भारतकोश
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

पृष्ठ 108, कुल 366 में से

संदर्भ में पढ़ें
पृष्ठ 108

अथ तृतीयोऽध्यायः । अथ वै भवति श्येनचितं चिन्वीत सुवर्गकाम इति ॥ १ ॥ अथेदानों श्येनस्य प्रकृतित्वेन प्रथममनुष्ठेयत्वात्तत्स्वरूपं दर्शयति— अथेति । ब्राह्मणमिति शेषः । श्येनचितं चिन्वीत स्वर्गकाम इति सामा- न्यतः श्येनचिदाकारस्य स्वर्ग (फल ?) कत्वमवगम्यते ॥ १ ॥ आद्येऽध्याये सामान्येन सर्वक्षेत्रकरणमुक्तम् । द्वितीयेऽध्यायेऽग्नीनामविशे- षेण परिभाषा कथिता । छन्दश्चितश्चयनं विशेषाभावात् परिभाषासूत्रम् । इदानी- मग्नीनां सर्वेषामाकृतिविशेषं विवक्ष्याह । अथेति । श्येन इव चित् श्येन- चित् ॥ १ ॥ आकृतिद्वैविध्यं चतुरश्रात्मा श्येनाकृतिश्च विज्ञायते ॥ २ ॥ आकृतीति । श्येनचित आकृतिद्वैविध्यमित्यर्थः । श्रुतिचोदितश्येन- चिदाकृतिभेदो द्विविध इति यावत् । ननु श्येनचिद्विधायकवाक्ये श्येनचितो द्वैविध्याप्रतीतेः कथं श्येनचिद् द्विविध इत्याशङ्क्य “वयसां वा एषः प्रति- मया चीयत” इति वयःप्रतिमाकारतया श्येनचितो विधानात् , “समचतुर- श्राभिरग्निं चिनुत” इति समचतुरश्राकारतया च श्येनचितो विधा- नात् , श्येनचित आकृतिद्वयमपि सम्भवति इत्याह चतुरश्रात्मेति । श्येनचित आत्मा समचतुरश्र इत्यर्थः । समचतुरश्राकारतया कर्त्तव्यस्य श्येनचित आत्मा समचतुरश्र इति यावत् । श्येनाकृतिश्चेति । श्येनस्य आकृतिरिव आकृतिर्यस्य सः श्येनाकृतिरित्यर्थः । वयःप्रतिमाकारतया कर्त्तव्यस्य श्येनचितः श्येनाख्यपक्ष्याकृतिरिति यावत् ॥ २ ॥ आकृतिरिति । प्रतिज्ञातस्य श्येनस्य रूपद्वैविध्यम् । अस्तीति वाक्यशेषः । तदेव- दर्शयति । चतुरश्रात्मेति । आकृतिसंहितो बहुव्रीहिः । चतुरश्र आत्मा यस्य स चतुर- श्रात्मा श्येनचित् । अथवा चतुरस्र आत्मा श्येनचित इति वाक्यशेषः । श्येनस्येवा- कृतिर्यस्येति श्येनाकृतिः । कारणमाह—विज्ञायत इति । श्रुतिरवगम्यते ॥ २ ॥

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक) · पृष्ठ 108, कुल 366 में से · BharatKosha