बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
ऽध्यायः ] बौधायनीयं ८५ शेषमिति । पुच्छस्य मध्यमो भाग आत्मा च शेषः । एष इति । सिद्धस्य पुनर्वचनेन “पञ्चमायां वा चितौ संख्यां पूरयेद्” (२।१०) इत्यत्रापि द्विशतोऽस्तीति सूचयति । एवं पक्षयोरष्टषष्टिः । पुच्छे द्वात्रिंशत् । आत्मनि शतम् । चतुर्थ्यश्चतु र्विंशतिः । पञ्चम्यो विंशत्यधिकं शतम् । षष्ठ्यः षट्त्रिंशत् । दशम्यो विंशतिः ॥१३॥ अपरस्मिन् प्रस्तारे पक्षाग्रादुत्तरतोऽर्धव्यायामवेलायां तिस्रस्तिस्रः षष्ठ्यो द्वे द्वे द्विपदे इति विपर्यासमुपदध्यात् । तथोत्तरे ॥ १४ ॥ अपरस्मिन्निति । द्वे पदे यस्याः सा द्विपदा । ते द्विपदे । प्रक्रम- प्रमाणके द्वे द्वे इष्टक इत्यर्थः । विपर्यासमिति । पूर्वापरप्रदेशयोर्मध्ये च तिस्रस्तिस्रः षड्भागीयाः सर्वतो विंशत्यङ्गुलप्रमाणकाः । दक्षिणश्रोणिसक्तौ उपदध्यात् । अन्तरालयोर्द्वे द्वे चतुर्थ्यौ दक्षिणोत्तरे उपदध्यादित्यर्थः । एवमुत्तरे पक्षे ॥ १४ ॥ अपरस्मिन् इति । विशेषो वक्ष्यत इति शेषः । पक्षदक्षिणान्तादारभ्योत्तरतोऽ- रन्निद्वयेऽतीते पक्षपश्चिमपार्श्वे उदीच्यस्तिस्रः षष्ठ्यः । ततः पुरस्ताद् दक्षिणोत्तरे द्वे द्वे द्विपदे चतुर्थ्यौ । ततस्तिस्रः षष्ठ्यः । ततो द्वे द्विपदे । ततः पूर्वपार्श्वे तिस्रः षष्ठ्यः । इतिरेवमित्यर्थे । एवं एता विपर्यस्योपदध्याद् इत्यर्थः । तथोत्तर इति । पक्ष उपदध्यादिति शेषः ॥ १४ ॥ दक्षिणस्यां श्रोण्यां नव षष्ठ्यश्चतुरश्रकृताः । तथोत्तर- स्याम् । नव नव षष्ठ्यो द्वे द्वे द्विपदे इति दक्षिणादंसादुत्तरा- दंसाद् विपर्यासमुपदध्यात् ॥ १५ ॥ दक्षिणस्यामिति । दक्षिणस्यां श्रोण्यां नव षष्ठ्यः सर्वतो विंशत्यङ्गुल- प्रमाणकाः यथा समचतुरश्रं भवति दक्षिणश्रोणिसक्तौ(तथा?)उपदध्यात् । तथोत्तरस्यामिति । एवमुत्तरस्यां श्रोण्याम् । अंसप्रदेशोपधानमाह— नव नवेति । नव नव षष्ठ्यः षड्भागीयाः, द्वे द्वे द्विपदे प्रक्रमप्रमाणके इति। दक्षिणादंसादिति । दक्षिणांसादारभ्य उत्तरांसपर्यन्तं विपर्यासं यथा भवति तथोपदध्यादित्यर्थः । आत्मनः अंससक्त्योर्मध्ये(च?)त्रिचतुरश्रकृताः नव- नव षष्ठ्यः । आसामन्तरालयोर्द्वे द्वे चतुर्थ्यावुपदध्यादिति यावत् ॥ १५ ॥
२. द्वितीय अध्याय: वर्ग-करण, मण्डल-करण (वृत्त का वर्गीकरण) एवं क्षेत्रफल-समीकरण
८६ शुल्वसूत्रम् [ तृतीयो- दक्षिणस्यामिति । आत्मनः दक्षिणस्यां श्रोण्यां षष्ट्यङ्गुलपरिमितं समचतुरस्रं क्षेत्रं परिगृह्य तत्र नव षष्ठ्य उपधेयाः । तयोत्तरस्यामिति । आत्मश्रोण्यां नव षष्ठ्यश्च- तुरस्रकृता इत्यर्थः । नव नवेति । आत्मनि दक्षिणांसे षष्ट्यङ्गुलपरिमितं सम- चतुरस्रं क्षेत्रं परिगृह्य तत्र नव षष्ठ्यः । तत उत्तरेण पूर्वापरे द्वे द्विपदे । तत उत्तरेण पूर्ववन्नव षष्ठ्यः । ततो द्वे द्विपदे । तत उत्तरांसे नव षष्ठ्यः । इतिरेवमित्यर्थे । एवं दक्षिणांसादारभ्योत्तरांसाद् विपर्यस्योपदध्यात् ॥ १५ ॥ शेषमग्निं पञ्चमभागीयाभिः प्रच्छादयेत् ॥ १६ ॥ शेषमिति । शेषमग्निमवशिष्टं क्षेत्रं पञ्चमभागीयाभिः प्रच्छादयेत् । पक्षयोरग्रप्रदेशयोः दश दश पञ्चमभागीयाः । आत्मपक्षसन्ध्योरग्रप्रदेशयोः दक्षिणोत्तरयोः पञ्च पञ्च पञ्चमभागीयाः । आत्मपक्षसन्ध्योः पञ्च पञ्च । तयोर्मध्ये पक्षसंमिताः नवरीतयः । पुच्छात्मसन्धौ पञ्च पञ्चम्यः । ततः पश्चात् पुच्छे पञ्चविंशतिः पञ्चम्यः समचतुरश्रं यथा भवति तथोपधेयाः । पुच्छात्मसन्धौ उपहिताभ्यः पुरस्तात् दश पञ्चम्यः दक्षिणोत्तरा दीर्घ- चतुरश्रं यथा भवति तथोपधेयाः । (दीर्घचतुरश्र) एवमवशिष्टक्षेत्रं प्रच्छाद- येदित्यर्थं ॥ १६ ॥ एष द्विशतः प्रस्तारः । व्यत्यासं चिनुयाद् यावतः प्रस्तारां- श्चिकीर्षेत् ॥ १७ ॥ एष इति । एवमेष द्विशतः प्रस्तार इति । ननु तृतीयप्रस्तारेऽपि यद्येवमेव उपधानं कुर्यात् तदा सन्ध्यपिधानरूपोऽग्निधर्मो न प्राप्नुयादित्यत आह—व्यत्यासमिति । पञ्च वा, दश, पञ्चदश वा यावतः प्रस्तारान् चिकीर्षेत् तावत्सु प्रथमवत्तृतीयं द्वितीयवच्चतुर्थम् एवमादिप्रकारेण व्यत्यासं विपरीतं चिनुयादित्यर्थः ॥ १७ ॥ यावतः प्रस्तारानिति । साहसे प्रथमः प्रस्तारस्त्रिरावर्तते । द्विषाहस्रे प्रथम- द्वितीयौ पञ्च पञ्च । त्रिषाहस्रे प्रथमः प्रस्तारः अष्टकृत्वः ॥ १७ ॥ अथापरः ॥ १८ ॥
ऽध्यायः ] बौधायनीयं ८७ पूर्वोक्तात्सिक्षेत्र एव इष्टकाकरणभेदात् अपरं चतुरश्रं श्येनचितमाह— अथापर इति ॥ १८ ॥ अथापर इति । चतुरस्रश्येनचितोऽपरः प्रकार उच्यत इति शेषः । अस्मद्- ब्राह्मणलिङ्गानुसारेणानियतरूपाइचयनप्रकारा वक्ष्यन्त इत्यर्थः ॥ १८ ॥ पुरुषस्य पञ्चम्यः । ता एवैकतोऽध्यर्धाः । तासामर्ध्याः पाद्याश्च ॥ १९ ॥ पुरुषस्येति । पुरुषस्य पञ्चम्यः सर्वतोऽरत्नप्रमाणकाः । ता एव एक- तोऽध्यर्धाः षट्त्रिंशदङ्गुलदीर्घाः चतुर्विंशत्यङ्गुलायामाः । (तासामिति । पञ्चमीनाम् । अर्ध्याः चतुर्विंशत्यङ्गुलदीर्घाः द्वादशाङ्गुलायामाः ?) पाद्याः सर्वतो द्वादशाङ्गुलाः ॥ १९ ॥ तत्र करणानि । पुरुषस्येति । सर्वतोऽरत्निमात्राः । ता एवैकत इति
