बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 143, कुल 366 में से
संदर्भ में पढ़ेंऽध्यायः ] बौधायनीयं ११३ तत्र चत्वारि करणानि । अरत्निरेकम् । तदर्ध्या अक्ष्णयाभिन्ना एकम् । पाद्या उभयतोऽक्ष्णयाभिन्ना एकम् । पूर्वोक्ता अध्यर्धा एकम् । तत्र पञ्चम्यः षट्पञ्चाशच्चतुःशतम् । द्व्यधिकं शतद्वयं अर्ध्याः । षडधिकं शतं पाद्याः । षट्त्रिंशदधिकं शतद्वयं अध्यर्धाः । चोडानाकसदः षडध्यर्धाः चतस्रः पञ्चम्यः । प्रथमे प्रस्तारे शिरसोऽग्रे बहिर्द्वे अर्ध्ये । ततोऽरत्निचतुष्टयम् । आत्मनि अर्धाष्टकं अपच्छेदेषु । मध्येऽष्टचत्वारिंशदरत्नयः । पुच्छपार्श्वयोः षडर्ध्याः । मध्ये द्वादशारत्नयः । पञ्चार्ध्या अङ्गुलानि । तत्र निर्णामाद् दक्षिणासु पञ्चसु पुरतस्तिस्रस्तिस्रोऽध्यर्धाः । पश्चाद् एकै- कार्ध्या । चतुरिष्टकाः पञ्च रीतयः । निर्णामादुत्तराः सर्वाः पञ्चम्यः । पार्श्वेषु अर्ध्याः । एवं समेष्टकाः पञ्च रीतयः । तत्र निर्णामादुत्तरस्यां आदिभूतां अर्ध्यां तदनन्तरां पञ्चमीं चोद्धृत्य अध्यर्धा निधेया । एवमुत्तरः पक्षः । पूर्वमेवोभयत्र निर्णामादौ पाद्ये उक्ते । तत्र आत्मनि षट्पञ्चाशत् । शिरसि षट् । पुच्छेऽष्टादश । पक्षयोर्विंशति- शतम् । अस्मिन् प्रस्तारे द्वादशशतं पञ्चम्यः । चतुःपञ्चाशदर्थ्याः । द्वे पाद्ये । द्वात्रिंशदध्यर्धाः । अथ अपरः प्रस्तारः । शिरसोऽग्रे प्राची पाद्या । पश्चादध्यर्धाद्वयम् । पार्श्व- योश्चतस्रश्चतस्रः पाद्याः । तासां पश्चाद् बहिर्द्वे अर्ध्ये । एवं त्रयोदश । ततः पश्चाद् अध्यर्धाभ्यां पार्श्वयोरुक्तं अध्यर्धाद्वयम् । तत्पश्चात् पञ्चमीरीतयः सप्त पञ्चेष्टकाः । ततः पश्चात् पूर्ववद् अध्यर्धा- द्वयम् । पार्श्वयोरर्ध्ये । पुच्छात्मसन्धौ मध्ये पञ्चमी । उभयत्र अर्ध्ये । सन्धिरितीशेषे पुच्छक्षेत्रे द्वे प्रागग्रे पाद्ये । एवं पञ्चेष्टका रीतिः । ततः पश्चात् पूर्ववद् अध्यर्धाद्वयंमध्ये च । ततोऽध्यर्धाश्चतस्र एका रीतिः । ततः पुच्छाग्रे पञ्चदश पाद्याः । एवं आत्मशिरःपुच्छेषु चतुरशीतिः । निर्णामाग्रे एका पाद्या । ततः पश्चादरत्निचतुष्टयम् । ततः प्रत्यङ्मुखी अध्यर्धा । एवं षडिष्टका रीतिः । निर्णामादुत्तरतः पञ्च रीतय अध्यर्धाः चतुरिष्टकाः प्राच्यः । तत्र आत्मसन्धिरोत्यां पुरस्ताद् अन्यतरत्र पाद्या । निर्णामाद् दक्षिणतश्चतु- रिष्टकाश्चतस्रः प्राच्यः । तासु मध्ये द्वे द्वे पञ्चम्यौ । आद्यन्तयोर्द्वे द्वे अध्यर्धे । अथ पादेष्टके अर्धैष्टका (३।४४) मित्यादि पूर्ववत् पक्षेषु । एवमुत्तरः पक्षः । आत्मनि षट्चत्वारिंशत् । त्रयोदश शिरसि । पुच्छे पञ्चविंशतिः । एवं चतुरशीतिः । पक्षयोः षोडशशतम् । अस्मिन् प्रस्तारे षष्टिः पञ्चम्यः । विंशतिरर्ध्याः । पञ्चाशत् पाद्याः । सप्तति- रध्यर्धाः । १५