बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 111, कुल 366 में से
संदर्भ में पढ़ेंअध्यायः ] बौधायनीयं ८१ षष्ठेन पुरुषस्य विंशत्यङ्गुलेन पुरुषक्षेत्रस्य षट्त्रिंशांशः। दशमेन प्रादेशेन पुरुषक्षेत्रस्य शतांशः। इतिकरणः करणसमाप्त्यर्थः। एवं चत्वारि करणानि। प्रथमेन षण्णव- तिरिष्टकाः। द्वितीयेन दशाधिकं षट्शतम्। तृतीयेन चतुस्त्रिंशाधिकं शतद्वयम्। चतुर्थेन षष्टिः। तत्र चोडानाकसदश्चतस्रः पञ्चम्यः। षट् षड्भागीयाः ॥ ७ ॥ अथाग्निं विमिमीते ॥ ८ ॥ असिक्षेत्रमानमाह—अथाग्निमिति। असिः असिक्षेत्रम् ॥ ८ ॥ अथाग्निमिति। उख्यभस्मना संसृज्येष्टकाः कारयेदिति २४२) वचनाद्दीक्षित- स्येष्टकाः कृत्वा अनन्तरं दीक्षान्त्यदिवसेऽग्निं विमिमीते। रात्रिभरणपक्षे अग्नि- विमाने न दीक्षादिलक्षणा। अथाग्निं विमिमीत इति यत्रास्ति तत्र अथशब्दस्य अयमर्थः ॥८॥ यावान् पुरुष ऊर्ध्वबाहुस्तावदन्तराले वेणोश्छिद्रे करोति। मध्ये तृतीयम्। यदमुत्र स्पन्द्यया करोति तदिह वेणुना करोति ॥ ९ ॥ यावानिति। पुरुषः यजमानः। ऊर्ध्वं प्रसारितभुजो यावान् भवति तावदन्तरालं ययोस्ते तावदन्तराले। छिद्रे करोति इति। पुरुषप्रमाणादुभयत- श्छिद्रार्थं किञ्चिदधिकं वेणुं परिगृह्य पुरुषप्रमाणाद् बहिरेव छिद्रद्वयं कुर्या- दित्यर्थः। मध्य इति। छिद्रयोर्मध्येऽपि वेणोश्छिद्रं तृतीयं करोति। ननु उभयतःपाशया मध्ये चिह्नितया पुरुषमात्रया स्पन्द्ययापि क्षेत्रमानसम्भवे किमुच्यते वेणोरिति ? अत आह—यदमुत्रेति। अन्यक्षेत्रमानादिषु स्पन्द्यया यद् यत् करोति तदिहासिक्षेत्रमाने। “वेणुना विमिमीत” इति श्रुतेरिति भावः ॥ ६ ॥ मानप्रकारमाह। यावानिति। यावत् प्रमाणं पुरुषो यजमान ऊर्ध्वबाहुः। अनेन लौकिकपुरुष उक्तो भवति। यजमानारत्निना पारिभाषिकः पञ्चारत्निः। इष्टकाकरणे यः पुरुषः परिगृहीतस्तेनाग्निं विमिमीते। (इष्टकाकरणे यः पुरुषः अग्निमानेऽपि स एव भवति इति टिः)। तावदन्तराले पुरुषमात्रान्तराले ययो- श्छिद्रयोस्ते तथोक्ते। प्रमाणात् किञ्चिदतिरिक्तं वेणुं परिगृह्य पुरुषप्रमाणमन्तरालं यथा भवति तथा अन्त्योश्छिद्रं करोति। तत्र छिद्राभ्यन्तरार्धयोः पुरुषप्रमाणे- ऽन्तर्भावः। मध्य इति। करोतीति शेषः। यदमुत्रेति। अमुत्र क्षेत्रकरणे। उभयतः पाशस्थानीयेऽन्त्ये छिद्रे। मध्यच्छिद्रं लक्षणस्थानीयम् ॥ ९ ॥ ११