भारतकोश
संग्रह पर लौटें

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

ऽध्यायः ] बौधायनीयं ११३ तत्र चत्वारि करणानि । अरत्निरेकम् । तदर्ध्या अक्ष्णयाभिन्ना एकम् । पाद्या उभयतोऽक्ष्णयाभिन्ना एकम् । पूर्वोक्ता अध्यर्धा एकम् । तत्र पञ्चम्यः षट्पञ्चाशच्चतुःशतम् । द्व्यधिकं शतद्वयं अर्ध्याः । षडधिकं शतं पाद्याः । षट्त्रिंशदधिकं शतद्वयं अध्यर्धाः । चोडानाकसदः षडध्यर्धाः चतस्रः पञ्चम्यः । प्रथमे प्रस्तारे शिरसोऽग्रे बहिर्द्वे अर्ध्ये । ततोऽरत्निचतुष्टयम् । आत्मनि अर्धाष्टकं अपच्छेदेषु । मध्येऽष्टचत्वारिंशदरत्नयः । पुच्छपार्श्वयोः षडर्ध्याः । मध्ये द्वादशारत्नयः । पञ्चार्ध्या अङ्गुलानि । तत्र निर्णामाद् दक्षिणासु पञ्चसु पुरतस्तिस्रस्तिस्रोऽध्यर्धाः । पश्चाद् एकै- कार्ध्या । चतुरिष्टकाः पञ्च रीतयः । निर्णामादुत्तराः सर्वाः पञ्चम्यः । पार्श्वेषु अर्ध्याः । एवं समेष्टकाः पञ्च रीतयः । तत्र निर्णामादुत्तरस्यां आदिभूतां अर्ध्यां तदनन्तरां पञ्चमीं चोद्धृत्य अध्यर्धा निधेया । एवमुत्तरः पक्षः । पूर्वमेवोभयत्र निर्णामादौ पाद्ये उक्ते । तत्र आत्मनि षट्पञ्चाशत् । शिरसि षट् । पुच्छेऽष्टादश । पक्षयोर्विंशति- शतम् । अस्मिन् प्रस्तारे द्वादशशतं पञ्चम्यः । चतुःपञ्चाशदर्थ्याः । द्वे पाद्ये । द्वात्रिंशदध्यर्धाः । अथ अपरः प्रस्तारः । शिरसोऽग्रे प्राची पाद्या । पश्चादध्यर्धाद्वयम् । पार्श्व- योश्चतस्रश्चतस्रः पाद्याः । तासां पश्चाद् बहिर्द्वे अर्ध्ये । एवं त्रयोदश । ततः पश्चाद् अध्यर्धाभ्यां पार्श्वयोरुक्तं अध्यर्धाद्वयम् । तत्पश्चात् पञ्चमीरीतयः सप्त पञ्चेष्टकाः । ततः पश्चात् पूर्ववद् अध्यर्धा- द्वयम् । पार्श्वयोरर्ध्ये । पुच्छात्मसन्धौ मध्ये पञ्चमी । उभयत्र अर्ध्ये । सन्धिरितीशेषे पुच्छक्षेत्रे द्वे प्रागग्रे पाद्ये । एवं पञ्चेष्टका रीतिः । ततः पश्चात् पूर्ववद् अध्यर्धाद्वयंमध्ये च । ततोऽध्यर्धाश्चतस्र एका रीतिः । ततः पुच्छाग्रे पञ्चदश पाद्याः । एवं आत्मशिरःपुच्छेषु चतुरशीतिः । निर्णामाग्रे एका पाद्या । ततः पश्चादरत्निचतुष्टयम् । ततः प्रत्यङ्मुखी अध्यर्धा । एवं षडिष्टका रीतिः । निर्णामादुत्तरतः पञ्च रीतय अध्यर्धाः चतुरिष्टकाः प्राच्यः । तत्र आत्मसन्धिरोत्यां पुरस्ताद् अन्यतरत्र पाद्या । निर्णामाद् दक्षिणतश्चतु- रिष्टकाश्चतस्रः प्राच्यः । तासु मध्ये द्वे द्वे पञ्चम्यौ । आद्यन्तयोर्द्वे द्वे अध्यर्धे । अथ पादेष्टके अर्धैष्टका (३।४४) मित्यादि पूर्ववत् पक्षेषु । एवमुत्तरः पक्षः । आत्मनि षट्चत्वारिंशत् । त्रयोदश शिरसि । पुच्छे पञ्चविंशतिः । एवं चतुरशीतिः । पक्षयोः षोडशशतम् । अस्मिन् प्रस्तारे षष्टिः पञ्चम्यः । विंशतिरर्ध्याः । पञ्चाशत् पाद्याः । सप्तति- रध्यर्धाः । १५

