बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 142, कुल 366 में से
संदर्भ में पढ़ें११२ शुल्बसूत्रम् [ तृतीयोऽध्यायः त्वात् पुरुषेण नमनं कृत्वा पक्षाग्रे अरत्न्यर्थ्याभिः षट् पत्राणि कुर्यात् । एवं त्रिषष्टिः पञ्चम्यो भवन्ति । तयोत्तर इति । त्रिषष्टिः पक्षे उपदध्यादित्येव । पुरुषेणेति । व्याख्या- तप्रायम् । आत्मशिरः पुच्छेषु द्वासप्ततिः पञ्चम्यः । पक्षयोः षड्विंशतिशतं पञ्चम्यः । तत्र पक्षयोरर्धाधिका दश पञ्चम्योऽतिरिच्यन्ते । तासां निरसनप्रकारमाह— अपरस्मादिति । उभयत्र अपरस्मान्निर्णांममूलाद् आरभ्य प्राञ्चमरत्निं मित्वा तत्र शङ्कुं निहत्य तस्मिन् स्पन्द्यां प्रतिमुच्य अपरपक्षपत्रापच्छेदं उभयत्र पश्चिम- पत्रस्य कर्णरूपपार्श्वमानीं आलक्ष्यीकृत्य निपातयेत् । एवमिति । निर्णामबहिर्भूत- पक्षांशे षड्भिः पत्रैः सह त्रयस्त्रिंशत् पञ्चम्यः । उक्तेन प्रकारेण षष्ठांशे निरस्ते एकैकस्मिन् पक्षे सार्ध्याः पञ्चम्यो निरस्ता भवन्ति । एवं एकादश निरस्ता भवन्ति । सार्धा दश पञ्चम्यो निरस्याः ॥ ७९ ॥ पादेष्टकामपनाम उपधाय तासां चतुरस्रपाद्याः साष्टम- भागा अपोद्धृत्य शेषा यथायोगं यथासङ्ख्यं यथाधर्मञ्चो पदध्यात् ॥ ८० ॥ पादेष्टकामिति । तासां पञ्चवीनामिष्टकानां चतुरश्रपाद्या अष्टम- भागीयाश्च वर्जयेत् प्रयोजनाभावात् । अवशिष्टानि चत्वारि करणानि पुरुषस्य पञ्चमी, तस्या अर्ध्या, तथा पाद्या, चतुरस्ररूपा अध्यर्धा । तस्याः प्रमाणम् अर्धव्यायामेन, द्वाभ्यामरत्निभ्यामरत्निविशेषेणेति । शेषमिति । अवशिष्टमग्निं यथासंख्यं प्रतिप्रस्तारं यथा द्विशतमिष्टका भवन्ति, यथायोगमाकृतिनिष्पत्तिर्भवति, यथाधम्र्मं पूर्वापरयोः प्रस्तारयोः सन्धिविधानं यथा भवति तथेत्यर्थः ॥ ८० ॥ पादेष्टकामिति । उपदध्यादिति वक्ष्यमाणेन सम्बन्धः । पादेष्टकां निर्णाममूले उद्धृतदेशे कुटिलस्थाने दक्षिणपक्षे दक्षिणाग्रां उत्तरपक्षे उत्तराग्राम् । एवं अर्धेष्टका प्रक्षिप्ता भवति । अतः सार्ध्या दश गता भवन्ति । अथोपधानम् । तासां षण्णामिष्टकानां कङ्कचित्युक्तानां मध्ये चतुरस्रपाद्याः साष्टमभागा वर्जयित्वा, तासां कङ्कचिति पादोपधानार्थत्वात्, इह पाद्योर- भावात् तासामभाव इति भावः । शेषाश्चतस्र इष्टकाः पञ्चम्योऽर्ध्याः पाद्या अध्यर्धाश्च । यथायोगमित्यादि व्याख्यातम् । न्यायमार्गेणोपधानस्य सुकरत्वात् विस्तरेण नोक्तिः ।