बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 109, कुल 366 में से
संदर्भ में पढ़ेंऽध्यायः ] बौधायनीयं ७६ उभयं ब्राह्मणम् । पञ्चदक्षिणायां श्रोण्यामुपदधाति पञ्चो- त्तरस्यां । वस्तो वय इति दक्षिणेंऽस उपदधाति । वृष्णिवर्च इत्युत्तरे । व्याघ्रो वय इति दक्षिणे पक्ष उपदधाति । सिंहो वय इत्युत्तरे । पुरुषो वय इति मध्य इति च ॥ ३ ॥ उभयमिति । “वयसां वा एष” इति, “समचतुरश्राभि”रिति वक्ष्य- माणश्रुतिवाक्याभिप्रायेण उभयं ब्राह्मणमित्युक्तम् । ननु समचतुरश्राकारोऽपि श्येनचित्कर्त्तुं शक्यत इत्युक्तं तदनुपपन्नम् । “नापक्षपुच्छश्येनो विद्यत इति” सपक्षपुच्छः श्येन इत्युक्तत्वाच्चतुरश्राकारतया कर्त्तव्यस्य पक्षपुच्छादीनां (अ १) प्राप्तेः तादृशस्य श्येनचित्त्वमेव नास्तीत्यत आह—पञ्चेति । अत्रोभयसाधारण्येन पक्षादिष्विष्टकोपधानविधानाच्चतुरश्राकारस्य पूर्वोक्तप्रकारेण श्येनचित्त्वम् । “दक्षिणे पक्ष उपदधाती”त्यादिश्रुतेः सपक्ष- पुच्छश्येनाकृतिविषयत्वेनाप्युपत्तेरिति चेन्न, “श्येनचितं चिन्वीत सुवर्गकाम” इत्येतत्प्रकरणस्थत्वेन “समचतुरश्राभिरसि चिनुत” इति श्रुतेरेतद्वाक्यवि- हितसमचतुरश्राकारस्य श्येनचित्त्वावश्यंभावेन सपक्षपुच्छतानियमस्य वक्तव्यत्वात् । किञ्चाविशेषेण प्रकृतस्य “दक्षिणे पक्षे” इत्यादेः श्येनाकृति- मात्रविषयत्वे प्रमाणञ्च न पश्यामः । आकृतिद्वैविध्ये सामान्येन ब्राह्मण- मुक्तं भवति ॥ ४ ॥ सा च श्रुतिः किं ब्राह्मणं ? आहोस्वित् मन्त्रः ? इति तत्राह उभयमिति । भवतीति वाक्यशेषः । उभयं वाक्यं ब्राह्मणमेव भवति । तदपि दाशतय्या विज्ञायते । प्र सप्तगुमृत्तधीतिमवर्त्या इति ( बौ० श्रौ० सू० २५।४पृ०२३२ ) शुन इत्यादिवन्मन्त्र इत्यर्थः । चतुरस्रात्मत्वे ब्राह्मणलिङ्गमुदाहरति । पञ्चेति । तत्र अंसश्रोण्यादिशब्दानां चतुरस्रश्येनस्यैव मुख्यत्वादिति भावः ॥ ३ ॥ अथापरं वयसां वा एष प्रतिमया चीयते यदग्निरिति ॥ ४ ॥ विशेषाकृतिद्वये ब्राह्मणद्वयं क्रमेणोदाहरति—अथापरमित्या- दिना ॥ ४ ॥