भारतकोश
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

पृष्ठ 134, कुल 366 में से

संदर्भ में पढ़ें
पृष्ठ 134

१०४ शुल्बसूत्रम् [ तृतीयो- शिरसि याः सम्भवन्ति ॥ ६२ ॥ शिरसोति । शिरसि याः संभवन्ति ता उपदध्यात् । अर्धे द्वे, सपाद- पञ्चम्यौ द्वे । एवं प्रथमे प्रस्तारे उपरि द्रष्टव्यः । एवञ्च प्रतिपक्षं चतुः पञ्चाशदिष्टकाः सम्पन्नाः प्रतियोज्यमानाः ॥६२॥ शिरसीति । द्वे अर्ध्ये द्वे सपादे इत्यर्थः । एवं सामान्येनोपधानमुक्तम् । अत्रैवमुपधानम् । पुच्छात्मशिरसां उदीच्यः पञ्चदशरीतयः । तत्र पुच्छाग्रे मध्यतः षट् पञ्चम्यः । पार्श्वयोर्द्वे तदर्ध्ये । पूर्वस्यां मध्यतश्चतस्रः पञ्चम्यः । पार्श्व- योर्द्वे तदर्ध्ये । तृतीयस्यां षडर्ध्याः । एवं चतुर्थी रीतिः । पञ्चमीपार्श्वयोर्द्वे मध्य- तश्चतस्रः पञ्चम्यः । ततः षड्भिः षड्भिः पञ्चमीभिः षड् रीतयः । पञ्चमीवद् द्वादशी । चतुर्थीवत् त्रयोदशी । शिरसि चतुर्दश्यां प्रागायते द्वे सपादे । पञ्च- दश्यां शिरसोऽग्रे द्वे अर्ध्ये बर्हिर्विशेषे । पक्षे पत्रवर्ज्याः षड् रीतयः प्राच्यः । तत्र पक्ष- मूलरीत्यां मध्ये पञ्च तिरश्च्योऽध्यर्धाः । पश्चात् पुरस्ताच्च द्वे अध्यर्धार्ध्ये । तस्या दक्षिणतोऽप्येवम् । तस्या दक्षिणतो निर्णामसमीपरीत्यां द्वादश अध्यर्धार्ध्याः । निर्णामदक्षिणरीत्यामप्येवम् । ततो दक्षिणतो द्वे रीती पक्षमूलरीतिद्वयवत् । पक्षपत्रेषु षड् अध्यर्धार्ध्या उदोच्यः । एवमुत्तरः पक्षः । आत्मनि षष्टिरिष्टकाः । विंशतिः पुच्छे । चतस्रः शिरसि । पक्षयोः षोड- शशतम् । अस्मिन् प्रस्तारे चतुः पञ्चाशत् पञ्चम्यः । अष्टाविंशतिरर्ध्याः । द्वे सपादे । चत्वारिंशदध्यर्धाः । षट्सप्ततिरध्यर्धार्ध्याः ॥ ६२ ॥ अपरस्मिन् प्रस्तारे पूर्वयोः पक्षाप्यययोरेकैकामुभयीमुप- दध्यात् । एकैकामपरयोः ॥ ६३ ॥ अपरस्मिन्निति । पूर्वयोः पक्षाप्यययोः पक्षात्मसन्ध्योर्मूलप्रदेशयोः एकैकामुभयीमुपदध्यात् । एकैकामिति । अपरप्रदेशयोः पूर्वोक्तयोरेकैका- मित्यर्थः ॥६३॥ अपरस्मिन्निति । पूर्वयोः पक्षात्मसन्ध्योरेकैकां उभयीं प्रागग्रां प्रत्यग्दीर्घपार्श्वां पक्षस्थाध्यर्धार्ष्टमभागीयां उपदध्यात् । दीर्घपार्श्वेन अष्टाङ्गुलेन पक्षं प्राप्तामित्यर्थः । एकैकामिति । अपरयोः पक्षात्मसन्ध्योरेकैकां उभयीं प्रत्यगग्रां अध्यर्धार्ष्टमभागेन पक्षं प्राप्तां उपदध्यात् ॥ ६३ ॥