८८ शुल्बसूत्रम् [ तृतीयो- दक्षिणोत्तरयोरिति । पश्चात् प्रादेशमवशिष्य पुरस्तादरत्निं चावशिष्य मध्ये उदगायताः ॥ २१ ॥ पुच्छस्यावस्ताच्चतस्रोऽर्धेष्टका उदीचीः । तासामभितो द्वे पादेष्टके । जघनेन पुच्छाप्यययोरेकैकामर्धेष्टकां प्राचीम् ॥२२॥ पुच्छस्यावस्तादिति । पुच्छस्य पश्चात्प्रदेशे (पुरस्तादरत्निं चावशिष्य) मध्य उपदध्यात् । पुच्छस्य पश्चाद् उदगायताश्चतस्रोऽर्धेष्टका दक्षिणोत्तरयोः श्रोण्योः प्रादेशमवशिष्य मध्ये उपदध्यात् । तासामिति । तासामभितः पुच्छश्रोण्योः एकैकां पादेष्टकामुपदध्यात् । जघनेनेति । जघनेन पुच्छाप्य- ययोरेकैकामर्धेष्टकां प्रागायतामुपदध्यात् ॥ २२ ॥ पुच्छस्येति । पार्श्वयोरुभयत्र प्रादेशमवशिष्य मध्ये उदगायताः । तासामिति । पुच्छश्रोण्योरित्यर्थः । दक्षिणस्यामेकाम् । उत्तरस्यामेकाम् । जघनेनेति । पूर्व- पुच्छपार्श्वयोरुपहिताध्यर्धाभ्यः पुरस्तात् । दक्षिणोत्तरपार्श्वयोरध्यर्धामूलसंहिते प्रागायते ॥ २२ ॥ शेषमग्निं पञ्चमभागीयाभिः प्रच्छादयेत् । एष द्विशतः प्रस्तारः ॥ २३ ॥ [ अत्र ग्रन्थः पतितः प्रथमप्रस्तारस्यान्तिमोंऽशः द्वितीयप्रस्तारस्य चोपक्रमो न दृश्यते ] ॥ २३ ॥ शेषमग्निमिति । पक्षशेषयोरष्टाचत्वारिंशत् । पुच्छशेषे द्वादश । आत्मनिशतम् । एष इति । तत्र पक्षयोर्द्विसप्ततिः । अष्टाविंशतिः पुच्छे । आत्मनि शतम् । अस्मिन् प्रस्तारे षष्टिः शतं पञ्चम्यः । अष्टावध्यर्धाः । त्रिंशदर्ध्याः । द्वेपादेष्टके ॥ २३ ॥ अपरस्मिन् प्रस्तारे आत्मस्रक्तिषु पादेष्टका उपदध्यात् । तासामभितो द्वे द्वे अर्धेष्टके । पूर्वस्मिन्ननीके पञ्च ॥ २४ ॥ (शेष) कोणेषु चतस्रः पादेष्टकाः । तासामिति । तासां पादेष्टकाना- मभितः पार्श्वयोर्द्वे द्वे अर्धेष्टके उपदध्यादित्यर्थः । दक्षिणांसोपहितपादेष्ट- कायाः पश्चा (त्प्रागा ? ) ( उदगा) यते द्वे अर्धेष्टके क्रमेण उपदध्यात् । तस्या उत्तरतो द्वे अर्धेष्टके उदगायते क्रमेणोपदध्यात् । एतेन इतर- स्रक्तिषूपहितानां पादेष्टकानामपि पार्श्वयोर्द्वे द्वे अर्धेष्टके क्रमेणोपदध्या-
ध्यायः ] बौधायनीयं ८६ दिति व्याख्यातम् । पूर्वस्मिन्निति । पूर्वस्मिन्ननीके आत्मनः पूर्वान्तेपूर्वी- पहितानामन्तराले पञ्चार्धेष्टका उदीचीरुपदध्यात् ॥ २४ ॥ अपरस्मिन् प्रस्तार इति । आत्मश्रोण्यंसयोः । तासामिति । दक्षिणांसप्रभृति प्रदक्षिणमुत्तरतः पश्चात्, पुरस्ताद् उत्तरतः दक्षिणतः पुरस्तात् पश्चात् दक्षिणत इति । एवं षोडश । पूर्वस्मिन्ननीक इति । आत्मपूर्वान्ते पूर्वोपहितान्तराले पञ्च अर्धेष्टका उदीचीः ॥ २४ ॥ पक्षाग्रयोस्तिस्रस्तिस्रोऽध्यर्धा उदीचीः । तासामन्तरालेष्वेकै- कामर्धेष्टकां प्राचीम् ॥ २५ ॥ पक्षाग्रयोरिति । पक्षाग्रयोः दक्षिणोत्तरयोः । पक्षाग्रयोस्तिस्रस्तिस्र उदगायता अध्यर्धेष्टकाः पार्श्वयोरेकैकां मध्ये चैकामुपदध्यात् । तासा- मिति । तासामन्तरालेषु एकैकस्मिन् पक्षे द्वे द्वे अर्धेष्टके प्रागायते उप- दध्यात् ॥ २५ ॥ पक्षाग्रयोरिति । मध्ये पार्श्वयोरुदगायताः । तासामिति । एकैकस्मिन् पक्षे द्वे द्वे पक्षाग्रसंगते प्रागायते ॥ २५ ॥ शेषमग्निं पञ्चमभागीयाभिः प्रच्छादयेत् ॥ २६ ॥ एष द्विशतः प्रस्तारः । व्यत्यासं चिनुयाद् यावतः प्रस्तारां- श्चिकीर्षेद् ॥ २७ ॥ शेषमिति । सुगमम् ॥ २६–२७ ॥ शेषमग्निमिति । पक्षसन्धिरीतिभ्यां सह पक्षयोश्चतुःपञ्चाशत् पञ्चम्यः । पुच्छेन सह आत्मनि मध्यतः पञ्चसप्ततिः । आत्मपार्श्वयोरष्टादशाष्टादश । एवं पक्षयोश्चतुःषष्टिः । पुच्छे त्रिंशत् । षट्शतमात्मनि । अस्मिन् प्रस्तारे पञ्चषष्टिः शतं पञ्चम्यः । षडध्यर्धाः । पञ्चविंशतिरर्ध्याः । चतस्रः पाद्याः ॥ २६–२७ ॥ [ इति चतुरश्रश्येनचिदुपधानप्रकारः । ] अथ वक्रपक्षो व्यस्तपुच्छः ॥ २८ ॥ अथ चतुरश्रश्येननिरूपणानन्तरं वक्रश्येन उच्यते—वक्रेति । वक्रौ कुटिलौ पक्षौ यस्य स वक्रपक्षः । व्यस्तो विस्तीर्णः पुच्छो यस्य स व्यस्त- पुच्छः ॥ २८ ॥ १२
६० शुल्बसूत्रम् [तृतीयोऽध्यायः] अथेति। चतुरश्रश्येनचिदुक्तः। श्येनाकृतिर्द्विरूपः। तयोरेक उच्यते। वक्रौ कुटिलौ पक्षौ यस्य स वक्रपक्षः। विस्तीर्णं पुच्छं यस्य स व्यस्तपुच्छः। एतत् सर्वं चतुरश्रश्येनचिदपेक्षया॥ २८॥ तस्येष्टकाः कारयेत् पुरुषस्य चतुर्थ्यः। तासामर्ध्याः पाद्याश्च॥ २९॥ तस्येष्टका इति। वक्रश्येनचित इत्यर्थः। पुरुषस्येति। पुरुषक्षेत्र- मानदण्डस्य विंशत्युत्तरशताङ्गुलप्रमाणस्य चतुर्थेन भागेन त्रिंशदङ्गुलेन दण्डेन परितो मीयमानत्वाच्चतुर्थ्यः पुरुषक्षेत्रषोडशभागीया उच्यन्ते। तासामिति। चतुर्थीनामित्यर्थः॥ २९॥ तस्येष्टका इति। चतुर्थ्य इति द्वितीयार्थे प्रथमा। सर्वतस्त्रिंशदङ्गुलाः कारयेत्। तासामिति। नित्यमक्ष्णयापच्छेदूनमनादेशे (३।३०) इति वक्ष्यति। तत्र अर्ध्यास्त्यस्त्राः। तासां त्रिंशदङ्गुले द्वे पार्श्वे सचतुर्दशतिलद्विचत्वारिंशदङ्गुलमन्यत् पार्श्वम्। पाद्याश्चापि त्रिकोणाः। तासां त्रिंशदङ्गुलमेकं पार्श्वम्। इतरे ससप्त- तिलैकविंशत्यङ्गुले॥ २९॥ नित्यमक्ष्णयापच्छेदूनमनादेशे॥ ३०॥ नित्यमिति। पूर्वोक्तानामर्ध्यादीनां करणप्रकारविशेषानुक्तौ अक्ष्णयै- वापच्छेद इत्यर्थः॥ ३०॥ नित्यमिति। तासामर्ध्यास्तिर्यग्भेदा (३।१११) इत्येवमादिवचनाभावे। नित्यं सर्वदा। कर्णरूपेणापच्छेदूनम्॥ ३०॥ पादेष्टकाश्चतुर्भिः परिगृह्णीयात्। अर्धपदेन पदेनाध्यर्धपदेन पदसविशेषेणेति। ते द्वे यथा दीर्घसंश्लिष्टे स्यातां तथार्धेष्टकां कारयेत्॥ ३१॥ चतुरश्रपाद्याकरण्याः परिमाणमाह—पादेष्टका इति। ते द्वे यथेति। उक्तलक्षणचतुरश्रे दीर्घसंश्लिष्टे अध्यर्धपदप्रमाणपार्श्वसंश्लिष्टे यथा भवतः तथा कुर्यादित्यर्थः। इयमेव हंसमुखीत्युच्यते॥ ३१॥ पादेष्टकेति। पाद्याश्चेत्युक्तानामेव आकृत्यन्तरविधानम्। चतुर्भिः प्रमाणैः। परिगृह्णीयात् स्वीकुर्यात्। कथम्? दक्षिणत आरभ्य प्रागपवर्गम् अर्धाष्टमाङ्गुलेन, पञ्चदशाङ्गुलेन, अर्धत्रयोविंशाङ्गुलेन, ससप्ततिलैकविंशत्यङ्गुलेनेति। तस्याश्चतुरस्र- पाद्येति संज्ञा।
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF तृतीयोऽध्यायः ] बोधायनीय ९१ इदमपि तासामर्थ्या इत्युक्तानामेव आकृत्यन्तरविधानम् । ते पूर्वोक्ते चतुर- स्त्रपाद्ये यथा अध्यर्धपदपार्श्वेन संश्लिष्टे स्यातां तथा कारयेत् । पञ्चकोणोऽयम् । अस्या हंसमुखीति संज्ञा । एवं पञ्चकरणानि । प्रथमेन त्रिचत्वारिंशत्त्रिशतम् । द्वितीयेन षट्पञ्चाशत्त्रिशतम् । तृतीयेन अष्टषष्ट्यधिकं शतद्वयम् । चतुर्थेन अष्टादश । पञ्चमेन पञ्चदश । तत्र चोडानाकसदष्टौ पाद्या द्वे अर्ध्ये । एवं सहस्रमिष्टकाः ॥ ३१ ॥ अथाग्निं विमिमीते ॥ ३२ ॥ सार्धसप्तपुरुषप्रमाणस्यासिक्षेत्रस्य वक्रपक्षश्येनाकारतया मानप्रकारं दर्शयति—अथाग्निमिति ॥ ३२ ॥ अथाग्निमिति ॥ ३२ ॥ आत्मा द्विपुरुषायामो दशपदन्यासः । तस्य दक्षिणादं- सादुत्तरतोऽध्यर्धप्रक्रमे लक्षणं करोति । एवमपरतः । तयोरुपरिष्टात् स्पन्द्यां नियम्यांसमपच्छिन्द्यात् । एतेनेतरासां स्रक्तीनामपच्छेदा व्याख्याताः । स आत्मा ॥ ३३ ॥ आत्मेति । द्विपुरुषायाम इति । प्राक्प्रत्यक् अष्टप्रक्रमदीर्घम्, उत्तर- दक्षिणा पञ्चप्रक्रमविस्तारं चतुरश्रं कृत्वा । दक्षिणादिति । दक्षिणांसे दक्षिणस्रक्तिमारभ्य उत्तरतः सार्धप्रक्रमं मित्वा तत्र शङ्कं निहत्य । एव- मिति । एवं तस्या एव स्रक्तेरपरतः शङ्कं निहत्य तयो रज्जुं नियम्य बहिःस्पन्द्यं वर्जयेदित्यर्थः । एतेनेतरासामिति । एवमन्यासां तिसृणां अपच्छेदा द्रष्टव्याः । स इति । चतसृषु स्रक्तिषु अपच्छिनावशिष्टांश आत्मे- त्यर्थः ॥ ३३ ॥ आत्मेति । दशपदेति । एवं चत्वारिंशत् षोडश्यो भवन्ति । तस्येति । दक्षिणा- दंसादारभ्योत्तरतः अध्यर्धप्रक्रमे लक्षणं करोति । अपरत् इति । दक्षिणादंसादेवारभ्य पश्चादपि अध्यर्धप्रक्रमे लक्षणम् । तयोरिति । तयोः शङ्कोरुपरिष्टात् स्पन्द्यां नियम्य अनुस्पन्द्यं अंसमपच्छिन्द्यात् । एवं सार्धपादा चतुर्थी निरस्ता भवति । एतेनेति । एतेन अपच्छेदनप्रकारेण । इतरासां आत्मनः श्रोण्यंसानाम् । अपच्छेदा Nepal Sanskrit University, Balmeeki Campus, Kathmandu
६२ शुल्बसूत्रम् [ तृतीयो- व्याख्याताः । स इति । आत्मश्रोण्यंसेषु अर्धपञ्चमाश्रतुर्थ्यो निरस्ता भवन्ति । अथ शिष्टा अर्धपञ्चाविंशच्चतुर्थ्यो भवन्ति ॥ ३३ ॥ शिरोऽर्धषष्ठपदायाममर्धपुरुषव्यासम् तस्यांसौ प्रक्रमेण प्रक्रमेणापच्छिन्द्यात् ॥ ३४ ॥ शिर इति । अर्धं षष्ठं यस्य तदर्धषष्ठम् । सार्धपञ्चपदप्राक्प्रत्यग्दीर्घं, प्रक्रमद्वयविस्तारम्, आत्मनः पुरस्ताद् मध्यप्रदेशे दीर्घचतुरश्रं कृत्वा शिरसः पूर्वस्यां करण्यां मध्यप्रदेशे शङ्कुं निहत्यांसयोः स्रक्तीभ्यामारभ्य पश्चाद्भागयोः प्रक्रमप्रमाणे शङ्कू निहत्य शङ्कूनामुपरि स्पन्द्यां नियम्य बहिःस्पन्द्यमपच्छिन्द्यात्, यदवशिष्टं तच्छिर इत्यर्थः ॥ ३४ ॥ शिरविति । तस्य शिरसः । अयमत्र प्रकारः । पूर्वस्याः करण्या मध्ये शङ्कुं निहत्य दक्षिणोत्तरयोः करण्योः पूर्वभागे प्रक्रमप्रमाणे लक्षणं कृत्वा स्पन्द्यां नियम्य बहिःस्पन्द्यमपच्छिन्द्यात् । एवं अपच्छेदेन एका चतुर्थी निरस्ता भवति । इतरा अर्धपञ्चमाः शिरो भवन्ति ॥ ३४ ॥ पुच्छस्य षट्पदा प्राची द्विपुरुषोदीची । तस्य पूर्वे स्रक्ती त्रिभिस्त्रिभिः प्रक्रमैरपच्छिन्द्यात् ॥ ३५ ॥ पुच्छस्येति । तस्येति । दक्षिणोत्तरे अंससक्ती आरभ्य त्रिषु त्रिषु प्रक्रमेषु शङ्कुद्वयं निहत्य श्रोणिस्रक्त्योरपि शङ्कुद्वयं निहत्य शङ्कुषु स्पन्द्यामावध्य बहिःस्पन्द्यमपच्छिन्द्यात् । अवशिष्टः पुच्छमित्यर्थः ॥ ३५ ॥ पुच्छस्येति । आत्मपश्चिमपार्श्वेन सह । एवं चतुर्विंशतिश्चतुर्थांगीयाः । तस्येति । दक्षिणादंसादुत्तरतः प्रक्रमत्रयेऽतीते लक्षणम् । एवं उत्तरांसाद् दक्षिणतः । तयोः स्पन्द्यां नियम्य श्रोण्योर्निपातयेत् । एवं नव चतुर्थ्यो निरस्ता भवन्ति । पुच्छक्षेत्रे पञ्चदश परिशिष्टा भवन्ति ॥ ३५ ॥ पक्षो द्वादशपदायामो दशपदन्यासः । तस्य मध्यात् प्राञ्चि षट्पदानि प्रक्रम्य शङ्कुं निहन्यात् । श्रोण्योरेकैकम् । अथैनां स्पन्द्यया परिचिनुयात् । अन्तःस्पन्द्यमपच्छिद्य तत्पुरस्तात् प्राञ्चं दध्यात् । स निर्णामः । एतेनोत्तरस्य पक्षस्य निर्णामो व्याख्यातः । पक्षाग्रयोः प्रक्रमप्रमाणानि पञ्च पञ्च चतुरश्राण्यनूचीनानि कृत्वा
