भारतकोश
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

पृष्ठ 118, कुल 366 में से

संदर्भ में पढ़ें
पृष्ठ 118

८८ शुल्बसूत्रम् [ तृतीयो- दक्षिणोत्तरयोरिति । पश्चात् प्रादेशमवशिष्य पुरस्तादरत्निं चावशिष्य मध्ये उदगायताः ॥ २१ ॥ पुच्छस्यावस्ताच्चतस्रोऽर्धेष्टका उदीचीः । तासामभितो द्वे पादेष्टके । जघनेन पुच्छाप्यययोरेकैकामर्धेष्टकां प्राचीम् ॥२२॥ पुच्छस्यावस्तादिति । पुच्छस्य पश्चात्प्रदेशे (पुरस्तादरत्निं चावशिष्य) मध्य उपदध्यात् । पुच्छस्य पश्चाद् उदगायताश्चतस्रोऽर्धेष्टका दक्षिणोत्तरयोः श्रोण्योः प्रादेशमवशिष्य मध्ये उपदध्यात् । तासामिति । तासामभितः पुच्छश्रोण्योः एकैकां पादेष्टकामुपदध्यात् । जघनेनेति । जघनेन पुच्छाप्य- ययोरेकैकामर्धेष्टकां प्रागायतामुपदध्यात् ॥ २२ ॥ पुच्छस्येति । पार्श्वयोरुभयत्र प्रादेशमवशिष्य मध्ये उदगायताः । तासामिति । पुच्छश्रोण्योरित्यर्थः । दक्षिणस्यामेकाम् । उत्तरस्यामेकाम् । जघनेनेति । पूर्व- पुच्छपार्श्वयोरुपहिताध्यर्धाभ्यः पुरस्तात् । दक्षिणोत्तरपार्श्वयोरध्यर्धामूलसंहिते प्रागायते ॥ २२ ॥ शेषमग्निं पञ्चमभागीयाभिः प्रच्छादयेत् । एष द्विशतः प्रस्तारः ॥ २३ ॥ [ अत्र ग्रन्थः पतितः प्रथमप्रस्तारस्यान्तिमोंऽशः द्वितीयप्रस्तारस्य चोपक्रमो न दृश्यते ] ॥ २३ ॥ शेषमग्निमिति । पक्षशेषयोरष्टाचत्वारिंशत् । पुच्छशेषे द्वादश । आत्मनिशतम् । एष इति । तत्र पक्षयोर्द्विसप्ततिः । अष्टाविंशतिः पुच्छे । आत्मनि शतम् । अस्मिन् प्रस्तारे षष्टिः शतं पञ्चम्यः । अष्टावध्यर्धाः । त्रिंशदर्ध्याः । द्वेपादेष्टके ॥ २३ ॥ अपरस्मिन् प्रस्तारे आत्मस्रक्तिषु पादेष्टका उपदध्यात् । तासामभितो द्वे द्वे अर्धेष्टके । पूर्वस्मिन्ननीके पञ्च ॥ २४ ॥ (शेष) कोणेषु चतस्रः पादेष्टकाः । तासामिति । तासां पादेष्टकाना- मभितः पार्श्वयोर्द्वे द्वे अर्धेष्टके उपदध्यादित्यर्थः । दक्षिणांसोपहितपादेष्ट- कायाः पश्चा (त्प्रागा ? ) ( उदगा) यते द्वे अर्धेष्टके क्रमेण उपदध्यात् । तस्या उत्तरतो द्वे अर्धेष्टके उदगायते क्रमेणोपदध्यात् । एतेन इतर- स्रक्तिषूपहितानां पादेष्टकानामपि पार्श्वयोर्द्वे द्वे अर्धेष्टके क्रमेणोपदध्या-