बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
द्वे द्वे शिरसः पार्श्वयोः ॥ ६४ ॥ द्वे द्वे इति । शिरसः पार्श्वयोर्द्वे द्वे उभयोः ॥ ६४ ॥ द्वे द्वे इति । दक्षिणोत्तरपार्श्वयोः दक्षिणोदगग्रे अन्तर्दीर्घपार्श्वे शिरसोऽप- च्छेदसक्तिगताग्रे एकैकां उभयीं, तयोः पश्चाद् बाह्यदीर्घपार्श्वे दक्षिणोदगग्रे ताभ्यां संश्लिष्टे उपदध्यात् ॥ ६४ ॥ पुच्छस्यावस्तादध्यर्धाः प्राचीर्यथावकाशम् । पार्श्वयोः पाद्याः साष्टभागाः ॥ ६५ ॥ पुच्छस्यावस्तादिति । पुच्छस्यावस्तात् पश्चाद्भागे पश्चाध्यर्धाः प्राग्दीर्घा यथावकाशमुपदध्यात् । पार्श्वयोरिति । पुच्छपार्श्वयोः पञ्चम- भागीया ( पाद्या ? ) स्तस्या एवाष्टमभागौ चोपपदध्यात् ॥ ६५ ॥ पुच्छस्येति । पुच्छस्य पश्चिमान्ते पार्श्वयोरुभयत्र प्रादेशत्रयमवशिष्य मध्ये पञ्च अध्यर्धाः प्रागायता उपदध्यात् । पार्श्वयोरिति । उपहितानामध्यर्धानां पार्श्वयोः पञ्चमीपाद्याः पञ्चम्यष्टमभागसहिताः । तत्र पुच्छश्रोण्योः प्रागग्रे पश्चिमदीर्घ- पार्श्वे द्वे पादेष्टके । तयोर्दक्षिणत उत्तरतश्च प्रत्यगग्रे द्वे । एवं चतस्रः पाद्याः । उभयत्र पाद्याद्वन्द्वस्य दक्षिणत उत्तरतश्च अध्यर्धामूलसंहितां एकैकामष्टमीं उपद- ध्यात् । उभयत्रोपहितत्रिकस्य पुरस्ताद् अध्यर्धासमीपे पञ्चम्यर्ध्याक्षेत्रं परिशिष्टं भवति ॥ ६५ ॥ पक्षयोञ्चाध्यर्धाः सावयवाः ॥ ६६ ॥ पक्षयोरिति । पक्षयोरध्यर्धाः सावयवा उपदध्यात् ॥ ६६ ॥ पक्षयोरिति । अवयवशब्देन दीर्घशूलपाद्ये उच्येते । नियमार्थं वचनम् ॥ ६६ ॥ शेषं यथायोगं यथासङ्ख्यं यथाधर्मञ्चोपदध्यात् ॥ ६७॥ शेषमिति । शेषमग्निं यथा आकृतिनिष्पत्तिर्भवति, यथासङ्ख्यं प्रस्तारं यथा द्विशतमिष्टकाः संभवन्ति, यथाधर्म्यं यथा दक्षिणे पक्षे तथोत्तरे पक्षेऽप्युपदध्यादित्यर्थः ॥ ६७ ॥ शेषमिति । अनुपहितक्षेत्रं यथायथं युज्यते । तथा यथासंख्यं यथा द्विशतपूर्त्तिः। तथा यथाधर्मं यथाभिधर्मं रूपं पशुधर्मं भेदवर्जनादि अविनाशयन् उपदध्यात् । भेदपरिहारेण पशुधर्म इत्यपरिग्रहेण यत्र या इष्टकाः सम्भवन्ति तथा उपदध्यादि- त्यर्थः । तत्रैवमुपधानम् । सन्धिरीत्या सह पुच्छे उदीच्यस्तिस्रो रीतयः । तत्र पुच्छाग्ररीत्यां दक्षिणान्ते प्रागग्रा प्रत्यग्दीर्घपार्श्वा पञ्चमीपाद्या । तस्या उत्तरतो विपरीता । तयोरुत्तरतोऽष्टमी १४
१०६ शुल्बसूत्रम् [ तृतीयो. प्रागुत्तरविशेषिका । एवं उपहितत्रिकस्य पुरस्ताद् बाह्यविशेषा पञ्चम्यर्ध्या । एवम- स्मिन् क्षेत्रे चतस्र इष्टकाः । तासामुत्तरेण पञ्च अध्यर्धाः प्रागायताः । ततो दक्षिण- क्षेत्रवद् उत्तरश्रोणिक्षेत्रोपधानम् । एवं त्रयोदशेष्टका रीतिः । द्वितीयायां मध्ये तिस्रः पञ्चम्यः । पार्श्वयोः तदर्ध्ये । सन्धिरीत्यां मध्ये पञ्चमी एका । अभितः तदर्ध्ये बाह्यविशेषे प्रत्यगरत्निपार्श्वे । तस्यामेव रीत्यां आत्मनि दक्षिणत उत्तरतश्च प्रत्यग्रं पादिकाद्वयम् । एवं पञ्चेष्टका सन्धिरीतिः । ततः पुरस्ताद् आत्मनि पार्श्वयोरुभयत्र प्रादेशमवशिष्य शिरसोऽप्ययरीत्या सह अष्टौ उदीच्यः । तत्र पुच्छाप्ययरीत्याः पुरस्तान्मध्ये तिस्रः पञ्चम्यः । पार्श्वयो- स्तदर्ध्ये । ततः पूर्वस्यां पञ्च सपादाः प्रागायताः । ततोऽध्यर्धापञ्चकेन प्रागायता एका रीतिः । ततः स्वयमातृण्णावकाशे प्राक्प्रत्यगग्रके शूलपाद्ये । दक्षिणत उत्तर- तश्च उदग्दक्षिणाग्रे दीर्घपाद्ये । एवमुपहितस्य चतुष्टयस्य अभितो द्वे द्वे अध्य- र्धार्ध्ये । तयोरभितो द्वे अध्यर्धे । एवं दशेष्टका रीतिः । तस्याः पुरस्तात् तिस्रो रीतयः पश्चिमभागवत् । शिरोऽप्ययरीत्यां मध्ये पञ्चमी । अभितस्तदर्ध्ये बाह्यविशेषे प्रत्यगरत्निपार्श्वे । ततः पुरस्ताद् अप्ययस्य पञ्चम्या संगता प्रागायता एका सपादा । तस्या अभितः सपादपार्श्वसंहितां अन्तस्त्रिंशदङ्गुलपार्श्वां पूर्वभागस्थपञ्चम्यष्टमांशं एकैकां उभयीं उपदध्यात् । तयोः पश्चात् विपरीतां एकैकां उभयीम् । शिरसोऽग्रे पञ्चमी- पाद्या एका । दक्षिणपक्षसन्धिरीत्यां आदितः प्रत्यगग्रा उभयी । सा च पञ्चम्यष्टमांशेन आत्मानं प्राप्ता । तस्याः पश्चाद् आत्मांशे एका पञ्चमीपाद्या । तयोः पुरस्तात् पञ्च सपादा उद्गायता आत्मानं प्रादेशेन प्राप्ताः । तासां पुरस्ताद् आत्मभागस्थपञ्च- म्यष्टमांशा प्रागग्रा एका उभयी । तस्याः पुरस्ताद् आत्मभागे एका पञ्चमीपाद्या दक्षिणाग्रा । दक्षिणांशे एका शूलपाद्या उदगग्रा । एवं दशेष्टका रीतिः । तस्याः दक्षिणतः प्राच्यौ द्वे रीती । तयोर्मध्ये पञ्च पञ्च तिरश्च्योऽध्यर्धाः । पार्श्वयो- श्चतस्रस्तदर्धाः । निर्णामरीत्यग्रे प्रागग्रा प्रत्यक् षट्त्रिंशदङ्गुला दीर्घपाद्या । तस्याः पश्चात् पञ्च अध्यर्धा उद्गायताः । तासां पश्चाद् अध्यर्धासङ्गतषट्त्रिंशदङ्गुलपार्श्वां बाह्यपश्चिमो- त्तरदीर्घकर्णां उदक्स्थारत्निपार्श्वां एकां अध्यर्धार्ध्यां उपदध्यात् । निर्णामादौ दक्षिणत उदगग्रा शूलपाद्या । एवं अष्टेष्टका रीतिः । तस्या दक्षिणत उत्तरपार्श्ववद् रीतिद्वयम् । पत्त्ररीत्यां पश्चिमपत्त्राग्रे प्रत्यग्दीर्घपार्श्वा दीर्घपाद्या । तस्या उत्तरतः प्राग्दीर्घ- पार्श्वी प्रत्यगग्रा एका । तस्याः पुरस्तात् प्रत्यक् षट्त्रिंशदङ्गुलोदक्स्थारत्निका प्रागुदग् दीर्घकर्णा एका अध्यर्धार्ध्या । एवं पञ्चपत्त्रेषु । एवमुत्तरः पक्षः ।
Bodhayana Sulbasutra is the Shulbadipika of Dvarakanatha Yajvan!
