बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 115, कुल 366 में से
संदर्भ में पढ़ेंऽध्यायः ] बौधायनीयं ८५ शेषमिति । पुच्छस्य मध्यमो भाग आत्मा च शेषः । एष इति । सिद्धस्य पुनर्वचनेन “पञ्चमायां वा चितौ संख्यां पूरयेद्” (२।१०) इत्यत्रापि द्विशतोऽस्तीति सूचयति । एवं पक्षयोरष्टषष्टिः । पुच्छे द्वात्रिंशत् । आत्मनि शतम् । चतुर्थ्यश्चतु र्विंशतिः । पञ्चम्यो विंशत्यधिकं शतम् । षष्ठ्यः षट्त्रिंशत् । दशम्यो विंशतिः ॥१३॥ अपरस्मिन् प्रस्तारे पक्षाग्रादुत्तरतोऽर्धव्यायामवेलायां तिस्रस्तिस्रः षष्ठ्यो द्वे द्वे द्विपदे इति विपर्यासमुपदध्यात् । तथोत्तरे ॥ १४ ॥ अपरस्मिन्निति । द्वे पदे यस्याः सा द्विपदा । ते द्विपदे । प्रक्रम- प्रमाणके द्वे द्वे इष्टक इत्यर्थः । विपर्यासमिति । पूर्वापरप्रदेशयोर्मध्ये च तिस्रस्तिस्रः षड्भागीयाः सर्वतो विंशत्यङ्गुलप्रमाणकाः । दक्षिणश्रोणिसक्तौ उपदध्यात् । अन्तरालयोर्द्वे द्वे चतुर्थ्यौ दक्षिणोत्तरे उपदध्यादित्यर्थः । एवमुत्तरे पक्षे ॥ १४ ॥ अपरस्मिन् इति । विशेषो वक्ष्यत इति शेषः । पक्षदक्षिणान्तादारभ्योत्तरतोऽ- रन्निद्वयेऽतीते पक्षपश्चिमपार्श्वे उदीच्यस्तिस्रः षष्ठ्यः । ततः पुरस्ताद् दक्षिणोत्तरे द्वे द्वे द्विपदे चतुर्थ्यौ । ततस्तिस्रः षष्ठ्यः । ततो द्वे द्विपदे । ततः पूर्वपार्श्वे तिस्रः षष्ठ्यः । इतिरेवमित्यर्थे । एवं एता विपर्यस्योपदध्याद् इत्यर्थः । तथोत्तर इति । पक्ष उपदध्यादिति शेषः ॥ १४ ॥ दक्षिणस्यां श्रोण्यां नव षष्ठ्यश्चतुरश्रकृताः । तथोत्तर- स्याम् । नव नव षष्ठ्यो द्वे द्वे द्विपदे इति दक्षिणादंसादुत्तरा- दंसाद् विपर्यासमुपदध्यात् ॥ १५ ॥ दक्षिणस्यामिति । दक्षिणस्यां श्रोण्यां नव षष्ठ्यः सर्वतो विंशत्यङ्गुल- प्रमाणकाः यथा समचतुरश्रं भवति दक्षिणश्रोणिसक्तौ(तथा?)उपदध्यात् । तथोत्तरस्यामिति । एवमुत्तरस्यां श्रोण्याम् । अंसप्रदेशोपधानमाह— नव नवेति । नव नव षष्ठ्यः षड्भागीयाः, द्वे द्वे द्विपदे प्रक्रमप्रमाणके इति। दक्षिणादंसादिति । दक्षिणांसादारभ्य उत्तरांसपर्यन्तं विपर्यासं यथा भवति तथोपदध्यादित्यर्थः । आत्मनः अंससक्त्योर्मध्ये(च?)त्रिचतुरश्रकृताः नव- नव षष्ठ्यः । आसामन्तरालयोर्द्वे द्वे चतुर्थ्यावुपदध्यादिति यावत् ॥ १५ ॥