भारतकोश
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

पृष्ठ 113, कुल 366 में से

संदर्भ में पढ़ें
पृष्ठ 113

ऽध्यायः ] बौधायनीयं ८३ पुरुषायामं अर्धपुरुषन्यासं अर्धपुरुषक्षेत्रं सम्भवति । एवं सप्तविधः अर्धा- ष्टमविधोऽग्निः संपद्यते । अत्र कल्पे अरत्निना वा पक्षौ द्राघीयांसौ भवत इति प्रादेशवृद्धेर्वैकल्पिकत्वमुक्तम् । तच्छाखान्तरे एवमप्यस्तीति ज्ञापनार्थम् ( नानुष्ठा- नार्थमिति टिः ) तस्मिन् पक्षे क्वचिदपि प्रयोगानुपदेशात् । अथ वेणुना मानमुच्यते । यूपावटीयाच्छङ्कोरर्धप्रक्रममवशिष्य अनुपृष्ठ्यं वेणुं निधाय छिद्रेषु शङ्कन् निहत्य उन्मुच्य अपराभ्यां दक्षिणाप्राक् परिलिखेद् आ अन्तात् । अत्र चक्षुर्निर्मितात् चतुरस्रपूर्वान्तात् उन्मुच्य पूर्वस्मादपरस्मिन् प्रतिमुच्य दक्षिणाप्रत्यक् परिलिखेद् आ अन्तात् । उन्मुच्य वेणुं मध्यमे शङ्कावन्त्यं वेणोश्छिद्रं प्रतिमुच्य उपर्युपरि लेखासमरं दक्षिणा वेणुं निधायान्त्ये छिद्रे शङ्कुं निहत्य तस्मिन् मध्यमं वेणोश्छिद्रं प्रतिमुच्य पूर्वापरे छिद्रे लेखान्तयोर्यत्र निपततस्तत्र प्रतिष्ठाप्य छिद्रयोः शङ्क निहन्ति । स पुरुषश्चतुरस्रः । एवं प्रदक्षिणं चतुर आत्मनि पुरुषानवमिमीते । पृष्ठ्यायां पूर्वयोश्चतुरस्रयोः पश्चाच्छङ्कुः । अपरयोः पौरस्त्यम् । पुरुषं दक्षिणे पक्षे । दाक्षिणात्यानां पञ्चानां मध्यमेषु त्रिषु वेणुं प्रतिमुच्य उन्मुच्यापराभ्यामित्यादि । पुरुषं पुच्छे । पाश्चात्यानां त्रयाणां दक्षिणयोरन्त्ये छिद्रे प्रतिमुच्य मध्यमे छिद्रे शङ्कुं निहन्यात् । एवमुत्तरयोः । एवं स्थितानां पञ्चानां मध्यमेषु त्रिषु तिर्यञ्चं वेणुं प्रतत्य उन्मुच्य उत्तराभ्यामिति द्रष्टव्यम् । पुरुषमुत्तरे पक्षे । दक्षिणपक्षवत् । वेणोः पञ्चमे लक्षणं कृत्वा तेन पक्षौ वर्धयेत् । एवं दशमे लक्षणं कृत्वा पुच्छम् ॥ १० ॥ [ इति चतुरश्रश्येनचिद्धिमानप्रकारः । ] उपधाने पक्षाग्रादुत्तरतः पुरुषतृतीयवेलायां चतस्रः पञ्चम्यः । तासामभितो द्वे द्वे पादेष्टके । ततोऽष्टौ चतुर्थ्यः । पक्षशेषं षड्भागीयाभिः प्रच्छादयेत् । एतेनोत्तरः पक्षो व्याख्यातः ॥११॥ इष्टकोपधानप्रकारमाह—उपधान इति । पक्षाग्रादुत्तरतः दक्षिण- पक्षस्याग्रात् दक्षिणान्त्यपाश्चाद्दारभ्य उत्तरभागे । पुरुषतृतीयेति । तृतीया च सा वेला च तृतीयवेला । पुरुषतृतीयवेलायां त्यक्तायामित्यर्थः । वेलाशब्देन अंश उच्यते । दक्षिणपक्षस्य दक्षिणप्रदेशादारभ्य चत्वारिंश- दङ्गुलं विहाय तत उत्तरभागे । चतस्र इति । चतस्रः पञ्चम्यः सर्व-