ऽध्यायः ] बौधायनीयं ६३ सर्वाण्यवाञ्चमक्ष्णयापच्छिन्द्यादर्धान्युद्धरेत् । एवं सारत्निप्रादेशः सप्तविधः संपद्यते ॥ ३६ ॥ पक्षो द्वादशेति । प्राक् प्रत्यक् दशपदव्यासं दक्षिणोत्तरं द्वादशपदायामं दीर्घचतुरश्रं विहृत्यापरस्याः करण्याः मध्यादारभ्य पुरस्तात् प्रक्रमत्रयं मित्वा तत्र शङ्कुं निहत्य श्रोणिसक्त्योः शङ्कुद्वयं निहत्य शङ्कूनामुपरि स्पन्द्यां नियम्यान्तःस्पन्द्यं परिच्छिन्द्यात् । प्राञ्चं दध्यादिति । अपरिच्छिन्नं पुरस्तात् आदध्यात् । स निर्णाम इत्यर्थः । पक्षाग्रयोरिति । चतुरश्राणि कारयेदित्युक्त्या पक्षाद् बहिरिति ज्ञायते । अनूचीनानि निरन्तराणी- त्यर्थः । अर्धान्युद्धरेद् दक्षिणपक्षाग्रेषु आग्नेयदलानि उत्तरपक्षाग्रेषु ऐशान्यदलानि त्यजेत् । एवमिति । एवञ्च सति सारत्निप्रादेशः सप्तविधः संपद्यते ॥ ३६ ॥ पक्षविति । आत्मदक्षिणपार्श्वमध्यसङ्गत उदगायतं । एवं त्रिंशत् चतुर्थ्यो भवन्ति । पक्षमध्यनमनमाह—तस्येति । पक्षापरान्तमध्याद् आरभ्य प्राञ्चं षट्पदानि प्रक्रम्य शङ्कुं निहन्यात् । श्रोण्योरिति । पक्षापरसक्त्योरित्यर्थः । अथैनामिति । एनां चिह्नान्तरालभूमिं सर्वत्र स्पन्द्यया वेष्टयेत् । अन्त इति । अन्तःस्पन्द्यं स्पन्द्यान्तर्गतं क्षेत्रमथोद्धृत्य पक्षस्य पुरस्तात् प्राञ्चं प्रागग्रमुपदध्यात् । एतदुक्तं भवति । पक्ष- पूर्वान्तमध्यादारभ्य प्राञ्चं षट्पदं प्रक्रम्य लक्षणं कृत्वा तस्मिन् पाशौ प्रतिमुच्य पक्षपूर्वसक्त्या निपातयेदित्यर्थः । स इति । य एष उक्तः स निर्णामः निर्गमनम् । अर्थनिर्देशोऽयं न संज्ञा अपनाम इत्युत्तरत्र ( ३।५४ ) वक्ष्यमाणत्वात् । एतेनेति । निर्णाम इत्यस्य प्रदर्शनार्थत्वात् । दक्षिणस्य पक्षस्य यदुक्तं द्वादशपदायाम इत्यादि तत्सर्वं परिगृह्यते । अन्यथासम्भवात् । पक्षाग्रयोरिति । पक्षाग्रयोर्दक्षिणत उत्तर- तस्ताभ्यां संश्लिष्टानि सर्वतस्त्रिंशदङ्गुलानि पञ्चचतुरस्राणि प्रागपवर्गाणि कृत्वा अवाञ्चं अवाग् यथा भवति तथा अक्ष्णया अपच्छिन्द्यात् । अर्धान्युद्धरेत् । एवं उभयत्र पञ्च चतुर्थ्यो भवन्ति । एवमिति । एवं पक्षात्मशिरःपुच्छेषु विभक्तेषु अरत्निक्षेत्राभ्यां प्रादेशक्षेत्रेण सह सप्तविधः पुरुषः संपद्यते । अर्ध्राष्टमपुरूषोऽग्निर्भवतीत्यर्थः । एवं सर्वत्र । अत्र आत्मनि सार्द्धपञ्चत्रिंशत् चतुर्थ्यः । शिरसि अर्धपञ्चमाः । पुच्छे पञ्चदश । दशसु पत्त्रेषु पञ्च । पक्षयोः षष्टिः । एवं विंशत्यधिकं शतं षोडश्यः । पुरुषक्षेत्रे षोडश षोडश्यः शेरते । एवं सर्वत्र द्रष्टव्यम् ॥ ३६ ॥
६४ शुल्वसूत्रम् [ तृतीयो- उपधाने शिरसोऽप्यये चतुर्थीमुपदध्यात् । हंसमुखीं पुरस्तात् । पादेष्टके अभितः । तयोरवस्तादभितस्तिस्रस्तिस्रश्चतुरस्रपाद्याः । शेषे पादेष्टकाः ॥ ३७ ॥ उपधान इति । क्रियमाण इति शेषः । शिरसोऽप्यय इति । आत्मन उपरि शिरसो मूलप्रदेशमध्य इत्यर्थः । हंसमुखीमिति । (सर्वतः) (पूर्वत?) चतुर्थ्याः पुरस्तादित्यर्थः । अभित इति । हंसमुख्या दक्षिणोत्तरपार्श्वयो- रित्यर्थः । तयोरवस्तादिति । उपहितयोः पाद्योरवस्तादधस्तात् पश्चाद्- भाग इत्यर्थः ॥ ३७ ॥ उपधान इति । सर्वत्राप्ययशब्देन पक्षपुच्छशिरसां आत्मसङ्गतः प्रदेशो विधीयते । शिरसोऽप्यये मूलप्रदेश इत्यर्थः । अविशेषात् मध्ये । पार्श्वयोरुभयत्र पञ्चदशाङ्गुलमवशिष्य । हंसमुखीमिति । पुरस्तात् चतुर्थ्याः पुरस्तात् प्रागग्रां हंसमुखी- मुपदध्यात् । पादेष्टक इति । हंसमुख्या अभितः प्रत्यगग्रे । अग्रप्रदेशेन संश्लिष्य दीर्घपार्श्वे पादेष्टके उपदध्यात् । तयोरुपहितयोः पादेष्टकयोरवस्तात् पश्चात् । अभितः चतुर्थीहंसमुख्योरभितः । तिस्रस्तिस्रश्चतुरस्रपाद्या उपदध्यात् । उभयत्र हंसमुखीपश्चिमान्तेन तुल्यां बहिर्दीर्घपार्श्वां प्रागग्रां एकैकामुपधाय तयोः पश्चात् पञ्चदशाङ्गुलव्यासत्रिंशदङ्गुलक्षेत्रे द्वे द्वे यथायोगमुपदध्यात् । शेष इति । शिरसः शेषे पादेष्टकाः । सामर्थ्याच्चतस्र इत्यर्थः । तत्र शिरोऽग्रहंसमुख्ययोर्मध्ये प्राग- म्प्रत्यगग्रे द्वे (?) । प्रत्यगग्रपाद्याभितः प्रागग्रे द्वे । एवं चतुर्दशेष्टकाः शिरस्युपहिता भवन्ति ॥ ३७ ॥ अपि वा शिरसोऽग्रे हंसमुखीमुपदध्यात् । तस्या अवस्ताच्चतु- र्थीमुपदध्यात् । पादेष्टकेऽभितः । तयोरवस्तादभितस्तिस्रस्तिस्रश्च- तुरस्रपाद्याः । शेषे पादेष्टकाः ॥ ३८ ॥ पक्षान्तरमाह—अपि वेति । शेष इति । प्रथमपक्षोक्तचतुर्थीस्थान इत्यर्थः ॥ ३८ ॥ अपि वेति । शिरसोऽग्रे हंसमुखीमुपधाय तस्याः पश्चात् चतुर्थीमुपधाय तयोर- भितः पादेष्टके दक्षिणोत्तराग्रे अभ्यन्तरदीर्घपार्श्वे उपधाय तयोः पश्चात् पश्चिमान्त-
