बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 133, कुल 366 में से
संदर्भ में पढ़ेंध्यायः ] बौधायनीयं १०३ पुरुषस्येति । ता एव इति । ता एव पञ्चम्यः । एक पार्श्वतोऽध्यर्धाः । अरत्नि- व्यासास्त्रिप्रादेशदीर्घा इत्यर्थः । ता एवैकेति । अरत्निव्यासास्त्रिषडङ्गुलायामाः । एवं त्रीणि प्रधानानि करणानि । पञ्चमभागीयाया इति । नित्यमक्ष्णयापच्छेदनमनादेशे (३।३०) इत्युक्तत्वात् पञ्चमीमक्ष्णया भिन्द्यात् । तस्या द्वे पार्श्वे चतुर्विंशत्यङ्गुले । तृतीयं तिलद्वयोनें चतुस्त्रिंशदङ्गुलम् । पाद्यायाः तिलद्वयोनसप्तदशाङ्गुले द्वे फलके । चतु- विंशत्यङ्गुलमेकम् । तथेति । अध्यर्धाया अपि पाद्याः सार्ध्याः । तत्र अध्यर्धा अरत्नि- प्रमाणमेकम् । त्रिप्रादेशमपरम् । नवतिलसहितत्रिचत्वारिंशदङ्गुलं तृतीयं कर्णरूपम् । अध्यर्धायाः पाद्यासु विशेषः । अध्यर्धां भूमौ लिखित्वा अक्ष्णया उभयतो भिन्द्यात् । एवं कृते तिर्यङ्मानीप्रदेशस्था पाद्या शूलेपायेति संज्ञिता । तस्या द्वे फलके सैक- विंशतितिले एकविंशत्यङ्गुले । इतरदरत्निप्रमाणम् । पार्श्वमानीप्रदेशस्था पाद्या दीर्घ- पायेति संज्ञिता । तस्या अपि द्वे फलके सैकविंशतितिले एकविंशत्यङ्गुले । त्रिप्रादे- शमितरत् । तयोश्चेति । तयोः पञ्चमभागीयाध्यर्धयोः । अष्टमभागौ पादेष्टकयोरध्ये । तथा श्लेषयेद् यथा श्लिष्टे तिस्रः स्रक्तयो भवन्ति । तत्र त्रीणि फलकानि । त्रिंश- दङ्गुलमेकम् । तिलोनसप्तदशाङ्गुलमपरम् । सैकविंशतितिलमेकविंशत्यङ्गुलं तृतीयम् । अस्या उभयीति संज्ञा । उभयावयवनिर्मितत्वात् । पञ्चमभागीयाया इति । अष्टमीनां द्वादशाङ्गुले द्वे प्रमाणे । तिलोनसप्तदशाङ्गुलमेकं प्रमाणम् । तानीति । अध्यर्धापा- द्यानां प्रकारद्वयसूचनमिदं संख्यावचनम् । तत्र पञ्चम्यश्चतुरशीतिशतम् । तदर्ध्या अष्टशतम् । तत्पाद्या द्वाविंशतिः । चतस्रोऽष्टम्यः । अष्टाचत्वारिंशत् सपादाः । षोडशोभय्यः । चतुःपञ्चाशच्छतद्वयमध्यर्धाः । तदर्ध्याः षण्णवतिशतद्वयम् । षट्- पञ्चाशद् दीर्घपाद्याः । द्वादश शूलपाद्याः । चोदानाकसद्भवतस्रः पञ्चम्यः द्वे तदर्थे चतस्रोऽध्यर्धाः । एवं पञ्चसहस्रमिष्टकाः ॥ ५८ ॥ आत्मनि पञ्चमभागीयाः सार्ध्या उपदध्यात् ॥ ५९ ॥ आत्मनीति । आत्मनि पञ्चमभागीयाः सार्ध्या एवोपदध्यात् ॥५६॥ अथोपधानम् । आत्मनीति । पञ्चमभागीयास्तदध्यर्धाश्च उपदध्यात् । न पाद्या नापि अध्यर्धा इत्यर्थः ॥ ५९ ॥ तथा पुच्छे ॥ ६० ॥ तथेति । एवं पुच्छपक्ष (!) योरिति ॥ ६० ॥ तथेति । पञ्चमभागीयाः सार्ध्या इत्येव ॥ ६० ॥ पक्षयोश्चाध्यर्धाः सार्ध्याः ॥ ६१ ॥ पक्षयोरिति । अध्यर्धा एवोपदध्यात् ॥६१॥ पक्षयोरिति । पूर्वेण व्याख्यातम् ॥ ६१ ॥