भारतकोश
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

पृष्ठ 119, कुल 366 में से

संदर्भ में पढ़ें
पृष्ठ 119

ध्यायः ] बौधायनीयं ८६ दिति व्याख्यातम् । पूर्वस्मिन्निति । पूर्वस्मिन्ननीके आत्मनः पूर्वान्तेपूर्वी- पहितानामन्तराले पञ्चार्धेष्टका उदीचीरुपदध्यात् ॥ २४ ॥ अपरस्मिन् प्रस्तार इति । आत्मश्रोण्यंसयोः । तासामिति । दक्षिणांसप्रभृति प्रदक्षिणमुत्तरतः पश्चात्, पुरस्ताद् उत्तरतः दक्षिणतः पुरस्तात् पश्चात् दक्षिणत इति । एवं षोडश । पूर्वस्मिन्ननीक इति । आत्मपूर्वान्ते पूर्वोपहितान्तराले पञ्च अर्धेष्टका उदीचीः ॥ २४ ॥ पक्षाग्रयोस्तिस्रस्तिस्रोऽध्यर्धा उदीचीः । तासामन्तरालेष्वेकै- कामर्धेष्टकां प्राचीम् ॥ २५ ॥ पक्षाग्रयोरिति । पक्षाग्रयोः दक्षिणोत्तरयोः । पक्षाग्रयोस्तिस्रस्तिस्र उदगायता अध्यर्धेष्टकाः पार्श्वयोरेकैकां मध्ये चैकामुपदध्यात् । तासा- मिति । तासामन्तरालेषु एकैकस्मिन् पक्षे द्वे द्वे अर्धेष्टके प्रागायते उप- दध्यात् ॥ २५ ॥ पक्षाग्रयोरिति । मध्ये पार्श्वयोरुदगायताः । तासामिति । एकैकस्मिन् पक्षे द्वे द्वे पक्षाग्रसंगते प्रागायते ॥ २५ ॥ शेषमग्निं पञ्चमभागीयाभिः प्रच्छादयेत् ॥ २६ ॥ एष द्विशतः प्रस्तारः । व्यत्यासं चिनुयाद् यावतः प्रस्तारां- श्चिकीर्षेद् ॥ २७ ॥ शेषमिति । सुगमम् ॥ २६–२७ ॥ शेषमग्निमिति । पक्षसन्धिरीतिभ्यां सह पक्षयोश्चतुःपञ्चाशत् पञ्चम्यः । पुच्छेन सह आत्मनि मध्यतः पञ्चसप्ततिः । आत्मपार्श्वयोरष्टादशाष्टादश । एवं पक्षयोश्चतुःषष्टिः । पुच्छे त्रिंशत् । षट्शतमात्मनि । अस्मिन् प्रस्तारे पञ्चषष्टिः शतं पञ्चम्यः । षडध्यर्धाः । पञ्चविंशतिरर्ध्याः । चतस्रः पाद्याः ॥ २६–२७ ॥ [ इति चतुरश्रश्येनचिदुपधानप्रकारः । ] अथ वक्रपक्षो व्यस्तपुच्छः ॥ २८ ॥ अथ चतुरश्रश्येननिरूपणानन्तरं वक्रश्येन उच्यते—वक्रेति । वक्रौ कुटिलौ पक्षौ यस्य स वक्रपक्षः । व्यस्तो विस्तीर्णः पुच्छो यस्य स व्यस्त- पुच्छः ॥ २८ ॥ १२