In Dvarakanatha Yajvan's Sulba-dipika:
Let's recall the bird altar (Kankacit):
"तस्यानन्तरोक्तेन श्येनेन आत्मा पुच्छं च व्याख्यातम् । ... आत्मा षडरत्निव्यासो दशारत्न्यायामः । अर्धव्यायामेन ...नामपच्छेदः । पुच्छं त्र्यरत्निव्यासमष्टा-रत्न्यायाममुदगायतम । तस्यांसौ त्रिभिस्त्रिभिररत्निभिरपच्छिन्द्यात्"
Wait! Is it "श्रोण्योः"? "श्रोत्योः"? "श्रोणीनामपच्छेदः"?
Wait, let's look at the letters again:
क्ष क्त ी ना म प च्छे दः ??
No, look at the first character:
Could it be श्रो?
Wait, compare श्रोणीनामपच्छेदः with शिरसोऽग्रे in line 18:
In line 18, शिरसोऽग्रे: 'सो' has a kana and a matra.
In line 12: does it have a kana and matra?
Wait, look above the line: there is NO matra above
१०८ शुल्बसूत्रम् [तृतीयो- उक्तार्थः। पञ्चमभागीयेति। व्याख्यातप्रायम्। एवं आत्मपुच्छशिरःपक्षेषु षडशीतिशतं पञ्चम्यो भवन्ति ॥ ७१ ॥ अध्यर्धा विशिष्यते । तया पुच्छस्यावस्तात् पादावरत्नि- मात्रावरत्न्यन्तरालौ प्रादेशन्यासौ भवतः । तयोरवस्तादभितो- द्वौ द्वावष्टमभागौ प्राग्भेदावुपदध्यात् ॥ ७२ ॥ एवं सारत्निः प्रादेशः सप्तविधः संपद्यते ॥ ७३ ॥ अवशिष्टाया अध्यर्धाया विनियोगं दर्शयति—अध्यर्धा विशिष्यत इति। पुच्छस्य पश्चाद्भागे मध्यप्रदेशे अरत्निद्वयं मित्वा मध्ये एकां अरत्निं विहाय अभितोऽवशिष्टार्धारत्निव्यासौ अरत्निदीर्घौ पादौ कुर्यादित्यर्थः। एवञ्च एका पञ्चमी विनियुक्ता भवति। अवशिष्टार्धपञ्चमीक्षेत्रस्य विभज्य विनियोगं दर्शयति—तयोरिति। तयोः प्रत्येकं पश्चाद्भागस्य पार्श्वद्वये द्वौ द्वावष्टम- भागौ प्राग्भेदावुपदध्यात्। दक्षिणतः प्रागुदक्सविशेषौ, उत्तरतः प्राग्- दक्षिणसविशेषौ। शिष्टं स्पष्टम् ॥ ७२ ॥ ७३ ॥ अध्यर्धेति। अध्यर्धा पञ्चम्याः परिशिष्यते। तयेति। तया अध्यर्धया। पुच्छ- स्यावस्तात्। तन्वोपप्लवमध्ये(२।१५)रित्युक्तेऽपि अन्तरालविधानेन आत्मन्यसम्भवात् पुच्छाग्रे। दक्षिणत उत्तरतश्च त्र्यरत्निमात्रमवशिष्य अनन्तरं अरत्निदीर्घौ प्रादेश- न्यासौ प्रत्यञ्चौ पादौ भवतः। एवं पञ्चमी विनियुक्ता भवति। अर्थादरत्न्यन्त- रालौ च भवतः। तयोरवस्तादिति। तयोः प्रादेशन्यासारत्निदीर्घयोः पदयोः पुरस्तात् प्रादेश- प्रमाणमवशिष्य पश्चिमप्रादेशभागस्य अभितो दक्षिणत उत्तरतश्च प्रत्येकं द्वौ द्वावष्टम- भागौ प्राग्भेदावुभयत्र, दक्षिणतः प्रागुत्तरविशेषौ, उत्तरतः प्राग्दक्षिणविशेषौ। एवं चतुर्भिरष्टमभागैः पञ्चम्यर्धा विनियुक्ता भवति। एवं अध्यर्धा, साकल्येन पादयो- र्विनियुक्ता भवति ॥ ७२ ॥ एवमिति। एवं आत्मप्रभृतिषु शतमशीतिः सप्तार्धाश्च पञ्चम्यो द्रष्टव्याः॥७३॥ अथेष्टकानां विकाराः ॥ ७४ ॥ अथेष्टकानामिति ॥ ७४-७७ ॥ अथेति ॥ ७४ ॥ पञ्चमभागीयाः सावयवाः । पादेष्टकां चतुर्भिः परिगृह्णीयात् । अर्धप्रादेशेनाध्यर्धप्रादेशेन प्रादेशेन प्रादेशसविशेषेणेति । अध्य-
ऽध्यायः ] बौधायनीयं १०९ र्धेष्टकां चतुर्भिः परिगृह्णीयादर्धव्यायामेन द्वाभ्यामरत्निभ्यामर- त्निसविशेषेनेति ॥ ७५ ॥ पञ्चमभागीया इति । पञ्चमभागीयाः तदर्ध्याः तत्पाद्याः तदष्टम्य इत्यर्थः । नित्यमक्षणयापच्छेदन ( ३।३० ) मित्यस्य सार्वत्रिकत्वाद् वचनादृते सर्वत्राक्षणया- पच्छेदनम् । पादेष्टकामिति । पञ्चम्याश्चतुर्भागीयं क्षेत्रं चतुर्भिः फलकैः कुर्यात् । अर्ध- प्रादेशेनेति । चतुरस्रपाद्यासूत्रेण व्याख्यातम् । अत्र दक्षिणत उत्तरतः पश्चात् पुरस्ता- च्चेति क्रमः । अध्यर्धेष्टकामिति । अर्धव्यायामेन द्व्यरत्निनोत्तरं फलकम् । द्वाभ्यामर- त्निभ्यां प्रत्यग्दक्षिणफलके । अरत्निप्रमाणे द्वेत्यर्थः । अरत्निसविशेषेण पूर्वफलकम् । एवं सन्निवेशेऽर्धाधिका पञ्चमी भवति ॥ ७५ ॥ ताः षट् ॥ ७६ ॥ ता इति । एवं षट्प्रकारा इष्टका इत्यर्थः । विस्पष्टार्थं वचनम् । तत्र नवत्य- धिकं शतत्रयं पञ्चम्यः । अशीतिशतमर्ध्याः । अष्टशतं पाद्याः । विंशतिरष्टम्यः । विंश- तिश्चतुरस्रपाद्याः । द्व्यशीत्यधिकं शतद्वयं अध्यर्ध्याः । चोडानाकसदः षडर्ध्याः । पञ्च- म्यश्चतस्रः ॥ ७६ ॥ तासां चतुरस्रपाद्याः साष्टमभागाः पादयोरुपधाय शेषं यथायोगं यथासङ्ख्यं यथाधर्मञ्चोपदध्यात् ॥ ७७ ॥ अथोपधानम्— तासामिति । तासां षट्प्रकाराणां मध्ये । पादयोः प्रादेशव्यासा- रत्नदीर्घप्रदेशे द्वे द्वे चतुरस्रपाद्ये अन्तर्विशेषे उपधाय एकैकस्य द्वौ द्वौ अष्टमभागौ अभितः पश्चिमार्धे प्राग्भेदावुपधाय शेषाः चतुःप्रकाराः यथायोगमित्यादि व्याख्या- तम् । प्रस्तारद्वयस्य प्रपञ्चेनानुक्तिः । तत्रैवमुपधानम् । शिरोऽग्रे बहिर्द्वे अध्यर्धे । ततः शिरसि अरत्निचतुष्टयम् । आत्मापच्छेदेषु चतुर्षु बहिर्विशेषा अष्टौ अर्धेष्टकाः । आत्मशेषे अष्टचत्वारिंशदरत्नयः । पुच्छपार्श्वयोः षडर्ध्याः । मध्ये रीतिन्त्रयेण द्वादश पञ्चम्यः । एवं आत्मशिरः पुच्छेषु पादाभ्यां सह अष्टाशीतिरिष्टकाः । निर्णामाग्रे एकैका पाद्या । ततः पश्चात् पञ्चमी । ततः पश्चाद् द्वे अध्यर्ध्ये प्राक्प्रत्यग्रिके । तयोः पश्चात् प्रत्यगग्रिका अध्यर्ध्या । निर्णामादौ दक्षिणत उत्तरतो वा अवशिष्टक्षेत्रे पादेष्टकाः । एवं षडिष्टका रीतिः । प्रणामरीतिमभितः चतस्रोऽध्यर्धारीतयः चतुरिष्टकाः प्राच्यः । तासामभि- तश्चतस्रोऽरत्निरीतयः । तासु मध्ये पञ्च पञ्च पञ्चम्यः पार्श्वेषु अष्टाध्यर्ध्याः । एवं समेष्ट- का रीतयः । पक्षाङ्गुलाः षडर्ध्याः स्युः ।