ऽध्यायः ] बौधायनीयं ६५ सङ्गते चतुरस्रपाद्ये बहिर्दीर्घपार्श्वे प्रागग्रे उभयत उपधाय तयोः पश्चात् पद्न्यास- प्रक्रमदीर्घपूर्वापरचतुरस्रक्षेत्रे द्वे द्वे चतुरस्रपाद्ये उपधाय तयोर्युगलयोर्मध्येऽवशिष्ट- चतुर्भागीक्षेत्रे चतस्रः पादेष्टका इति । अयमपर उपधानकल्पः । अत्रापि शिरसि चतुर्दश ॥ ३८ ॥ शिरसोऽवस्तात् पञ्चपादेष्टका व्यतिषक्ता उपदध्यात् । तथा पुच्छस्य पुरस्तात् ॥ ३९ ॥ शिरसोऽवस्तादिति । शिरसः पश्चादात्मन्यग्रभागे पञ्च पाद्याः व्यत्यासेन संश्लिष्टा इत्यर्थः । तथा पुच्छस्येति । पुच्छादात्मनि पश्चाद्भागे पञ्च पाद्याः पूर्ववदुपदध्यात् ॥ ३९ ॥ शिरसविति । व्यतिषक्ता व्यत्यस्ता दक्षिणोत्तराभिः । द्वितीयाचतुर्थ्यौ प्रत्यगग्रे । इतराः प्रागग्राः । तथेति । पादेष्टकाः पञ्च व्यतिषक्ताः । अत्र द्वितीयचतुर्थ्यौ प्रागग्रे । इतराः प्रत्यगग्राः ॥ ३९ ॥ यद्यदपच्छिन्नं तस्मिन्नर्धेष्टकाः पादेष्टकाश्चोपदध्यात् ॥४०॥ यद्यदिति । प्रथमयच्छब्दः अव्ययत्वात् पञ्चम्यन्तः, द्वितीयस्तु प्रथ- मान्तः। तथा च यतोऽपच्छिन्नं यदपच्छिन्नमित्यर्थद्वयलाभात् आत्मपुच्छपक्षेषु स्रक्तीनां प्रदेशेभ्यः यतोऽपच्छेदः तत्र च पक्षयोरुपरितननिर्नामयो- रपि अर्थादुपधानं सिद्धं भवति । अपच्छिन्नस्यैवोपनमनाभिधानादिति भावः ॥ ४० ॥ यद्यदिति । अपच्छेदेषु अन्यासामसम्भवात् । सिद्धस्य वचनम् अर्ध्यामिश्राभिः पाद्याभिरुपधानार्थम् । तत्र शिरसि आत्मपूर्वापरान्ते पूर्वमेवोपहिताः पादेष्टकाः । अनेन सूत्रेण पुच्छपूर्वान्ते पार्श्वयोर्द्वे द्वे पादेष्टके । निर्णामान्तयोरपच्छेदेषु चतस्रश्च- तस्रः पाद्याः । अन्यत्र अर्धेष्टकाः ॥ ४० ॥ शेषमग्निं चतुर्भागीयाभिः प्रच्छादयेत् । पाद्याभिः संख्यां पूरयेत् ॥ ४१ ॥ शेषमिति । चतुर्भागीयाभिः षोडशभागीयाभिश्चतुर्थीभिरिति यावत् । एवमुपधाने कथं तर्हि शतेष्टकासंपत्तिः ? कथञ्च स्वयमातृण्णाया अन- पिधानमित्यत आह-पाद्याभिरिति ॥ ४१ ॥
शेषमिति। अत्र चतुर्भागीयाभिरेवेति न नियम्यते। ताभिः पूरयितुमश- क्यत्वात्। पाद्याभिरिति। चतुर्थीभिः प्रच्छादिते द्विशतसंख्या न पूर्यते। तत्र अर्द्धा- सहिताभिः पाद्याभिः संख्यां द्विशतसंख्यां पूरयेत्। तत्रैवमुपधानम्। शिरोवर्जं पुच्छेन सह आत्मनि उदीच्यो द्वादशरीतयः। तत्र पुच्छाग्रे मध्यतः षट् चतुर्थ्यः। पार्श्वयोरर्धे। द्वितीयरीत्यां पार्श्वयोरर्ध्ये मध्ये षोडशपाद्याः। तृतीयस्यां मध्ये द्वे चतुर्थ्यौ पार्श्वयोर्द्वे द्वे पाद्ये। चतुर्थ्यां पञ्च पाद्याः पूर्वोक्ताः। पञ्चम्यां पार्श्वयोरर्ध्ये मध्ये तिस्रश्चतुर्थ्यः। ततः पञ्चसु पञ्च पञ्च चतुर्थ्यः। तत्र अष्टम्यां मध्यामुद्धृत्य द्वे अर्ध्ये। पञ्चमीवदेकादशी। ततः पूर्वोक्ताः पञ्च पाद्याः। शिरसि चतुर्दश पूर्वमेवोक्ताः। पक्षयोः पत्त्राणि पञ्चार्ध्याः। तत्र दक्षिणपक्षस्थाः प्रागुत्तरविशेषाः। विप- रीता इतराः। तत्र पक्षयोः प्राच्यः षट् षड्रीतयः। तत्र दक्षिणे पक्षे दक्षिणादारभ्य मध्ये चतस्रश्चतुर्थ्यः पश्चात् पुरस्ताच्च अर्ध्ये। एवं द्वितीया। तृतीयस्यामादितः सप्त अर्ध्या उपधाय ततो दक्षिणपूर्वकण्णां अर्ध्यामेकामुपधाय ततश्चतस्रः पाद्याः संहिताग्रा उपदध्यात्। एवं चतुर्थी रीतिः। पञ्चम्यां आदितोऽर्ध्या ततस्तिस्रश्चतुर्थ्यस्ततोऽर्ध्या- त्रयम्। दक्षिणारीतिवत् षष्ठी रीतिः। एवमुत्तरः पक्षः। एवं षट्चत्वारिंशदात्मनि। शिरसि चतुर्दश। द्वात्रिंशत् पुच्छे। पक्षयोरष्टशतम्। अस्मिन् प्रस्तारे नवषष्टिश्चतुर्थ्यः। अर्ध्याः द्वासप्ततिः। पाद्याः द्विपञ्चाशत्। षट् चतुरस्रपाद्याः। एका हंसमुखी। एष द्विशतः प्रस्तारः॥ ४१॥ अपरस्मिन् प्रस्तारे हंसमुखीश्चतस्रश्चतसृभिः पादेष्टकाभिः- संयोजयेद् यथा दीर्घचतुरश्रं संपद्यते। तत्तिर्यक् स्वयमातृण्णा- वकाश उपदध्यात्॥ ४२॥ अपरस्मिन्निति। यथेति। चतस्रो हंसमुखीः परस्परसंश्लिष्टमुखा उपधाय पार्श्वद्वयोर्वा (हंसविशेष पाद्याद्वये मध्येऽन्तः सविशेषो पाद्याद्वये) चोपधीयमाने दीर्घचतुरश्रं भवतीति वेदितव्यम्। एवमुपधानप्रकारमभिधाय स्थलं निर्दिशति—तदिति। दीर्घचतुरश्रमित्यर्थः। तिर्यगिति। दक्षिणो- त्तरदीर्घमित्यर्थः. (?) ॥ ४२॥ अपरस्मिन्निति। एवं कृत्वा उपदध्यादिति विवक्षितम्। ईदृग्रूपा इष्टका उपदध्यादित्यर्थः। तत्रैवमुपधानम्। स्वयमातृण्णावकाशमध्यं गृहीत्वा पदत्रयव्यासं प्रक्रम- द्वयदीर्घं दीर्घचतुरस्रं दक्षिणोत्तरं बुद्ध्या परिकल्प्य चतुरस्रपूर्वपार्श्वे प्रत्यगग्रे द्वे
