बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 114, कुल 366 में से
संदर्भ में पढ़ें८४ शुल्बसूत्रम् [ तृतीयो- तोऽरत्निप्रमाणका उपदध्यादिति पक्षाग्रादुत्तरत इत्युक्त्या एवमव- गम्यते । तासामिति । तासां पञ्चमीनां अभितः पूर्वपश्चिमयोः पार्श्वयोः द्वे द्वे पादेष्टके, (दक्षिणोत्तरे ) (पञ्चम्याः पादेष्टके इत्यर्थः ?) सर्वतः प्रादेश- प्रमाणके । ततोऽष्टाविति । ततस्तस्मात् प्रदेशादुत्तरे भागे अष्टौ चतुर्थ्यः सर्वतः प्रक्रमप्रमाणकाः । पक्षशेषमिति । उभयोः (?) पक्षशेषं अवशिष्ट- प्रदेशं षड्भागीयाभिः सर्वतो विंशत्यङ्गलप्रमाणेष्टकाभिः प्रच्छादयेदित्यर्थः । पक्षस्याग्रे पूर्वत्यक्तप्रदेशे द्वादशषड्भागीया । पक्षोत्तरपार्श्वे ( षट् ? ) षड्- भागीया उपदध्यादिति यावत् । एतेनोत्तर इति । दक्षिणपक्षे यथोपधानं तथोत्तरपक्षे उपदध्यादित्यर्थः ॥ ११ ॥ उपधान इति। चतस्रः पञ्चम्यः। पक्षाग्रादुत्तरत उपधानम्। दक्षिणान्तादुत्तरतः। पुरुषतृतीयवेलायां चत्वारिंशदङ्गुलप्रमाणवेलायामतीतायामित्यर्थः । अन्यथा उत्तरत्र पूरणासम्भवात् । पश्चात् पुरस्ताच्च प्रादेशमवशिष्य मध्ये पूर्वापराश्चतस्रः पञ्चम्यः । तासां पञ्चमीनां पश्चात् पुरस्ताच्च अवशिष्टक्षेत्रे द्वे द्वे दशम्यवित्यर्थः । ततविति । उत्तरत इत्यनुवर्त्तते । पञ्चमीरीत्या उत्तरतस्तृतीयेन पूर्वापरा अष्टौ चतुर्थ्य इत्यर्थः । अष्टौ चतुर्थ्य उपदध्यात् । चतसृभिश्चतसृभिरेकैका रीतिः । पक्षशेषमिति । अनुपहितं क्षेत्रं षड्भागीयाभिः षष्ठेनेत्युक्तेः । तत्र पञ्चमीभ्यो दक्षिणतो द्वादश । चतुर्थीभ्य उत्तरतः षड्भिरेका रीतिः । एवमष्टादश । एवं पक्षे चतुस्त्रिंशदिष्टकाः । एतेनोत्तर इति । एतेनोपधानप्रकारेण । पक्षाग्राद् दक्षिणतः पुरुषतृतीयवेलायामि- त्याद्यूहनीयम् ॥ ११ ॥ पूर्वापरयोः पुच्छपार्श्वयोश्चतुर्भागीया उपदध्यात् । दक्षिणो- त्तरयोः पादेष्टकाः ॥ १२ ॥ पूर्वापरयोरिति । चतस्रश्चतस्र उपदध्यात् । दक्षिणोत्तरयोरिति । दक्षिणोत्तरयोः पार्श्वयोः षट् षट् पादेष्टकाः ॥ १२ ॥ पूर्वापरयोरिति । पुच्छस्य पूर्वपश्चिमान्तयोश्चतस्रश्चतस्रः । दक्षिणोत्तरयोरिति । पार्श्वयोरित्येव सामर्थ्यात् । षड्भिः षड्भिः ॥ १२ ॥ शेषमग्निं पञ्चमभागीयाभिः प्रच्छादयेत् । एष द्विशतः प्रस्तारः ॥ १३ ॥ शेषमिति । शेषं पञ्चमभागीयाभिः प्रच्छादयेत् । आत्मनि शतं पुच्छ- मध्ये द्वादश । एवमिति । एवं द्विशतः प्रस्तारः ॥ १३ ॥