११० शुल्बसूत्रम् [ तृतीयो- आत्मनि षट्पञ्चाशत् । पुच्छेऽष्टादश । पादयोरष्टौ । षट् शिरसि । पक्षयो- र्द्वादशशतम् । अस्मिन् प्रस्तारे षडधिकं शतं पञ्चम्यः । चतुश्चत्वारिंशदर्ध्याः । चतस्रः पाद्याः । अष्टत्रिंशदर्ध्यर्ध्याः । अथ अपरः प्रस्तारः । शिरोऽग्रे प्रागग्रा पाद्या । तस्याः पश्चात् प्राक्प्रत्यगग्रिके अक्ष्णयासंगते द्वे अध्यर्धे । तयोः पश्चिमा आत्मानं अर्धार्त्निना व्याप्ता । तयोरध्यर्ध- योरभितः शिरसि चतस्रश्चतस्रः पाद्याः । तासां पश्चात् प्रागरत्निपाश्र्वे प्रागुदक् प्राग्- दक्षिणा सविशेपे । आत्मशिरःसन्धौ द्वे अध्ये । एवं शिरसि त्रयोदशेष्टकाः । तासां पश्चाद् अध्यर्धाद्वयं दक्षिणोत्तरं अक्ष्णयासंगतम् । पार्श्वयोरर्ध्ये । ततः पश्चात् पक्षाप्यययोरुभयत्र
ऽध्यायः ] बौधायनीयं ११३ तत्र अरत्निमात्रेण प्राक् शिर इव निरूहतीत्यस्य व्याख्यानाभिप्रायेणोक्तं शिरसि पञ्चोपद्ध्यादिति ॥ ७७ ॥ [ इति कङ्कचिदुपधानप्रकारः । ] अलजचित एतेनात्मा शिरः पुच्छञ्च व्याख्यातं पादा- वपोद्धृत्य ॥ ७८ ॥ अलजचिति विशेषं वक्ष्यन् कङ्कचित्समानमङ्गमाह—अलज- चितमिति । (अलजचितं चिन्वीत । इत्यधिकः पाठः शुल्बमीमांसायाम् ।) पादाविति । कङ्कचिति सार्धपञ्चमीक्षेत्रौ यौ पादावुक्तौ तावपोद्धृत्य पक्षयोर्योजयेत् । पञ्चमीक्षेत्रे द्वेधा विभज्य अर्धन्तु अपनामपूरणार्थं निदध्यात् ॥ ७८ ॥ अलजचित इति । पादौ वर्जयित्वा अनन्तरोक्तेन कङ्कचिता अलजचित आत्मा शिरःपुच्छञ्च व्याख्यातम् । अस्य पादौ न भवत इत्युक्तं भवति । अलजोऽपि वयोविशेषः । पञ्चमीनां पञ्चाशद् द्वे चात्मनि । पञ्चदश पुच्छे । शिरसि पञ्चोपद्ध्या- दित्यर्थः । क्षेत्रकरणमपि पूर्ववत् ॥ ७८ ॥ त्रिषष्टिर्दक्षिणे पक्ष उपदध्यात् । तथोत्तरे । पुरुषेण पक्षयो- रपनामः। अपरस्मादपनामात् प्राञ्चमरत्निं मित्वा तस्मिन् स्पन्त्यां नियम्यापरं पक्षपत्रापच्छेदमन्यायच्छेत् । एवं पञ्च पञ्चम्यः सार्ध्या उद्धृता भवन्ति ॥ ७९ ॥ एवञ्च कङ्कचिदपेक्षया प्रत्येकमर्धपञ्चमीक्षेत्रमधिकं भवति । तथा च पक्षयोः प्रत्येकं सार्धसप्ताधिकपञ्चाशत् क्षेत्रे संपद्यमाने अपनामविशेषसिद्ध्यर्थं प्रत्येकं सार्धं पञ्चमीक्षेत्रं योजनीयमित्याह—त्रिषष्टिरिति । अपनामविशेषं दर्शयति—अपरस्मादिति । एवमपच्छेदे क्रियमाणे प्रतिपक्षं यत्सार्धं पञ्च पञ्चमीक्षेत्रमवनमनार्थं योजितं तत्यक्तं भवति । यत्पूर्वमर्धपञ्चमी- क्षेत्रनिहितं तद् द्वेधा विभज्य पक्षापनामप्रदेशयोः द्वाभ्यां प्रादेशः सप्तविधः सम्पद्यते ॥ ७६ ॥ पक्षयोर्विशेषमाह । त्रिषष्टिरिति । द्वितीयार्थे प्रथमा । सामर्थ्यात् षडरत्निव्यासं दशारत्निदीर्घं उदगायतं दीर्घचतुरस्रं कृत्वा पुरुषेण पक्षयोरपनाम इति वक्ष्यमाण-
११२ शुल्बसूत्रम् [ तृतीयोऽध्यायः त्वात् पुरुषेण नमनं कृत्वा पक्षाग्रे अरत्न्यर्थ्याभिः षट् पत्राणि कुर्यात् । एवं त्रिषष्टिः पञ्चम्यो भवन्ति । तयोत्तर इति । त्रिषष्टिः पक्षे उपदध्यादित्येव । पुरुषेणेति । व्याख्या- तप्रायम् । आत्मशिरः पुच्छेषु द्वासप्ततिः पञ्चम्यः । पक्षयोः षड्विंशतिशतं पञ्चम्यः । तत्र पक्षयोरर्धाधिका दश पञ्चम्योऽतिरिच्यन्ते । तासां निरसनप्रकारमाह— अपरस्मादिति । उभयत्र अपरस्मान्निर्णांममूलाद् आरभ्य प्राञ्चमरत्निं मित्वा तत्र शङ्कुं निहत्य तस्मिन् स्पन्द्यां प्रतिमुच्य अपरपक्षपत्रापच्छेदं उभयत्र पश्चिम- पत्रस्य कर्णरूपपार्श्वमानीं आलक्ष्यीकृत्य निपातयेत् । एवमिति । निर्णामबहिर्भूत- पक्षांशे षड्भिः पत्रैः सह त्रयस्त्रिंशत् पञ्चम्यः । उक्तेन प्रकारेण षष्ठांशे निरस्ते एकैकस्मिन् पक्षे सार्ध्याः पञ्चम्यो निरस्ता भवन्ति । एवं एकादश निरस्ता भवन्ति । सार्धा दश पञ्चम्यो निरस्याः ॥ ७९ ॥ पादेष्टकामपनाम उपधाय तासां चतुरस्रपाद्याः साष्टम- भागा अपोद्धृत्य शेषा यथायोगं यथासङ्ख्यं यथाधर्मञ्चो पदध्यात् ॥ ८० ॥ पादेष्टकामिति । तासां पञ्चवीनामिष्टकानां चतुरश्रपाद्या अष्टम- भागीयाश्च वर्जयेत् प्रयोजनाभावात् । अवशिष्टानि चत्वारि करणानि पुरुषस्य पञ्चमी, तस्या अर्ध्या, तथा पाद्या, चतुरस्ररूपा अध्यर्धा । तस्याः प्रमाणम् अर्धव्यायामेन, द्वाभ्यामरत्निभ्यामरत्निविशेषेणेति । शेषमिति । अवशिष्टमग्निं यथासंख्यं प्रतिप्रस्तारं यथा द्विशतमिष्टका भवन्ति, यथायोगमाकृतिनिष्पत्तिर्भवति, यथाधम्र्मं पूर्वापरयोः प्रस्तारयोः सन्धिविधानं यथा भवति तथेत्यर्थः ॥ ८० ॥ पादेष्टकामिति । उपदध्यादिति वक्ष्यमाणेन सम्बन्धः । पादेष्टकां निर्णाममूले उद्धृतदेशे कुटिलस्थाने दक्षिणपक्षे दक्षिणाग्रां उत्तरपक्षे उत्तराग्राम् । एवं अर्धेष्टका प्रक्षिप्ता भवति । अतः सार्ध्या दश गता भवन्ति । अथोपधानम् । तासां षण्णामिष्टकानां कङ्कचित्युक्तानां मध्ये चतुरस्रपाद्याः साष्टमभागा वर्जयित्वा, तासां कङ्कचिति पादोपधानार्थत्वात्, इह पाद्योर- भावात् तासामभाव इति भावः । शेषाश्चतस्र इष्टकाः पञ्चम्योऽर्ध्याः पाद्या अध्यर्धाश्च । यथायोगमित्यादि व्याख्यातम् । न्यायमार्गेणोपधानस्य सुकरत्वात् विस्तरेण नोक्तिः ।