ऽध्यायः ] बौधायनीयं ६७ हंसमुख्यौ पश्चिमपार्श्वे प्रागग्रे द्वे हंसमुख्यौ । तासां मध्ये दक्षिणोत्तराग्रे अन्तर्दीर्घपार्श्वे पादेष्टके । चतुरस्रदक्षिणोत्तरपार्श्वयोर्मध्यभूतान्तरालयोर्बहिर्दीर्घपार्श्वे दक्षिणोत्त- राग्रे द्वे पादेष्टके । एवं अष्टेष्टकं दीर्घचतुरस्रं भवति ॥ ४२ ॥ हंसमुख्यौ प्रतीच्यौ पुच्छाप्ययेऽर्धपदेनात्मनि विशये । तयो- रवस्तादभितस्तिस्रः पादेष्टकाः प्राङ्मुख्योरुपदध्यात् । पुच्छस्याव- स्तात् पञ्चदश पादेष्टका व्यतिषक्ता उपदध्यात् ॥ ४३ ॥ प्रतीच्याविति । प्रत्यङ्मुखे इत्यर्थः । पुच्छाप्यय इति । पुच्छात्म- सन्धवित्यर्थः । अर्धपदेनेति । मुखं सन्नतांशो यथा पुच्छे इतरांशश्च आत्मनि भवति तथोपदध्यादित्यर्थः । आत्मान्तर्गते विशये एकदेशे इत्यर्थः । विशयशब्दस्यैकदेशार्थत्वमापस्तम्बेनोक्तम् । अभित इति । हंसमुख्यो- र्दक्षिणत उत्तरतः मध्यतश्चेत्यर्थः । पुच्छस्येति । अवस्तादिति । अग्र इत्यर्थः ॥ ४३ ॥ हंसमुख्याविति । पुच्छात्मसन्धौ द्वे हंसमुख्यौ प्रत्यगग्रे । अर्धपदमात्रेणोप- लक्षितो योऽवयवः स आत्मनि यथा भवति तथा उपदध्यात् । विशयशब्दार्थमाह आपस्तम्बः । अर्धमात्मनि अर्धं पक्षे इति । तत्र अर्धशब्दस्योभयत्र स्थित्युप- लक्षणत्वाद् एकदेशोऽपि गृह्यते । तयोरिति । तयोर्हंसमुख्योः पश्चाद् अभितो दक्षिण- तश्चोत्तरतश्च प्रागग्राः पादेष्टकास्तिस्र उपदध्यात् । हंसमुख्योः पश्चात् प्रत्यग्दीर्घ- पार्श्वीः प्रागग्राः हंसमुख्योरग्राभ्यां संहिता उपदध्यादित्यर्थः । पुच्छस्येति । पुच्छाग्रे [L20
तत्र प्रथमपश्चिमपत्राग्रे प्रागग्रा पाद्या, तस्या उत्तरतः प्रत्यगग्रा पाद्या, तस्याः पुरस्तात् उत्तरपूर्वदीर्घबाह्यकर्णा पादेष्टकादीर्घपार्श्वेन प्रक्रमेण संगतां अर्धेष्टका- मुपदध्यात्। एवं पञ्चपत्त्वेपूपधानम्। विशये पक्षात्मसन्धिषु निर्णामाद्यन्तेषु यदपच्छिन्नं क्षेत्रं तस्मिन् अर्धेष्टकाः पादेष्टकाश्च यथासम्भवमुपदध्यात्। विशय उक्तार्थः ॥ ४४ ॥ शेषमग्निं चतुर्भागीयाभिः प्रच्छादयेत्। पाद्याभिः साध्याभिः संख्यां पूरयेत् ॥ ४५ ॥ शेषमिति। पूर्वमेव व्याख्यात। तत्रैवमुपधानम्। पुच्छे विशयस्थरीत्या सह उदीच्यश्चतस्रो रीतयः। तत्र प्रथमं पुच्छाग्रे पञ्च- दश पादेष्टकाः पूर्वमुक्ताः। ततः पूर्वस्यां मध्ये पञ्च चतुर्थ्यः पार्श्वयोरर्ध्ये। तृतीयायां मध्ये तिस्रश्चतुर्थ्यः पार्श्वयोरर्ध्ये। सन्धिरीत्यां प्रागग्रास्तिस्रः पादेष्टकाः। तासां पुरस्तात् प्रत्यगग्रं हंसमुखीद्वयं व्यतिषक्तमुपदध्यात्। एवं पञ्चेष्टका सन्धिरीतिः। तत्रात्मनि पक्षयोश्च प्रागायता अष्टादशरीतयः। तत्र आत्ममध्यमे रीती शिरसा सह। तत्र आत्ममध्यमरोत्योर्दक्षिणा उच्यते। पूर्वं पुच्छात्मसन्धिरीत्यां दक्षिणतः प्रत्यगग्रं उपहिताया हंसमुख्याः पुरस्तात् तिस्रश्चतुर्थ्यः। ततः प्रागग्रा हंसमुखी (तस्याः पुरस्तात् प्रत्यगग्रा हंसमुखी इति थिवो महाशयेनानुमितः पतितः पाठः) पूर्वहंसमुख्या अग्रेणाग्रसंगता। तयोर्मध्ये दक्षिणत उत्तरतश्च उदग्दक्षिणाग्रे पादेष्टके। एवमुपहितचतुष्टयस्य पुरस्तात् तिस्रश्चतुर्थ्यः। ततः पञ्च अर्धेष्टकाः। एवं पञ्चदशेष्टका रीतिः। ततो दक्षिणस्यां चतुर्दशार्धेष्टकाः। ततः पक्षात्मविशयरीत्यां पश्चाद् अर्धे- ष्टका ततश्चतस्रश्चतुर्थ्यः। ततः सन्धौ मध्यतः प्रागग्रा पाद्या। पार्श्वयोर्दक्षिणो- त्तराग्रे द्वे पादेष्टके। एवं पाद्यात्रयमग्रेण संगतं भवति। एवं अष्टेष्टका सन्धिरीतिः। तस्या दक्षिणतो रीतिद्वयेनाष्टौ चतुर्थ्यः। पार्श्वयोश्चतस्र अर्धेष्टकाः। निर्णामरीत्यां आदौ मध्यतः प्रत्यगंरा पादेष्टका। तस्या दक्षिणत उत्तरतश्च उदग्दक्षिणाग्रे द्वे पादेष्टके। एवं पाद्यात्रयं अग्रसङ्गतं भवति। ततः चतस्रश्चतुर्थ्यः। तत एका पाद्या प्रागग्रा। एवं अष्टेष्टका रीतिः। ततो रीतिद्वयेन अष्टौ चतुर्थ्यः। पार्श्वयोश्चतस्र अर्ध्याः तयोर्दक्षिणा रीतिः पत्त्रैः सह पूर्वमेवोक्ता पञ्चदशेष्टकात्मिका। उत्तरपार्श्वस्याप
[Header] CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
ऽध्यायः ] बौधानीयम् ६६
अथापरः ॥ ४६ ॥ पञ्चपत्त्रश्येननिरूपणान्तरं षट्पत्त्रश्येनप्रकारो निरूप्यते तन्निरूपणा- धीननिरूपणत्वादित्यर्थः । अथेति ॥ ४६ ॥ अथ उक्तमेव श्येनचितं प्रकारान्तरेणाह—अथापर इति । अथशब्दः पूर्वेण सम्बन्धार्थः । ये पूर्वस्य उक्ता धर्माः अंसापच्छेदनादय अस्यापि ते भवन्तीति । अपरः प्रकारः । श्येनाकृतेरपरः प्रकारो वक्ष्यत इत्यर्थः ॥ ४६ ॥ पुरुषस्य पञ्चमीभिः शतमशीतिः सप्तार्धञ्च सारत्निः प्रादेशः सप्तविधः संपद्यते ॥ ४७ ॥ पुरुषस्येति । पुरुषस्य विंशत्युत्तरशताङ्गुलप्रमाणस्य पञ्चमीभिः पञ्चमांशप्रमाणाभिरिष्टकाभिरित्यर्थः । सर्वतोऽरत्निप्रमाणाभिरिति यावत् । पञ्चमीभिरिति षष्ठ्यर्थे तृतीया । शतमशीतिः सप्तार्धञ्च सारत्निप्रादेशः सप्तविधः संपद्यते, अर्धाष्टमोत्तराशीत्यधिकशतेष्टकापरिमितक्षेत्रविशेषः सार्धसप्तविधोऽग्निर्भवतीत्यर्थः ॥ ४७ ॥ पुरुषस्येति । षष्ठ्यर्थे तृतीया । पुरुषस्य पञ्चमीनां इष्टकानां शतमशीतिश्च सप्त चार्धेष्टका च सारत्निप्रादेशः सप्तविधः संपद्यते । पुरुषक्षेत्रे पञ्चविंशतिः पञ्चम्यः शेरते । अर्धपुरुषक्षेत्रे अर्धत्रयोदश । एवं सारत्निः ॥ ४७ ॥ तासां पञ्चाशद् द्वे चात्मनि ॥ ४८ ॥ तासामिति । पञ्चमीनामित्यर्थः । पञ्चाशद् द्वे चेष्टके आत्मनि यथा सम्भवन्ति तथोपद्ध्यात् । एवञ्च सति षष्टिरिष्टकाः शेरते, अवशिष्टाना- मिष्टकानां वक्ष्यमाणेन (३।५२) स्रक्त्यपच्छेदेन निवृत्तिर्भवति ॥ ४८ ॥ ताभिरिष्टकाभिरात्मपक्षपुच्छशिरसां मानमाह—तासामिति । उपदध्यादिति शेषः । एवं सर्वत्र । सामर्थ्यादात्मक्षेत्रं षडरत्निविस्तारं द्विपुरुषायामं दीर्घचतुरस्रं भवति । तत्र षष्टिः पञ्चम्यः शेरते । अर्धव्यायामेन स्रक्तीनामपच्छेद ( ३।५२ ) इति वक्ष्यते । एवं श्रोण्यंसेषु द्वाभ्यां द्वाभ्यामरत्निभ्यामपच्छेदने कृते अरत्न्यष्टकं निरस्तं भवति । शेषाः पञ्चाशद् द्वे च भवन्ति ॥ ४८ ॥ अर्धचतुर्थाः शिरसि ॥ ४९ ॥ अर्धचतुर्था इति । अर्ध चतुर्थं (च) यासां ता अर्धचतुर्था इत्यर्थः । मूर्ध्नि उपदध्यादित्यर्थः । शिरसः अंसापच्छेदार्थमेकपञ्चमीक्षेत्रेण सह द्वय-
