बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 112, कुल 366 में से
संदर्भ में पढ़ें८२ शुल्बसूत्रम् [ तृतीयो· तस्यात्मा समचतुरश्रश्चत्वारः पुरुषाः । पक्षः समचतुरश्रः पुरुषः । स तु दक्षिणतोऽरत्निना द्राघीयान् । एतेनोत्तरः पक्षो व्याख्यातः । पुच्छं समचतुरश्रः पुरुषः । तमवस्तात् प्रादेशेन वर्धयेत् । एवं सारत्निप्रादेशः सप्तविधः संपद्यते ॥१०॥ तस्यात्मेति । तस्य चतुरश्रश्येनचितः । आत्मा पक्षपुच्छव्यतिरिक्त- प्रदेशः । समचतुरश्रा इति । पुरुषचतुष्टयपरिमित इत्यर्थः । पुरुषद्वय- प्रमाणेन सर्वतश्चतुरश्रं कुर्यादिति यावत् । पक्ष इति । पक्षपुच्छे सर्वतः पुरुषप्रमाणे । आत्मनो दक्षिणोत्तरपश्चाद्भागे (अरत्निभ्यां ?) प्रादेशेन (च ?) वर्धयेदित्यर्थः । एवं सारत्निप्रादेश इति । “यूपावटी- याच्छङ्कोरर्धप्रक्रममवशिष्ट्यानुपृष्ठ्यं पुरुषं वेणुं निधाय छिद्रेषु शङ्कून्नि- हत्योन्मुच्याऽपराभ्यां दक्षिणाप्राक् परिलिखेदान्ताच्चक्षुमिताच्चतुरश्र- पूर्वान्तादुन्मुच्य पूर्वस्मादपरस्मिन् प्रतिमुच्य दक्षिणाप्रत्यक् परिलिखेदा- न्तादुन्मुच्य वेणुं मध्यमे शङ्कावन्त्यवेणोश्छिद्रं प्रतिमुच्योपर्य्युपरि लेखा- समरे दक्षिणां वेणुं निधायान्त्यच्छिद्रे शङ्कुं निहत्य तस्मिन् मध्यमवेणोश्छिद्रं प्रतिमुच्य पूर्वापरे छिद्रे लेखान्तयोर्यत्र निपतितस्तत्र प्रतिष्ठाप्य छिद्रयोः शङ्कून्निहन्ति, स पुरुषश्चतुरश्रः । एवं प्रदक्षिणं चतुर आत्मनि पुरुषा- नवमिमीते । “पुरुषं दक्षिणे पक्षे पुरुषं पुच्छे पुरुषमुत्तरे पक्षे” इति (बौधा. श्रौ. सू. ) एवं पूर्वोक्तप्रकारेण सारत्निप्रादेशः अरत्निभ्यां प्रादेशेन च सहितः सप्तपुरुषप्रमाणोऽपि संपद्यत इत्यर्थः ॥ १० ॥ तस्यात्मेति । प्रधाना वयवत्वात् पक्षपुच्छव्यतिरिक्तांश आत्मेत्युच्यते । आत्मनः प्रमाणं द्विपुरुषप्रमाणकरणीकसमचतुरस्रमित्यर्थः । पक्ष इति । दक्षिणः पक्षः पुरुष- प्रमाणकरणीकः समचतुरस्रः। आत्ममध्येन पक्षमूलमध्यसंधानम् । सत्विति । स पक्षः दक्षिणान्ते पुरुषमात्रायामेनाऽरत्निना द्राघीयान् दीर्घतरः । दक्षिणोत्तरेण षडरत्निरित्यर्थः । पुच्छमिति । पुरुषप्रमाणकरणीकः। प्राञ्चमेन (२।१५) मित्युक्तत्वात् पश्चात् पुच्छं भवति । मध्ये संधानञ्च । : तमवस्तादिति । पूर्वापरेणैकादशप्रादेशप्रमाण इत्यर्थः । एवमिति । आत्मा चत्वारः पुरुषाः । पक्षपुच्छास्त्रयः पुरुषाः । पक्षयोररत्निभ्यां पुच्छे प्रादेशेन