ऽध्यायः ] बौधायनीयं ११३ तत्र चत्वारि करणानि । अरत्निरेकम् । तदर्ध्या अक्ष्णयाभिन्ना एकम् । पाद्या उभयतोऽक्ष्णयाभिन्ना एकम् । पूर्वोक्ता अध्यर्धा एकम् । तत्र पञ्चम्यः षट्पञ्चाशच्चतुःशतम् । द्व्यधिकं शतद्वयं अर्ध्याः । षडधिकं शतं पाद्याः । षट्त्रिंशदधिकं शतद्वयं अध्यर्धाः । चोडानाकसदः षडध्यर्धाः चतस्रः पञ्चम्यः । प्रथमे प्रस्तारे शिरसोऽग्रे बहिर्द्वे अर्ध्ये । ततोऽरत्निचतुष्टयम् । आत्मनि अर्धाष्टकं अपच्छेदेषु । मध्येऽष्टचत्वारिंशदरत्नयः । पुच्छपार्श्वयोः षडर्ध्याः । मध्ये द्वादशारत्नयः । पञ्चार्ध्या अङ्गुलानि । तत्र निर्णामाद् दक्षिणासु पञ्चसु पुरतस्तिस्रस्तिस्रोऽध्यर्धाः । पश्चाद् एकै- कार्ध्या । चतुरिष्टकाः पञ्च रीतयः । निर्णामादुत्तराः सर्वाः पञ्चम्यः । पार्श्वेषु अर्ध्याः । एवं समेष्टकाः पञ्च रीतयः । तत्र निर्णामादुत्तरस्यां आदिभूतां अर्ध्यां तदनन्तरां पञ्चमीं चोद्धृत्य अध्यर्धा निधेया । एवमुत्तरः पक्षः । पूर्वमेवोभयत्र निर्णामादौ पाद्ये उक्ते । तत्र आत्मनि षट्पञ्चाशत् । शिरसि षट् । पुच्छेऽष्टादश । पक्षयोर्विंशति- शतम् । अस्मिन् प्रस्तारे द्वादशशतं पञ्चम्यः । चतुःपञ्चाशदर्थ्याः । द्वे पाद्ये । द्वात्रिंशदध्यर्धाः । अथ अपरः प्रस्तारः । शिरसोऽग्रे प्राची पाद्या । पश्चादध्यर्धाद्वयम् । पार्श्व- योश्चतस्रश्चतस्रः पाद्याः । तासां पश्चाद् बहिर्द्वे अर्ध्ये । एवं त्रयोदश । ततः पश्चाद् अध्यर्धाभ्यां पार्श्वयोरुक्तं अध्यर्धाद्वयम् । तत्पश्चात् पञ्चमीरीतयः सप्त पञ्चेष्टकाः । ततः पश्चात् पूर्ववद् अध्यर्धा- द्वयम् । पार्श्वयोरर्ध्ये । पुच्छात्मसन्धौ मध्ये पञ्चमी । उभयत्र अर्ध्ये । सन्धिरितीशेषे पुच्छक्षेत्रे द्वे प्रागग्रे पाद्ये । एवं पञ्चेष्टका रीतिः । ततः पश्चात् पूर्ववद् अध्यर्धाद्वयंमध्ये च । ततोऽध्यर्धाश्चतस्र एका रीतिः । ततः पुच्छाग्रे पञ्चदश पाद्याः । एवं आत्मशिरःपुच्छेषु चतुरशीतिः । निर्णामाग्रे एका पाद्या । ततः पश्चादरत्निचतुष्टयम् । ततः प्रत्यङ्मुखी अध्यर्धा । एवं षडिष्टका रीतिः । निर्णामादुत्तरतः पञ्च रीतय अध्यर्धाः चतुरिष्टकाः प्राच्यः । तत्र आत्मसन्धिरोत्यां पुरस्ताद् अन्यतरत्र पाद्या । निर्णामाद् दक्षिणतश्चतु- रिष्टकाश्चतस्रः प्राच्यः । तासु मध्ये द्वे द्वे पञ्चम्यौ । आद्यन्तयोर्द्वे द्वे अध्यर्धे । अथ पादेष्टके अर्धैष्टका (३।४४) मित्यादि पूर्ववत् पक्षेषु । एवमुत्तरः पक्षः । आत्मनि षट्चत्वारिंशत् । त्रयोदश शिरसि । पुच्छे पञ्चविंशतिः । एवं चतुरशीतिः । पक्षयोः षोडशशतम् । अस्मिन् प्रस्तारे षष्टिः पञ्चम्यः । विंशतिरर्ध्याः । पञ्चाशत् पाद्याः । सप्तति- रध्यर्धाः । १५
[११४] शुल्बसूत्रम् [ तृतीयोऽध्यायः
अत्र कल्पोक्तो विधिरनुसन्धेयः । तत्रैवसुक्तम् । अलजचितं चिन्वीत चतुः- सीतं प्रतिष्ठाकाम इति । एतस्यैव सतोऽरत्निमात्रेण पक्षाग्रावणीयांसौ भवतः। तावन्मात्रेणापि पक्षौ वरीयांसौ तौ प्रागपन्तौ । परोणीयांसौ भवतः । एकैकामत्र सीतां कृपतीति ( बौ श्रौ. सू. १७।२८ पृ. ३०७ ) । अत्र चतुःसीतमिति तिस्रस्तिस्र इत्यादिपु एकैकां कृषतीत्यर्थः । परोणीयांसा- विति अपनामाद् दक्षिणत उत्तरतश्च । पक्षमूलादणुतरौ भवत इत्यर्थः ॥ ८० ॥ [ इति अलजचिदुपधानम् । ] प्रउगचितं चिन्वीतेति ॥ ८१ ॥ एवं सपक्षपुच्छानग्नीनुक्त्वा इदानीमपक्षपुच्छानाह—प्रउगचित मिति ॥ ८१ ॥ प्रउग इति । शकटस्येषयोः संयोगप्रदेशः प्रउगः । तद्वच्चीयत इति प्रउग- चित् ॥ ८१ ॥ यावानग्निः सारत्निप्रादेशस्तावत् प्रउगं कृत्वा तस्या अप- रस्र्याः करण्या द्वादशेनेष्टकास्तदर्धव्यासाः कारयेत् । तासामर्ध्याः पाद्याश्च ॥ ८२ ॥ यावानग्निरिति । अग्निः सप्तविधः सारत्निप्रादेशः सन् यावान् संपद्यते सार्धसप्तविध इत्यर्थः । तावत्क्षेत्रपरिमितं प्रउगं कुर्यादित्यर्थः । एतदुक्तं भवति—पादोनपञ्चषष्ट्यधिकचतुःशताङ्गुलपरिमाणेन सम- चतुरश्रं कृत्वा पूर्वस्याः पार्श्वमान्या मध्ये शङ्कुं निहत्य श्रोण्योरपि शङ्क निहत्य शङ्कूनामुपरि स्पन्द्यां नियम्य बहिःस्पन्द्यमपच्छिन्द्यादिति । तस्या इति । प्रउगस्य पश्चिमपार्श्वमान्याः द्वादशेन नवतिलोननवविंशद- ङ्गुलिदीर्घपरिमाणेन तदर्धविस्तारेण बृहद्दीर्घचतुरश्राष्टकाः कुर्यादित्यर्थः । तासामिति । बृहतीनामर्ध्याः पाद्याश्च अक्ष्णया कुर्यादित्यर्थः ॥ ८२ ॥ यावानिति । चतुरस्रं प्रउगं चिकीर्षन् (१।४५) इत्यनेन प्रकारेण प्रउगं कुर्यात् । तत्र सारत्निप्रादेशस्य सप्तविधस्याग्नेः समचतुरस्रकरणी त्रीणि शतान्यष्टाविंशतिश्चाङ्गुलय अर्द्धद्वाविंशाश्च तिलाः । तस्याः द्विकरणी पादोनपञ्चषष्टिचतुःशताङ्गुला द्विस्तावत्यां श्चतुरस्रकृतायाः पञ्चदशपुरुषाया भूमेः करणी । एवं चतुरस्रीकृतायाः पूर्वस्याः