१०० शुल्वसूत्रम् [ तृतीयो- रत्निव्यासं सपादद्व्यरत्निदीर्घंचतुरश्रं कुर्यादित्यर्थः । एवञ्च अर्धपञ्चमे अवशिष्ट (!) शिरोऽपच्छेदनेन एकस्याः पञ्चम्या निवृत्तेर्भविष्यति ॥ ४९ ॥ अर्धेति । पूर्ववच्छिरःस्थानेऽरत्नद्वयव्यासं चतुःपञ्चाशदङ्गुलायामं दीर्घ- चतुरस्रं विहृत्य आकृतिः शिरसो नित्या (३।५६) इति वक्ष्यमाणत्वाद् इह अरत्नौ पूर्व- श्येनप्रक्रमभक्तिं कृत्वा पूर्वस्याः करण्या मध्याद् दक्षिणोत्तरयोररत्निमात्रे पूर्वभागे निपातयेत् । एवं अर्धचतुर्थाः पञ्चम्यो भवन्ति ॥ ४९ ॥ पञ्चदश पुच्छे ॥ ५० ॥ पञ्चदशपुच्छ इति । यथा पञ्चदशेष्टकाः पुच्छे सम्भवन्ति तथोपद्- ध्यादुपधानं कुर्यादित्यर्थः ॥ ५० ॥ पञ्चदशेति । अरत्निविस्तारं अष्टारत्निदीर्घं उद्गायतं चतुरस्रं कृत्वा पूर्व- [L12
ऽध्यायः ] बोधायनीयं १०१ स्रक्तीनां कोणानामर्धव्यायामेन द्वाभ्यामरत्निभ्यामपच्छेदः कर्त्तव्य इत्यर्थः । अयमर्थः—चतुरश्रस्य दक्षिणांसकोणादारभ्य पश्चिमपार्श्वेऽरत्नद्वयं मित्वा तत्र शङ्कुं निहत्य, एवमुत्तरपार्श्वेऽप्यरत्निद्वयं मित्वा तत्र शङ्कुं निहत्य शङ्कोरुपरि स्पन्द्यां नियम्य ( बहिः ? ) स्पन्द्यमपच्छिन्द्यात् । एवं तिसृषु स्रक्तिषु अपच्छेदो द्रष्टव्य इति । एवं चात्मनि पञ्चाशद् द्वे चेष्टका भवन्ति ॥ ५२ ॥ अर्धेति । उक्तार्थम् ॥ ५२ ॥ संनतं पुच्छम् ॥ ५३ ॥ संनतमिति । विस्तृतमित्यर्थः । संनतं पुच्छमित्युक्त्या पश्चादश पुच्छे- त्युक्त्या च त्र्यरत्निव्यासाष्टारत्निदीर्घचतुरश्रस्य त्रिभिस्त्रिभिररत्निभिः पुच्छापच्छेदः । वक्रश्येनपुच्छचतुरश्रस्य दक्षिणादंसादारभ्य उत्तरपार्श्वेऽर- त्नित्रयं मित्वा पुच्छयोस्त्रिभिस्त्रिभिरपनामं कुर्यात् ॥ ५३ ॥ संनतमिति । पुच्छपूर्व्वान्तस्य द्व्यरत्नित्वात् पूर्व्वस्मात् संनतं संकुचितम् । विस्प- ष्टार्थं सिद्धस्य पुनर्व्वचनम् ॥ ५३ ॥ पक्षयोस्त्रिभिस्त्रिभिररत्निभिरपनामः ॥ ५४ ॥ पक्षयोरिति । अयमर्थः—पक्षार्थं कृतस्य षडरत्निव्यास नवा- रत्निदीर्घ-दीर्घचतुरश्रस्यापरस्याः करण्या मध्यादारभ्य पुरस्ताद- रत्नित्रयं मित्वा तत्र शङ्कुं निहत्य श्रोणिस्रक्त्योरपि शङ्कुद्वयं निहत्य शङ्कूनामुपरि स्पन्द्यां नियम्य बहिःस्पन्द्यमपच्छिन्द्यात् । यदपच्छिन्नं तत् पुरस्ताद् दध्यात् । एवमुत्तरपक्षस्याप्यपनामो द्रष्टव्यः ॥ ५४ ॥ पक्षयोरिति । निर्णाम इत्यर्थः । पूर्व्वश्येने त्रिभिः प्रक्रमैर्दृष्टम् । इह अरत्नि- भिरित्यर्थः ॥ ५४ ॥ अध्यर्धार्धाभिः षट् षट् पत्त्राणि कुर्यात् ॥ ५५ ॥ अध्यर्धार्धाभिरिति । वक्ष्यमाणप्रमाणाभिः प्रतिपार्श्वं षट् षट् पत्त्राणि कुर्यादित्यर्थः ॥ ५५ ॥ अध्यर्धेति । व्याख्यातप्रायमेतत् ॥ ५५ ॥
१०२ शुल्बसूत्रम् [तृतीयो- आकृतिः शिरसो नित्या ॥ ५६ ॥ आकृतिरिति। पूर्वोक्तस्य द्व्यरत्निव्यास-सपादद्व्यरत्निदीर्घ-चतुरश्रस्य अंससक्ती आरभ्य प्रत्यक् प्रत्येकमरत्निमात्रं मित्वा शङ्कुद्वयं निहत्य प्राक्- पार्श्वमध्यप्रदेशे एकं शङ्कुं निहत्य शङ्कूनामुपरि स्पन्द्यां नियम्य बहिः- स्पन्द्यमपच्छिन्द्यात् । एवञ्च सति सार्धास्तिस्रः पञ्चम्यः शेरते ॥ ५६ ॥ आकृतिरिति । तस्यांसौ प्रक्रमेण ( ३।३४ ) इत्यनेन प्रकारेणोक्तेत्यर्थः । इह अरत्निनेति विशेषः ॥ ५६ ॥ अथेष्टकानां विकाराः ॥ ५७ ॥ अथेति ॥ ५७ । अथशब्दः संबन्धार्थः । एतस्येत्यर्थः ॥ ५७ ॥ पुरुषस्य पञ्चम्यः। ता एवैकतोऽध्यर्धाः। ता एवैकतः सपादाः। पञ्चमभागीयायाः सार्ध्याः पाद्याः। तथाध्यर्धायाः। तयोश्चाष्टमभागौ तथा श्लेषयेद् यथा तिस्रः स्रक्तयो भवन्ति। पञ्चमभागीयायाश्चाष्टम्यः। तानि दश ॥ ५८ ॥ पुरुषस्येति । पञ्चमभागीया इष्टकाः सर्वतोऽरत्निप्रमाणा इत्यर्थः । ता एवैकत इति । ता एवैकतोध्यर्धा एकेन पार्श्वेनार्धारत्निप्रमाणयुक्ताः षट्त्रिंशदङ्गुलप्रमाणदैर्घ्याः अरत्निप्रमाणव्यासा इति यावत् । एवं सपादाः । पञ्चमेति । पञ्चमभागीया या इष्टकाः पञ्चमीमक्षणया भिन्द्यादिति (३।३०) अक्षण्यापच्छेदेन कृता अध्यर्द्धाः पाद्याश्च । तथेति । एवमध्यर्द्धा- याश्चार्ध्याः पाद्याश्च । तयोरिति । उभयोः ( पञ्चम्यर्थं पञ्चम्यर्थं- पञ्चम्योः) अध्यर्धपञ्चम्योः । अष्टमभागौ तयोः पादयोः अक्षण्या अर्धशः कृतौ इत्यर्थः । यथा तिस्रः स्रक्तयो भवन्ति तथा पूर्वोक्तौ संयोजयेत् । अस्या उभयीति संज्ञा । उभयावयवनिर्मितत्वात् । पञ्चमभागीयाया इति । तानीति । पूर्वोक्तानि करणानि दश इत्यर्थः । यद्यपि नवैव करणानि प्रागुक्तानि तथापि अध्यर्धायाः पाद्यानां करणद्वयसम्भवात्तदभिप्रायेण दशेत्युक्तम् ॥ ५८ ॥
