भारतकोश
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

पृष्ठ 110, कुल 366 में से

संदर्भ में पढ़ें
पृष्ठ 110

८० शुल्वसूत्रम् [ तृतीयो- अथ श्येनाकृतिब्राह्मणमुदाहरति । अथापरमिति । वयसां पक्षिणाम् । प्रतिमया प्रतिबिम्बेन । यः प्रतिज्ञातोऽग्निः स एषः पक्षिणामाकृतिप्रतिमया रूपेण चीयत इत्यर्थः ॥ ४ ॥ उत्पततां छाययेत्यर्थः ॥ ५ ॥ अथ पक्षिणः स्थित्यवस्थायां पक्षविस्ताराद्यसंभवादाह--उत्पत- तामिति । उच्चैः पतन्ति गच्छन्तीत्युत्पतन्ति तेषाम् । प्रतिमयेत्यस्य व्याख्यानं छाययेति सादृश्येनेत्यर्थः ॥ ५ ॥ ब्राह्मणे प्रतिमयेति श्रुतत्वात् किं तुण्डदृष्टिश्रोत्राद्यवयवयुक्तेन ? नेत्याह । उत्पततामिति । इति ब्राह्मणे श्रुतस्य प्रतिमाशब्दस्य अर्थ इत्यर्थः ॥ ५ ॥ समचतुरश्राभिरग्निं चिन्वीत दैवस्य मानुषस्य च व्यावृत्त्या इति मैत्रायणीयब्राह्मणं भवति ॥ ६ ॥ चतुरश्राकारश्येनचिति ब्राह्मणमुदाहरति--समचतुरश्राभिरिति । समचतुरश्राणामेवेष्टकानां चयन(त्व)विधानात् सपक्षपुच्छस्य श्येनचितश्च- तुरश्राकारत्वं लभ्यते ॥ ६ ॥ अथ चतुरस्राणामप्यग्नीनां पूर्वोदाहरणेन गौण्या वृत्त्या श्रोण्यंससहितात्म- संभवात् चतुरस्रैकविषयं ब्राह्मणान्तरमुदाहरति । समचतुरस्राभिरिति । समचतुरस्राभि- रिष्टकाभिः । मानुषं लौकिकम् । लोके आयतचतुरस्राभिरनियतरूपाभिर्वा प्रासादा यः क्रियन्ते तस्माद् दैवस्य मानुषस्य च व्यावृत्त्यै समचतुरस्राभिरेव चिन्वीतेति ब्राह्मणस्यार्थः । समचतुरस्राभिरेव श्येनाकृतेः कर्तुमशक्यत्वात् समचतुरस्रार्थता सिद्धा अस्य ब्राह्मणस्य ॥ ६ ॥ [ इति श्येनचिदाकारनिरूपणम् । ] तस्येष्टकाः कारयेत् पुरुषस्य चतुर्थेन पञ्चमेन षष्ठेन दश- मेनेति ॥ ७ ॥ चतुरश्रश्येनचित इष्टकाकरणमाह--तस्येष्टका इति । पुरुषस्य विशं- त्यधिकशताङ्गुलप्रमाणस्य चतुर्थेन सर्वतस्त्रिंशदङ्गुलेन । पञ्चमेन सर्वतो- ऽरत्निप्रमाणेन । षष्ठेन सर्वतोविंशत्यङ्गुलप्रमाणेन । दशमेन सर्वतो द्वादशाङ्गुलप्रमाणेन करणेन समचतुरश्रैष्टकाः कारयेत् ॥ ७ ॥ तस्येष्टका इति । तस्य चतुरश्रश्येनचितः । पुरुषस्य चतुर्थेन त्रिंशदङ्गुलेन पुरुष- क्षेत्रवर्गस्य षोडशधा विभागः । पञ्चमेन अरत्निना पुरुषक्षेत्रवर्गस्य पञ्चविंशो भागः ।