तृतीयोऽध्यायः ] बौधायनीयं ११५ करण्या मध्याच्छ्रोणीं प्रत्यालिखेत् । तत्र कर्णरूपयोः पार्श्वमान्योः प्रमाणं अर्धोन- विंशतिपञ्चशताङ्गुलयः । तस्य प्रउगस्य अपरस्याः करण्याः पादोनपञ्चषष्टिश्चतुःशताङ्गु- लाया द्वादशेन नवतिलोननवत्रिंशदङ्गुलेन तदर्धेन द्वाविंशतितिलहीनविंशत्यङ्गुल- व्यासेन इष्टकाः कारयेत् । तासां बृह्त्य इति संज्ञा । तासामिति । तासां बृहतीनां अर्ध्या अक्ष्णया भिन्नाः पाद्याश्च उभयविधा दीर्घपाद्याः शूलपाद्याश्च कारयेत् । द्व्यधिकनवतिचतुःशतं बृहत्यः । चतुरधिकं चतुःशतं अर्ध्याः । शतं शूलपाद्याः । दीर्घपाद्याश्चतस्रः । चोडानाकसद अष्टावर्ध्या द्वे बृहत्यौ ॥ ८२ ॥ तासां द्वे अर्धेष्टके वाह्यविशेषे चुबुक उपदध्यात् । अर्ध्या- **श्चान्तयोः । शेषम
११६ शुल्बसूत्रम् [ तृतीयो- पश्चिमान्त्यप्रदेश इत्यर्थः । सप्तचत्वारिंशदिति । अपरस्मिन् भागे प्राग- ग्राश्चतुर्विंशतिः पाद्याः प्रत्यगग्राश्चयोर्विंशतिः पाद्याः इत्येवं व्यासेनोपदध्या- दित्यर्थः । चुबुक इति । अग्रप्रदेशे प्रागग्रां शूलपाद्यामित्यर्थः । दीर्धे चेतर इति । दीर्धे द्वे पाद्ये आहत्य चतस्रः पाद्याः प्राक्प्रत्यग् दीर्घचतुरश्रं यथा भवति तथा स्वयमातृण्णास्थाने उपदध्यादित्यर्थः ॥ ८४ ॥ अपरस्मिन्निति । अपरस्मिन्ननीके अपरान्ते । पादेष्टकाः शूलपाद्याः इतरासाम- सम्भवात् । चतुर्विंशतिः प्रागग्राः । चुबुक इति । शूलपाद्याम् । दीर्घ इति । दक्षिणत उत्तरतश्चाभ्यन्तराग्रे दीर्घपाद्ये । इतरे शूलपाद्ये प्राक्प्रत्यगग्रिके । नियमार्थं वचनम् । अध्येंति । व्याख्यातम् । शेषमिति । पूर्ववत् । तत्रैवमुपधानम्— पश्चिमार्धे शूलपाद्याः सप्तचत्वारिंशत् । पूर्वान्ते चैका । मध्ये उदीच्यः एकादश रीतयः । तासु सर्वासु पार्श्वयोरर्ध्याः प्रागायताः । मध्यरीत्यां मध्यमामुद्धृत्य तस्याः स्थाने पूर्वोक्तपाद्याचतुष्टयम् । चतुर्थपञ्चम्योरीत्योः पार्श्वतस्तिस्रस्तिस्रो बृहतीरुद्धृत्य षट् षट् अर्ध्या निधेयाः । एवं द्विशतः प्रस्तारः । अस्मिन् प्रस्तारे चतुर्दशशतं बृहत्यः । चतुस्त्रिंशदर्ध्याः । पञ्चाशत् शूलपाद्याः। द्वे दीर्घपाद्ये । अत्र कल्पोक्तो विधिरनुसन्धेयः । तत्रैवमुक्तम् । प्रउगचितं चिन्वीत भ्रातृ- व्यवानिति । स एतस्यैव सतः समुद्गृह्यांसौ प्रागायातयति स तथा विहृतो भवति । न बहिर्वेदिपूषः स्यात् (बौ० श्रौ० सू० १७।२८ पृ० २०७) इति । समुद्गृह्येति अंसौ संकोचयित्वेत्यर्थः ॥ ८४ ॥ [ इति प्रउगचिदुपधानप्रकारः । ] उभयतः प्रउगं चिन्वीतेति ॥ ८५ ॥ उभयत इति ॥८५॥ उभयत इति । विज्ञायते इति शेषः ॥ ८५ ॥ यावानग्निः सारत्निप्रादेशस्तावदुभयतःप्रउगं कृत्वा नवमेन तिर्यङ्मान्याः प्रउगचितोक्ता विकाराः ॥ ८६ ॥ यावानग्निरिति । यावानग्निः सार्धसप्तविधमग्निक्षेत्रमुभयतःप्रउगा- कारं कृत्वेत्यर्थः । एतदुक्तं भवति—सार्धैर्काविंशतितिलाधिकविंशत्युत्तरशताङ्गुल(?)ति- र्यङ्मानीकं द्विगुणपार्श्वमानीकं प्राक्प्रत्यग्दीर्घचतुरश्रं विहृत्य पूर्वापरदक्षि-
ऽध्यायः ] बौधायनीयं ११७ णोत्तरेषु मध्ये शङ्कुचतुष्टयं निहत्य शङ्कषु स्पन्द्यामाबध्य बहिःस्पन्द्यमप- च्छिन्द्यादिति । नवमेनेति । तिर्यङ्मान्या मध्यकरण्या नवमांशेन अर्धतिलाधिकसार्ध- षट्त्रिंशदङ्गुलमानेनेत्यर्थः । प्रउगचितोक्तेति । सप्तम्यर्थे तृतीया । अस्मिन्नुक्ता विकारा इष्टकानां कर्त्तव्या इत्यर्थः । एतदुक्तं भवति--तिर्यङ्मानीनवमांशायामास्तदर्धव्यासा बृहतीः तासा- मर्ध्याः पाद्याश्च कुर्यादिति ॥ ८६ ॥ यावानिति । इष्टकाः कुर्याद् इत्यध्याहारः । अर्ध्राष्टमपुरुषक्षेत्रकरणोक्तेन विधिना उभयतःप्रउगं कृत्वा (१।४६), अयमत्र प्रकारः--सार्द्धसप्तविधक्षेत्र- करणीविस्तारं द्विगुणायामं दीर्घचतुरस्रं विहरेत् । तत्र त्रीणि शतान्यष्टाविंशतिश्च अङ्गुलय अर्धविंशांश्च तिलास्तिर्यङ्मानी । द्विगुणा पार्श्वमानी । एवं विहृत्य पूर्वायोः करण्योर्मध्यात् दक्षिणोत्तरयोर्मध्ये निपातयेत् । बहिःस्पन्द्यमपच्छिन्द्यात् । एवं कृते अर्धाधिकसप्तषष्टिशतत्रयमङ्गुल्यः करण्यो भवन्ति । नवमेनेति । इष्टकानामिति शेषः । तिर्यङ्मानी त्रीणि शतानि अष्टाविंशति- श्चाङ्गुलयोऽर्द्धद्वाविंशाश्चतिलाः । तस्या नवमभागेन प्रउगचितोक्ता विकाराः । नवम- भागं द्वादशस्थानीयं कृत्वा नवमभागायामास्तदर्धव्यासा बृहत्यः । तासामर्ध्याः, उभयप्रकाराः पाद्याश्च कारयेदित्यर्थः । तत्र बृहत्योऽष्टाविंशत्यधिकं षट्शतम् । षट्- पञ्चाशत्त्रिशतमर्ध्याः । अष्टौ शूलपाद्याः । तथा दीर्घपाद्याः चोडानाकसदृश द्रष्टव्याः ॥ ८६ ॥ तथोपधानम् ॥ ८७ ॥ तथोपधानमिति । प्रस्तारे पूर्ववदेवोपधानमित्यर्थः ॥ ८७ ॥ तथोपधानमिति । यथा प्रउगचित्युक्तम् । अत्र चुबुकयोर्द्वे द्वे अध्ये इति द्रष्टव्यम् । अर्ध्याश्चान्तयोरित्यत्रान्तेषु चेति । शेषमग्नं बृहतीभिरित्यादि च । तत्रैवसुपधानम् । प्राच्योऽष्टादश रीतयः । तत्र दक्षिणस्यां स्रक्त्यां अर्ध्याद्वये- नैका रीतिः । तस्या अन्तर्गतरीत्या मध्ये द्वे बृहत्यौ । अन्तयोरर्ध्ये । सर्वत्र बृहत्यः प्राच्यः अर्ध्याश्च । सर्वत्र अन्तेषु अर्ध्याः । तृतीया षडिष्टका । तुरीया अष्टेष्टका । पञ्चमी दशेष्टका । षष्ठी द्वादशेष्टका । तत्र मध्याद् दश बृहतीरुद्धृत्य विंशतिरर्ध्याः । सप्तमी चतुर्दशेष्टका । अष्टमी षोडशेष्टका । नवमी अष्टादशेष्टका । एवं उत्तरो विभागः । अस्मिन् प्रस्तारे चतुर्विंशतिशतं बृहत्यः । षट्सप्ततिरर्ध्याः ॥ ८७ ॥ अपरस्मिन् प्रस्तारे चुबुकयोर्द्वे पादेष्टक उपदध्यात् । सन्ध्र्यन्तयोश्चदीर्घपाद्ये । दीर्धे चेतरे चतस्रः स्वयमातृण्णावकाश
