भारतकोश
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

पृष्ठ 125, कुल 366 में से

संदर्भ में पढ़ें
पृष्ठ 125

ऽध्यायः ] बौधायनीयं ६५ सङ्गते चतुरस्रपाद्ये बहिर्दीर्घपार्श्वे प्रागग्रे उभयत उपधाय तयोः पश्चात् पद्न्यास- प्रक्रमदीर्घपूर्वापरचतुरस्रक्षेत्रे द्वे द्वे चतुरस्रपाद्ये उपधाय तयोर्युगलयोर्मध्येऽवशिष्ट- चतुर्भागीक्षेत्रे चतस्रः पादेष्टका इति । अयमपर उपधानकल्पः । अत्रापि शिरसि चतुर्दश ॥ ३८ ॥ शिरसोऽवस्तात् पञ्चपादेष्टका व्यतिषक्ता उपदध्यात् । तथा पुच्छस्य पुरस्तात् ॥ ३९ ॥ शिरसोऽवस्तादिति । शिरसः पश्चादात्मन्यग्रभागे पञ्च पाद्याः व्यत्यासेन संश्लिष्टा इत्यर्थः । तथा पुच्छस्येति । पुच्छादात्मनि पश्चाद्भागे पञ्च पाद्याः पूर्ववदुपदध्यात् ॥ ३९ ॥ शिरसविति । व्यतिषक्ता व्यत्यस्ता दक्षिणोत्तराभिः । द्वितीयाचतुर्थ्यौ प्रत्यगग्रे । इतराः प्रागग्राः । तथेति । पादेष्टकाः पञ्च व्यतिषक्ताः । अत्र द्वितीयचतुर्थ्यौ प्रागग्रे । इतराः प्रत्यगग्राः ॥ ३९ ॥ यद्यदपच्छिन्नं तस्मिन्नर्धेष्टकाः पादेष्टकाश्चोपदध्यात् ॥४०॥ यद्यदिति । प्रथमयच्छब्दः अव्ययत्वात् पञ्चम्यन्तः, द्वितीयस्तु प्रथ- मान्तः। तथा च यतोऽपच्छिन्नं यदपच्छिन्नमित्यर्थद्वयलाभात् आत्मपुच्छपक्षेषु स्रक्तीनां प्रदेशेभ्यः यतोऽपच्छेदः तत्र च पक्षयोरुपरितननिर्नामयो- रपि अर्थादुपधानं सिद्धं भवति । अपच्छिन्नस्यैवोपनमनाभिधानादिति भावः ॥ ४० ॥ यद्यदिति । अपच्छेदेषु अन्यासामसम्भवात् । सिद्धस्य वचनम् अर्ध्यामिश्राभिः पाद्याभिरुपधानार्थम् । तत्र शिरसि आत्मपूर्वापरान्ते पूर्वमेवोपहिताः पादेष्टकाः । अनेन सूत्रेण पुच्छपूर्वान्ते पार्श्वयोर्द्वे द्वे पादेष्टके । निर्णामान्तयोरपच्छेदेषु चतस्रश्च- तस्रः पाद्याः । अन्यत्र अर्धेष्टकाः ॥ ४० ॥ शेषमग्निं चतुर्भागीयाभिः प्रच्छादयेत् । पाद्याभिः संख्यां पूरयेत् ॥ ४१ ॥ शेषमिति । चतुर्भागीयाभिः षोडशभागीयाभिश्चतुर्थीभिरिति यावत् । एवमुपधाने कथं तर्हि शतेष्टकासंपत्तिः ? कथञ्च स्वयमातृण्णाया अन- पिधानमित्यत आह-पाद्याभिरिति ॥ ४१ ॥