ध्यायः ] बौधायनीयं १०३ पुरुषस्येति । ता एव इति । ता एव पञ्चम्यः । एक पार्श्वतोऽध्यर्धाः । अरत्नि- व्यासास्त्रिप्रादेशदीर्घा इत्यर्थः । ता एवैकेति । अरत्निव्यासास्त्रिषडङ्गुलायामाः । एवं त्रीणि प्रधानानि करणानि । पञ्चमभागीयाया इति । नित्यमक्ष्णयापच्छेदनमनादेशे (३।३०) इत्युक्तत्वात् पञ्चमीमक्ष्णया भिन्द्यात् । तस्या द्वे पार्श्वे चतुर्विंशत्यङ्गुले । तृतीयं तिलद्वयोनें चतुस्त्रिंशदङ्गुलम् । पाद्यायाः तिलद्वयोनसप्तदशाङ्गुले द्वे फलके । चतु- विंशत्यङ्गुलमेकम् । तथेति । अध्यर्धाया अपि पाद्याः सार्ध्याः । तत्र अध्यर्धा अरत्नि- प्रमाणमेकम् । त्रिप्रादेशमपरम् । नवतिलसहितत्रिचत्वारिंशदङ्गुलं तृतीयं कर्णरूपम् । अध्यर्धायाः पाद्यासु विशेषः । अध्यर्धां भूमौ लिखित्वा अक्ष्णया उभयतो भिन्द्यात् । एवं कृते तिर्यङ्मानीप्रदेशस्था पाद्या शूलेपायेति संज्ञिता । तस्या द्वे फलके सैक- विंशतितिले एकविंशत्यङ्गुले । इतरदरत्निप्रमाणम् । पार्श्वमानीप्रदेशस्था पाद्या दीर्घ- पायेति संज्ञिता । तस्या अपि द्वे फलके सैकविंशतितिले एकविंशत्यङ्गुले । त्रिप्रादे- शमितरत् । तयोश्चेति । तयोः पञ्चमभागीयाध्यर्धयोः । अष्टमभागौ पादेष्टकयोरध्ये । तथा श्लेषयेद् यथा श्लिष्टे तिस्रः स्रक्तयो भवन्ति । तत्र त्रीणि फलकानि । त्रिंश- दङ्गुलमेकम् । तिलोनसप्तदशाङ्गुलमपरम् । सैकविंशतितिलमेकविंशत्यङ्गुलं तृतीयम् । अस्या उभयीति संज्ञा । उभयावयवनिर्मितत्वात् । पञ्चमभागीयाया इति । अष्टमीनां द्वादशाङ्गुले द्वे प्रमाणे । तिलोनसप्तदशाङ्गुलमेकं प्रमाणम् । तानीति । अध्यर्धापा- द्यानां प्रकारद्वयसूचनमिदं संख्यावचनम् । तत्र पञ्चम्यश्चतुरशीतिशतम् । तदर्ध्या अष्टशतम् । तत्पाद्या द्वाविंशतिः । चतस्रोऽष्टम्यः । अष्टाचत्वारिंशत् सपादाः । षोडशोभय्यः । चतुःपञ्चाशच्छतद्वयमध्यर्धाः । तदर्ध्याः षण्णवतिशतद्वयम् । षट्- पञ्चाशद् दीर्घपाद्याः । द्वादश शूलपाद्याः । चोदानाकसद्भवतस्रः पञ्चम्यः द्वे तदर्थे चतस्रोऽध्यर्धाः । एवं पञ्चसहस्रमिष्टकाः ॥ ५८ ॥ आत्मनि पञ्चमभागीयाः सार्ध्या उपदध्यात् ॥ ५९ ॥ आत्मनीति । आत्मनि पञ्चमभागीयाः सार्ध्या एवोपदध्यात् ॥५६॥ अथोपधानम् । आत्मनीति । पञ्चमभागीयास्तदध्यर्धाश्च उपदध्यात् । न पाद्या नापि अध्यर्धा इत्यर्थः ॥ ५९ ॥ तथा पुच्छे ॥ ६० ॥ तथेति । एवं पुच्छपक्ष (!) योरिति ॥ ६० ॥ तथेति । पञ्चमभागीयाः सार्ध्या इत्येव ॥ ६० ॥ पक्षयोश्चाध्यर्धाः सार्ध्याः ॥ ६१ ॥ पक्षयोरिति । अध्यर्धा एवोपदध्यात् ॥६१॥ पक्षयोरिति । पूर्वेण व्याख्यातम् ॥ ६१ ॥
१०४ शुल्बसूत्रम् [ तृतीयो- शिरसि याः सम्भवन्ति ॥ ६२ ॥ शिरसोति । शिरसि याः संभवन्ति ता उपदध्यात् । अर्धे द्वे, सपाद- पञ्चम्यौ द्वे । एवं प्रथमे प्रस्तारे उपरि द्रष्टव्यः । एवञ्च प्रतिपक्षं चतुः पञ्चाशदिष्टकाः सम्पन्नाः प्रतियोज्यमानाः ॥६२॥ शिरसीति । द्वे अर्ध्ये द्वे सपादे इत्यर्थः । एवं सामान्येनोपधानमुक्तम् । अत्रैवमुपधानम् । पुच्छात्मशिरसां उदीच्यः पञ्चदशरीतयः । तत्र पुच्छाग्रे मध्यतः षट् पञ्चम्यः । पार्श्वयोर्द्वे तदर्ध्ये । पूर्वस्यां मध्यतश्चतस्रः पञ्चम्यः । पार्श्व- योर्द्वे तदर्ध्ये । तृतीयस्यां षडर्ध्याः । एवं चतुर्थी रीतिः । पञ्चमीपार्श्वयोर्द्वे मध्य- तश्चतस्रः पञ्चम्यः । ततः षड्भिः षड्भिः पञ्चमीभिः षड् रीतयः । पञ्चमीवद् द्वादशी । चतुर्थीवत् त्रयोदशी । शिरसि चतुर्दश्यां प्रागायते द्वे सपादे । पञ्च- दश्यां शिरसोऽग्रे द्वे अर्ध्ये बर्हिर्विशेषे । पक्षे पत्रवर्ज्याः षड् रीतयः प्राच्यः । तत्र पक्ष- मूलरीत्यां मध्ये पञ्च तिरश्च्योऽध्यर्धाः । पश्चात् पुरस्ताच्च द्वे अध्यर्धार्ध्ये । तस्या दक्षिणतोऽप्येवम् । तस्या दक्षिणतो निर्णामसमीपरीत्यां द्वादश अध्यर्धार्ध्याः । निर्णामदक्षिणरीत्यामप्येवम् । ततो दक्षिणतो द्वे रीती पक्षमूलरीतिद्वयवत् । पक्षपत्रेषु षड् अध्यर्धार्ध्या उदोच्यः । एवमुत्तरः पक्षः । आत्मनि षष्टिरिष्टकाः । विंशतिः पुच्छे । चतस्रः शिरसि । पक्षयोः षोड- शशतम् । अस्मिन् प्रस्तारे चतुः पञ्चाशत् पञ्चम्यः । अष्टाविंशतिरर्ध्याः । द्वे सपादे । चत्वारिंशदध्यर्धाः । षट्सप्ततिरध्यर्धार्ध्याः ॥ ६२ ॥ अपरस्मिन् प्रस्तारे पूर्वयोः पक्षाप्यययोरेकैकामुभयीमुप- दध्यात् । एकैकामपरयोः ॥ ६३ ॥ अपरस्मिन्निति । पूर्वयोः पक्षाप्यययोः पक्षात्मसन्ध्योर्मूलप्रदेशयोः एकैकामुभयीमुपदध्यात् । एकैकामिति । अपरप्रदेशयोः पूर्वोक्तयोरेकैका- मित्यर्थः ॥६३॥ अपरस्मिन्निति । पूर्वयोः पक्षात्मसन्ध्योरेकैकां उभयीं प्रागग्रां प्रत्यग्दीर्घपार्श्वां पक्षस्थाध्यर्धार्ष्टमभागीयां उपदध्यात् । दीर्घपार्श्वेन अष्टाङ्गुलेन पक्षं प्राप्तामित्यर्थः । एकैकामिति । अपरयोः पक्षात्मसन्ध्योरेकैकां उभयीं प्रत्यगग्रां अध्यर्धार्ष्टमभागेन पक्षं प्राप्तां उपदध्यात् ॥ ६३ ॥