उपदध्यात् । अर्ध्याश्चान्तयोः । शेषमग्निं बृहतीभि- प्रच्छादयेदर्धेष्टकाभिः सङ्ख्यां पूरयेत् ॥ ८८ ॥ द्वितीयप्रस्तारे विशेषमाह-अपरस्मिन्निति । चुबुकयोरिति । पूर्वा- परयोरग्रयोः द्वे शूलपादेष्टके प्राक्प्रत्यग्दीर्घ उपदध्यादित्यर्थः । सन्ध्यन्तयो- रिति । दक्षिणोत्तरयोः स्रक्त्योः द्वे दीर्घपाद्ये । स्वयमातृण्णावकाशे पूर्व- वच्चतस्रः पाद्या उपदध्यादित्यर्थः । शिष्टं स्पष्टम् ॥ ८८ ॥ चुबुकयोरिति । शूलपाद्ये । सन्ध्यन्तयोरिति । प्रउगसन्ध्यन्तयोः दक्षिणोत्तरस्र- क्त्योरित्यर्थः । शेषमिति । पूर्वेण व्याख्यातम् । तत्रैवमुपधानम् । पूर्वपश्चिमचुबुकयोर्द्वे शूलपाद्ये । मध्ये सप्तदश उदीच्यो रीतयः । सर्वत्र प्रागायता इष्टकाः । मध्ये बृहत्यः । अन्तेषु अर्ध्याः । दक्षिणोत्तर- स्रक्त्योर्दीर्घपाद्ये । मध्यमायां रीत्यां मध्यमायाः स्थाने पूर्ववत् पाद्याः । चतसृषु दिक्षु चतस्रश्चतस्रो बृहतीरुद्धृत्य अष्टावष्टावर्ध्या निधेयाः । एवं द्विशतः प्रस्तारः । अस्मिन् प्रस्तारे अष्टाविंशतिशतं बृहत्यः । चतुःषष्टिरर्ध्याः । चतस्रः शूल- पाद्याः । चतस्रोदीर्घपाद्याः । अत्र कल्पोक्तो विधिरनुसन्धेयः । तत्रैवमुक्तम् । उभयतःप्रउगं चिन्वीत यः कामयेत प्रजातान् भ्रातृव्यानुदेय प्रतिजनिष्यमाणानिति । एतस्यैव सतः समुद्गृह्यैव श्रोणीं प्रत्यायातयति स तथा विहृतो भवति यथा न वहिर्वेदिर्यूपः स्यादिति (बौ. श्रौ. सू. १७।२८ पृ. २०७) ॥ ८८ ॥ [ इति उभयतःप्रउगचिदुपधानप्रकारः । ] रथचक्रचितं चिन्वीतेति विज्ञायते ॥ ८९ ॥ रथचक्रचितमिति । रथचक्रमिव चीयत इति (तं ?) रथचक्रचित- मित्यर्थः ॥ ८९ ॥ रथेति । रथस्य चक्रमिव चीयत इति रथचक्रचित् पूर्वेष्टकाकरणेचानुक्तोऽपि श्रुतौ गम्यमानायां विज्ञायत इति विशेषप्रतिपादनार्थमुक्तम् ॥ ८९ ॥ द्वयानि तु खलु रथचक्राणि भवन्ति साराणि च प्रधियुक्तानि च । अविशेषात्ते मन्यामहेऽन्यतरस्याकृतिरिति ॥ ९० ॥ सांराणीति । साराणि अरैः सह वर्तत इति साराणि । प्रधियुक्तानि प्रधयो नाम मण्डलकृतचतुरश्राद्वहिःप्रदेशास्तैर्युक्तानीत्यर्थः । अविशेषादिति । रथचक्रचितं चिन्वीतेति ब्राह्मणे सारत्वप्रधियुक्तत्वादिविशेषाश्रवणादित्यर्थः ।
अध्यायः ] बौधायनीयं ११६ अन्यतरस्याकृतिरिति । अर्थद्वयविशिष्टब्राह्मणद्रष्टारः अन्यतरस्य (सारस्य ?) प्रधियुक्तस्य वा रथचक्रस्याकृतिविकल्पे चोद्येते इति ॥ ९० ॥ अमुमेव प्रतिपादयति—द्वयानीति । तु शब्दोऽवधारणे । तत्र द्विप्रकाराणि लोके रथचक्राणि भवन्त्येव । कानि पुनस्तानि ? सह अरैर्वर्त्तन्त इति साराणि । प्रधियुक्तानि च । प्रधयो नाम चक्रस्य अन्ताः । तद्युक्तानि च । ब्राह्मणे रथचक्रचितं चिन्वीतेति अविशेषेण श्रूयते । तस्मादविशेषात् ते वयं मन्यामहे । अन्यतरस्याकृतिरिति । तस्मादुभयप्रकारं वक्ष्याम इत्यर्थः ॥ ९० ॥ अथाग्निं विमिमीते । यावानग्निः सारत्निप्रादेशस्तावतीं भूमीं परिमण्डलां कृत्वा तस्मिन् यावत् सम्भवेत् समचतुरश्रं कृत्वा तस्य करण्या द्वादशेनेष्टकाः कारयेत् ॥ ९१ ॥ परिमण्डलामिति । मध्ये शङ्कुं निहत्य पञ्चाशीतिशताङ्गुलेन चतुर्दश- तिलयुक्तेन परिमण्डलं भ्रामयेदित्यर्थः । क्षेत्रप्रमाणमुक्त्वा करणीप्रकारं दर्शयति—तस्मिन्निति । परिमण्डले यावत् सम्भवति तावत् समचतुरश्रं कृत्वा तस्य समचतुरश्रस्य करण्याः पार्श्वमान्याः द्वादशेन द्वाविंशत्यङ्गुलेन पञ्चतिलोनेन समचतुरश्रं कारयेदित्यर्थः ॥ ६१ ॥ अथाग्निमिति । तस्य करण्या द्वादशेनेष्टकाः कारयेदिति वक्ष्यमाणेन सम्बन्धः । विष्कम्भो मण्डलविधा ( १।४७-४६ ) वेव प्रपञ्चितः । मध्ये शङ्कुं निहत्य पञ्चाशीतिशताङ्गुलेन चतुर्दशतिलयुक्तेन परिमण्डलं भ्रम- येत् । तस्य मध्ये विष्कम्भार्धद्विकरण्या सप्ततिलाधिकया द्विपष्टिशतद्वयाङ्गुल्या समचतुरस्रं कुर्यात् । चतुरस्राद् बहिः चत्वारः प्रधयः । द्वाविंशत्यङ्गुलेन पञ्चतिलोनेन समचतुरस्रकरणम् । चतुरस्रमध्ये चतुश्चत्वारिंशच्छतं इष्टकाः शेरते ॥ ६१ ॥ तासां षट् प्रधावुपधाय शेषमष्टधा विभजेत् । अस्मिन् प्रस्तारे चतुरश्रस्रक्तीरवान्तरदेशान् प्रति संपादयेत् ॥ ९२ ॥ अपरं प्रस्तारं तथोपद्ध्याद् यथा प्रध्यनीकेषु स्रक्तयो भवन्तोति ॥ ९३ ॥ तासामिति । पूर्वोक्तेष्टकानां मध्ये षट् षट् प्रधिमूलेषु उपधाया- वशिष्टं प्रधीनां क्षेत्रमष्टधा विभजेदित्यर्थः । प्रध्यनीकेषु प्रधिमध्येपु महादिक्षु चतुरस्रस्य स्रक्तयः कोणप्रदेशेषु यथा भवन्ति तथोपद्ध्या- दित्यर्थः ॥ ६२ ॥ ९३ ॥
