम् [ तृतीयो- उपधाने शिरसोऽप्यये चतुर्थीमुपदध्यात् । हंसमुखीं पुरस्तात् । पादेष्टके अभितः । तयोरवस्तादभितस्तिस्रस्तिस्रश्चतुरस्रपाद्याः । शेषे पादेष्टकाः ॥ ३७ ॥ उपधान इति । क्रियमाण इति शेषः । शिरसोऽप्यय इति । आत्मन उपरि शिरसो मूलप्रदेशमध्य इत्यर्थः । हंसमुखीमिति । (सर्वतः) (पूर्वत?) चतुर्थ्याः पुरस्तादित्यर्थः । अभित इति । हंसमुख्या दक्षिणोत्तरपार्श्वयो- रित्यर्थः । तयोरवस्तादिति । उपहितयोः पाद्योरवस्तादधस्तात् पश्चाद्- भाग इत्यर्थः ॥ ३७ ॥ उपधान इति । सर्वत्राप्ययशब्देन पक्षपुच्छशिरसां आत्मसङ्गतः प्रदेशो विधीयते । शिरसोऽप्यये मूलप्रदेश इत्यर्थः । अविशेषात् मध्ये । पार्श्वयोरुभयत्र पञ्चदशाङ्गुलमवशिष्य । हंसमुखीमिति । पुरस्तात् चतुर्थ्याः पुरस्तात् प्रागग्रां हंसमुखी- मुपदध्यात् । पादेष्टक इति । हंसमुख्या अभितः प्रत्यगग्रे । अग्रप्रदेशेन संश्लिष्य दीर्घपार्श्वे पादेष्टके उपदध्यात् । तयोरुपहितयोः पादेष्टकयोरवस्तात् पश्चात् । अभितः चतुर्थीहंसमुख्योरभितः । तिस्रस्तिस्रश्चतुरस्रपाद्या उपदध्यात् । उभयत्र हंसमुखीपश्चिमान्तेन तुल्यां बहिर्दीर्घपार्श्वां प्रागग्रां एकैकामुपधाय तयोः पश्चात् पञ्चदशाङ्गुलव्यासत्रिंशदङ्गुलक्षेत्रे द्वे द्वे यथायोगमुपदध्यात् । शेष इति । शिरसः शेषे पादेष्टकाः । सामर्थ्याच्चतस्र इत्यर्थः । तत्र शिरोऽग्रहंसमुख्ययोर्मध्ये प्राग- म्प्रत्यगग्रे द्वे (?) । प्रत्यगग्रपाद्याभितः प्रागग्रे द्वे । एवं चतुर्दशेष्टकाः शिरस्युपहिता भवन्ति ॥ ३७ ॥ अपि वा शिरसोऽग्रे हंसमुखीमुपदध्यात् । तस्या अवस्ताच्चतु- र्थीमुपदध्यात् । पादेष्टकेऽभितः । तयोरवस्तादभितस्तिस्रस्तिस्रश्च- तुरस्रपाद्याः । शेषे पादेष्टकाः ॥ ३८ ॥ पक्षान्तरमाह—अपि वेति । शेष इति । प्रथमपक्षोक्तचतुर्थीस्थान इत्यर्थः ॥ ३८ ॥ अपि वेति । शिरसोऽग्रे हंसमुखीमुपधाय तस्याः पश्चात् चतुर्थीमुपधाय तयोर- भितः पादेष्टके दक्षिणोत्तराग्रे अभ्यन्तरदीर्घपार्श्वे उपधाय तयोः पश्चात् पश्चिमान्त-