तासामिति । प्रधिमूलमध्ये षट् चतुरस्रा उपधाय तस्य प्रधेः शेषं अष्टधा विभ- जेत् । उपहितानां षष्णां पार्श्वयोर्द्वे द्वे, मुखे चतस्र इति । त्रिकोणमाद्यम् । त्रितिलयुक्तं षड्विंशत्यङ्गुलमेकं करणम् । सप्ततिलहीनत्रयस्त्रिंशदङ्गुलं द्वितीयम् । तिलत्रयहीनं द्विचत्वारिंशदङ्गुलं तृतीयं कर्णरूपम् । तद्धनुरिव तक्षयेद् यथा षट्तिलोनाङ्गुलः शरो भवति । द्वितीयस्य षड्विंशत्यङ्गुलं तिलत्रययुक्तमेकं तिर्यक्फलकम् । एकादशतिलयुक्तं द्विचत्वारिंशदङ्गुलं द्वितीयम् । सप्ततिलोनत्रयस्त्रिंशदङ्गुलमेकं पार्श्वम् । षट्त्रिंशदङ्गुलं षड्विंशत्तिलं पार्श्वान्तरम् । तद् धनुरिव तक्षयेद् यथा तिलत्रयोनाङ्गुलिः शरो भवति । तृतीयस्याः सार्धविंशत्यङ्गुलमेकं तिर्यक्फलकम् । त्रिंशदङ्गुलं षोडशतिलहीनं द्वितीयम् । सप्ततिलोनत्रयस्त्रिंशदङ्गुलमेकं पार्श्वम् चतुस्त्रिंशकं पार्श्वान्तरम् । तद् धनु- राकारं तक्षयेद् यथा षड्विंशति तिलाः शरो भवति । चतुर्थस्य त्रिंशदङ्गुलं षोडश- तिलहीनमेकं तिर्यक्फलकम् । सार्धद्वात्रिंशद् द्वितीयम् । सप्ततिलोनत्रयस्त्रिंशदङ्गुल- मेकम् । चतुस्तिलोनं त्रयस्त्रिंशदङ्गुलं पार्श्वान्तरं धनुरिव तक्षयेत् । पञ्चविंशति तिलाः शरः एतान्यत्र चत्वारि करणानि अन्यस्मिन् प्रध्यर्धे विपर्यासेन भवन्ति । एवमेव चत्वारः प्रधयः ॥९२॥ अपरमिति । पूर्वस्मिन् प्रस्तारे महादिक्षु प्रधयः । इह तेषु प्रध्यनीकेषु प्रधि- मध्येषु चतस्रः स्रक्तयः । महादिक्षु स्रक्तय इत्यर्थः । एतावानेव भेदः पूर्वस्मात् प्रस्तारात् । एवं व्यत्यासेन पञ्च चितयः । इतिकरणः समाप्तिसूचकः ॥ ९३ ॥ [ इति प्रधियुक्तरथचक्रचिदुपधानप्रकारः । ] अथापरः ॥ ९४ ॥ प्रधियुक्तरथचक्रचयनप्रकारमुक्त्वा साररथचक्र(चयन?) प्रकारमाह- अथापर इति । अथानन्तरमपरः प्रकार उच्यते इति शेषः ॥ ९४ ॥ अथापर इति । अनन्तरमपरः प्रकारः । साररथचक्रचिदुच्यत इत्यर्थः ॥ ९४ ॥ पुरुषाधार्त् पञ्चदशोनेष्टकाः समचतुरश्राः कारयेन्मानार्थाः । तासा द्वे शते पञ्चविंशतिश्च सारत्निप्रादेशः सप्तविधः संपद्यते । तास्वन्याश्चतुःषष्टिमावपेत् । ताभिः समचतुरस्रं करोति । तस्य षोडशेष्टकापार्श्वमानो भवति । त्रयस्त्रिंशदति- शिष्यन्ते । ताभिरन्तान् सर्वतः परिचिनुयात् ॥ ९५ ॥ पुरुषाधार्दिति । पुरुषक्षेत्रार्धात् । पुरुषक्षेत्रं तावच्चतुश्शताधिकचतुर्द- शसहस्राण्यङ्गुलयः तदर्धं द्विशताधिकसप्तसहस्राङ्गुलयः । एवं भूतात् अर्धपुरुषक्षेत्रादित्यर्थः । पञ्चदशेनेति । तत्क्षेत्रपञ्चदशभागेन समचतु-
रश्रा इष्टकाः कारयेत् । एवं पञ्चदशाधाविभक्तस्यैकैकस्य क्षेत्रमशी- त्यधिकचतुःशतान्यङ्गुलय इत्यर्थः । ननु एवं कृतेन क्षेत्रभागेन उप धाने प्रयोजनाभावात् कथं युक्तमित्यत आह—मानार्था इति । नोपधेया इत्यर्थः । उत्तरत्र वक्ष्यमाणेन कर्षणेन उपधानोपयुक्तेष्टका- करणं स्पष्टं भविष्यतीति भावः । एवं पञ्चदशाकर्तव्यत्वेन चोदिता इष्टकास्त्रिंशत्तिलाधिकैकविंशत्यङ्गुलपरिमाणका इत्यर्थः । तासामिति । पूर्वोक्तेष्टकानामित्यर्थः । द्वे शत इति । उक्तासु पञ्चविंशत्यधिकद्विशत- सङ्ख्याकासु अन्यास्तत्सदृशीश्चतुःषष्टिः इष्टका आवपेत् ताभिः सह संयोजयेदित्यर्थः । आहत्य एकोननवत्युत्तरशतद्वयेष्टकाः सम्पन्नास्ता- भिरिष्टकाभिः समचतुरश्रं करोति । समचतुरश्रकरणं स्वयमेव विवृणोति तस्येत्यादिना । तस्य करिष्यमाणस्य समचतुरश्रस्य षोडशेष्टकाः सर्वतः पार्श्वमानी भवति । एवञ्च सर्वस्मिन् पार्श्वे षोडशेष्टकारीति- र्भवति । आहत्य उपह्रियतेष्टकाः, षट्पञ्चाशदधिकशतद्वयसङ्ख्याकाभिः समचतुरश्रं कुर्यादित्यर्थः । तत्र त्रयस्त्रिंशदिष्टका अतिशिष्यन्ते । ताभि- रिति । ताभिश्चयस्त्रिंशदिष्टकाभिरवशिष्टाभिरन्तान् सर्वतः परिचिनुया- दित्यर्थः । अन्तप्रदेशान्सर्वतः सर्वान् त्रयस्त्रिंशद्भागान् परिचिनुयादिष्ट- काभिः प्रच्छादयेदित्यर्थः । यद्यपि अन्तानिति निर्देशाच्चतुर्षु पार्श्वेषु उपधानं प्रतीयते तथापि सर्वत्र षोडशेष्टकारीतित्वेन त्रयस्त्रिंशादिरश्रेसमस्यन्तीति (?) न्यायेन सोऽपि तत्र योजयितुं शक्यते, तथापि तथाकरणे पूर्वकृतेष्टकापरिमाणलोपेन तत्प्रमाणानुसारेण वक्ष्यमाणकर्षणाद्यसम्भवात् प्राग्दक्षिणयोर्वा प्रागुत्तर- योर्वा पश्चिमदक्षिणयोर्वा पश्चिमोत्तरयोर्वा योजयेत् । अथवा पर्यायाभि- प्रायेण बहुवचननिर्देशः । पार्श्वद्वयप्राप्तमुपधानमनियमेन ययोः कयोः पार्श्वयोः कर्तुं शक्यत इत्यर्थः । एवं केचिदाहुः । तत्र अवशिष्टानामिष्टकानां पुनः संयोजनं कथं ? नानार्थत्वापत्तेः । अन्तशब्दस्य सर्वतः प्रकृतक्षेत्रान्त- परतवावगमेन प्रकृतरीत्यन्त(र)परत्वकल्पनानुपपन्ना । अन्तशब्दस्य क्षेत्रान्त- १६
१२२ शुल्बसूत्रम् [ तृतीयो-
परत्वे प्रायेण बहुवचनसमर्थनमेव दोषः। किञ्च "नाभिः षोडशमध्यमा" इति मध्याभिधाने सप्तदशेष्टकपार्श्वमानीकचतुरश्रप्रसङ्गेन षोडशेष्टकाना- न्यतरतो वैषम्यप्रसङ्गेन मध्यमत्वासम्भवात् तत्र सप्तदशपार्श्वमानीक- योदशेष्टकचतुरश्रं परिगृह्य सक्त्येष्टकाषु चतसृषु शङ्कुं निहत्य स्पन्द्यया परिचयने अष्टाविंशत्युत्तरशतेष्टकाभिः अरवेदिकरणसम्भव इति वाच्यम्। इष्टकास्वरूपभङ्गप्रसङ्गात्। तस्मादयमत्र सूत्रार्थः—ताभिर- न्तान्सर्वतः परिचिनुयात्ताभिस्त्रयस्त्रिंशदिष्टकाभिः अन्तान् चतुरः पार्श्वान् परिचिनुयात् संयोजयेत् । अयमत्र संयोजनप्रकारः—त्रयस्त्रिंशदिष्टकासु एकां निधाय अवशिष्टा द्वात्रिंशदिष्टका द्वेधा विभज्य प्रतिपार्श्वं षोडश षोडश संयोजयेत्। अवशिष्टामिष्टकां चतुर्धा विभज्य चतुर्षु कोणेषु योजयेदिति। इष्टकाभङ्गस्तथापि समान इति चेत्; सत्यम् तव पक्षे नाभिकरणे षोडशेष्टकानां भङ्गः, अरवेदिकरणे अष्टाचत्वारिंशदिष्टकानां भङ्ग इति दुर्बोधतया गौरवम्। मम तु त्रयस्त्रिंशदिष्टकानामेवेति लाघवम्॥ ९५॥ पुरुषार्धादिति। पुरुषक्षेत्रं चतुर्दशसहस्राणि चत्वारि शतान्यङ्गुलयः। तस्यार्धात् द्विशताधिकसप्तसहस्रात्। पञ्चदशांशं अशीत्यधिकचतुःशताङ्गुलं मूलं गृहीत्वा तेन भागेन इष्टकाः समचतुरस्राः कारयेत्। मानार्थाः एताभिरिष्टकाभिरग्निमानं वक्ष्यति तदर्थाः। नोपधानार्थाः। तत्र पञ्चदशभागस्य करणीक्लृप्तिः। अशीत्यधिकचतुःशतमङ्गुलीश्चतुस्त्रिंशत्ति- लववर्गेण षट्पञ्चाशच्छताधिकसहस्रेण हत्वा तस्य मूलमानीय तिलवर्गमूलेन चतुस्त्रिंशधा विभज्य लब्धं एकविंशतिरङ्गुलय एकत्रिशत्तिलाः। तेनेष्टकाः समचतु- रस्राः कारयेत्। तासामिति। तृतीयार्थे षष्ठी। अर्धपुरुषक्षेत्रे पञ्चदशेष्टकाः शेरते। ताः पञ्चदशभिर्गुणिताः द्वे शते पञ्चविंशतिश्च भवन्ति। तास्विति। तासु मानार्थासु। अन्याः तत्सदृशाः। उक्ताभ्योऽतिरिक्ताः चतुःषष्टिमिष्टका आवपेत् संयोजयेत्। एवं अग्निक्षेत्राधिकाभिः सह एकोननवतिशतद्वयं भवन्ति। ताभिरिति। ताभिः एकोननव- तिशतद्वयसंख्याकाभिः। तस्येति। पूर्वेषां चतुरस्राणां प्रदर्शनार्थमिदम्। अग्निक्षेत्रमध्यं परिगृह्य प्रथमं द्वाभ्यां द्वाभ्यां चतुरिष्टकं चतुरस्रं कृत्वा ततस्त्रिभिस्त्रिभिर्नवेष्टकम्। ततश्चतुर्भिश्चतुर्भिः षोडशेष्टकमित्यादि। षोडशभिः षट्पञ्चाशच्छतद्वयेष्टकं चतुरस्रं चात्र कुर्यादित्यर्थः।
ऽध्यायः ] बौधायनीयं १२३ त्रयस्त्रिंशदिति । एवं षोडशेष्टकाभिः चतुरस्रे कृते एकोननवतिशतद्वयात् त्रय- स्त्रिंशदिष्टका अतिरिच्यन्ते । ताभिरिति । ताभिरतिशिष्टाभिः । अन्तान् आदित आरभ्य प्रदक्षिणमुपधीयमानत्वात् पर्यायापेक्षया बहुवचनम् । पूर्वोत्तरपार्श्वयो- रित्यर्थः । पूर्वपार्श्वमान्यां षोडश । उत्तरपार्श्वमान्यां षोडश । पूर्वोत्तरकोट्यां खण्डक्षेत्रे एका । एवं त्रयस्त्रिंशत् ॥ ९५ ॥ नाभिः षोडशमध्यमाः ॥ ९६ ॥ नाभिरिति । मध्यगताः षोडशेष्टका नाभिर्भवति । सप्तदशपार्श्वमानीके चतुरस्रे प्रतिपार्श्वं सार्धषडिष्टकाक्षेत्रं विहाय मध्ये चतुरिष्टकापार्श्वमानीकं नाभिं कुर्यादित्यर्थः ॥ ९६ ॥ नाभिरिति । एवमुपहितानामिष्टकानां मध्यमाः मध्यगताः षोडशेष्टकाः । चक्रस्य नाभिर्भवति । तत्र प्रकारः । मध्ये पञ्चेष्टकापार्श्वमानीकं पञ्चविंशेष्टक- चतुरस्रं परिगृह्य तस्य चतुरस्रस्यावान्तरदिक्षु स्रक्तिषु या इष्टकास्तासां मध्येषु शङ्कून् निहत्य स्पन्द्यया परितनोति । एवं षोडशेष्टकं चतुरस्रं भवति । सा नाभिः ॥ ९६ ॥ चतुःषष्टिरराः ॥ ९७ ॥ चतुःषष्टिरिति । अरा इति रथचक्रावयवविशेषाः ॥ ९७ ॥ चतुःषष्टिरिति । शिष्टानामिष्टकानां चतुःषष्टिरिष्टकाः चक्रस्य आराः प्रसिद्धा अवयवा भवन्ति ॥ ९७ ॥ चतुःषष्टिर्वेदिः ॥ ९८ ॥ वेदिरिति । अरान्त एव प्रदेशो वेदिः । अरवेद्यर्थं अष्टाविंशत्युत्तर- शतेष्टकाभिर्मध्यचतुरश्रं कुर्यादित्यर्थः । द्वादशेष्टकपार्श्वमानीकं चतुरश्रं मध्ये कुर्यात् । एवं चतुरश्रे कृते नाभ्यर्थं मध्यतः षोडशेष्टकास्वपनीतासु अष्टाविंशत्युत्तरशतेष्टकाः सम्पद्यन्ते ताभिररवेदी कुर्यादित्यर्थः ॥ ९८ ॥ चतुःषष्टिरिति । वेदिरपि चतुःषष्टिरिष्टकाः आराणामन्तरालभूमिः । वेदिसंज्ञक- नामधेयत्वात् तत्र स्तरणादयो धर्माः । आराणां वेद्या (श्च ?) सह अष्टाविंशतिशत मिष्टकाः । तत्र प्रकारः चतुरस्रमध्ये त्रयोदशेष्टकपार्श्वमानीकं नवषष्टिशतेष्टकं चतु- रस्रं परिगृह्य तस्य चतुरस्रस्य कोटिषु या इष्टकाश्चतस्रस्तासां मध्येषु शङ्कवः स्पन्द्यया- वेष्टिता अष्टाविंशतिशतं भवन्ति ॥ ९८ ॥
१२४ शुल्बसूत्रम् [ तृतीयो- नेमिः शेषाः ॥ ९९ ॥ नेमिरिति । नेमिः रथचक्रान्त्यप्रदेशः । पञ्चचत्वारिंशच्छतेष्टका नेमिः । ताभिर्नेमिं कुर्यादित्यर्थः ॥ ९९ ॥ नेमिरिति । शेषाः विनियुक्तावशिष्टाः पञ्चचत्वारिंशच्छतमिष्टकाः नेमि- र्भवन्ति । रथचक्रस्य बाह्यावयवो नेमिः ॥ ९९ ॥ नाभिमन्ततः परिलिखेत् ॥ १०० ॥ नाभिमिति । नाभ्यन्तरं कृतं चतुरश्रं परिमण्डल(१।४७)मित्यादिना परिमण्डलं कुर्यात् । यद्यपि परिलिखेदिति सामान्यनिर्देशाद् यथा कथञ्चि- दुपपद्यते, तथापि लोके रथचक्रनाभिमण्डलाकारदर्शनादिहापि परिमण्डलं कर्त्तव्यमिति गम्यते ॥ १०० ॥ नाभिमिति । नाभिः षोडशमध्यमा (३।९६) इत्युक्तम् । तां नाभिमन्ततः सर्वतो लिखेत् । अक्ष्णयार्ध (१।४७) मित्यादिना ॥ १०० ॥ नेमिमन्ततश्चान्तरतश्च परिलिख्य नेमिनाभ्योरन्तरालं द्वात्रिंशद्धा विभज्य विपर्यासं भागानुद्धरेत् । एवमावाप उद्धृतो भवति ॥ १०१ ॥ नेमिमिति । नेमिमन्तरं ततः परिलिखेत् नेमेरन्तरं तस्य नेमेरन्तरं(१) तस्य नेमेरन्त्यप्रदेशे च परिमण्डलद्वयं कुर्यात् । पूर्वोक्तन्यायेनान्तप्रदेशे परिमण्डलं भवति । लोके मध्ये परिमण्डलाभावेऽपि रथचक्रकरणसम्भ- वादिहापि मध्ये परिमण्डलकरणे प्रमाणं नास्तीति चेन्न, अत्रापि लेखन- विधानाच्चतुरश्रातिरिक्तं यत्किञ्चित्कर्त्तव्यमुभयत्रापि परिमण्डलदर्शनाद- विशेषादत्रापि परिमण्डलं भवति । अयमर्थः—अरवेद्यर्थं कृतं चतुरश्रं परिमण्डलं कुर्यात् । एवं नेम्यर्थं कृतं चतुरश्रं परिमण्डलं कुर्यात् । एवं त्रीणि मण्डलानि भवन्ति । ननु मण्डलत्रैविध्ये प्रमाणाभावात् प्रत्युत चतुःषष्टिरराश्चतुःषष्टिर्वेदिरिति पृथग्, नेमिः शेषा इति पृथगुपदेशाच्च- त्वारि मण्डलानि भवन्ति । अथ परिमण्डलमूलभूतचतुरश्रचतुष्टयासम्भवाद् न परिमण्डलचतुष्टयं सम्भवति । अस्तु वा चतुरश्रचतुष्टयसम्भवः अथापि अरार्थकृतपरिमण्डलादुपरि वेद्यर्थं परिमण्डलं कर्त्तव्यम् । तस्या-