[११४] शुल्बसूत्रम् [ तृतीयोऽध्यायः

अत्र कल्पोक्तो विधिरनुसन्धेयः । तत्रैवसुक्तम् । अलजचितं चिन्वीत चतुः- सीतं प्रतिष्ठाकाम इति । एतस्यैव सतोऽरत्निमात्रेण पक्षाग्रावणीयांसौ भवतः। तावन्मात्रेणापि पक्षौ वरीयांसौ तौ प्रागपन्तौ । परोणीयांसौ भवतः । एकैकामत्र सीतां कृपतीति ( बौ श्रौ. सू. १७।२८ पृ. ३०७ ) । अत्र चतुःसीतमिति तिस्रस्तिस्र इत्यादिपु एकैकां कृषतीत्यर्थः । परोणीयांसा- विति अपनामाद् दक्षिणत उत्तरतश्च । पक्षमूलादणुतरौ भवत इत्यर्थः ॥ ८० ॥ [ इति अलजचिदुपधानम् । ] प्रउगचितं चिन्वीतेति ॥ ८१ ॥ एवं सपक्षपुच्छानग्नीनुक्त्वा इदानीमपक्षपुच्छानाह—प्रउगचित मिति ॥ ८१ ॥ प्रउग इति । शकटस्येषयोः संयोगप्रदेशः प्रउगः । तद्वच्चीयत इति प्रउग- चित् ॥ ८१ ॥ यावानग्निः सारत्निप्रादेशस्तावत् प्रउगं कृत्वा तस्या अप- रस्र्याः करण्या द्वादशेनेष्टकास्तदर्धव्यासाः कारयेत् । तासामर्ध्याः पाद्याश्च ॥ ८२ ॥ यावानग्निरिति । अग्निः सप्तविधः सारत्निप्रादेशः सन् यावान् संपद्यते सार्धसप्तविध इत्यर्थः । तावत्क्षेत्रपरिमितं प्रउगं कुर्यादित्यर्थः । एतदुक्तं भवति—पादोनपञ्चषष्ट्यधिकचतुःशताङ्गुलपरिमाणेन सम- चतुरश्रं कृत्वा पूर्वस्याः पार्श्वमान्या मध्ये शङ्कुं निहत्य श्रोण्योरपि शङ्क निहत्य शङ्कूनामुपरि स्पन्द्यां नियम्य बहिःस्पन्द्यमपच्छिन्द्यादिति । तस्या इति । प्रउगस्य पश्चिमपार्श्वमान्याः द्वादशेन नवतिलोननवविंशद- ङ्गुलिदीर्घपरिमाणेन तदर्धविस्तारेण बृहद्दीर्घचतुरश्राष्टकाः कुर्यादित्यर्थः । तासामिति । बृहतीनामर्ध्याः पाद्याश्च अक्ष्णया कुर्यादित्यर्थः ॥ ८२ ॥ यावानिति । चतुरस्रं प्रउगं चिकीर्षन् (१।४५) इत्यनेन प्रकारेण प्रउगं कुर्यात् । तत्र सारत्निप्रादेशस्य सप्तविधस्याग्नेः समचतुरस्रकरणी त्रीणि शतान्यष्टाविंशतिश्चाङ्गुलय अर्द्धद्वाविंशाश्च तिलाः । तस्याः द्विकरणी पादोनपञ्चषष्टिचतुःशताङ्गुला द्विस्तावत्यां श्चतुरस्रकृतायाः पञ्चदशपुरुषाया भूमेः करणी । एवं चतुरस्रीकृतायाः पूर्वस्याः

तृतीयोऽध्यायः ] बौधायनीयं ११५ करण्या मध्याच्छ्रोणीं प्रत्यालिखेत् । तत्र कर्णरूपयोः पार्श्वमान्योः प्रमाणं अर्धोन- विंशतिपञ्चशताङ्गुलयः । तस्य प्रउगस्य अपरस्याः करण्याः पादोनपञ्चषष्टिश्चतुःशताङ्गु- लाया द्वादशेन नवतिलोननवत्रिंशदङ्गुलेन तदर्धेन द्वाविंशतितिलहीनविंशत्यङ्गुल- व्यासेन इष्टकाः कारयेत् । तासां बृह्त्य इति संज्ञा । तासामिति । तासां बृहतीनां अर्ध्या अक्ष्णया भिन्नाः पाद्याश्च उभयविधा दीर्घपाद्याः शूलपाद्याश्च कारयेत् । द्व्यधिकनवतिचतुःशतं बृहत्यः । चतुरधिकं चतुःशतं अर्ध्याः । शतं शूलपाद्याः । दीर्घपाद्याश्चतस्रः । चोडानाकसद अष्टावर्ध्या द्वे बृहत्यौ ॥ ८२ ॥ तासां द्वे अर्धेष्टके वाह्यविशेषे चुबुक उपदध्यात् । अर्ध्या- **श्चान्तयोः । शेषम

११६ शुल्बसूत्रम् [ तृतीयो- पश्चिमान्त्यप्रदेश इत्यर्थः । सप्तचत्वारिंशदिति । अपरस्मिन् भागे प्राग- ग्राश्चतुर्विंशतिः पाद्याः प्रत्यगग्राश्चयोर्विंशतिः पाद्याः इत्येवं व्यासेनोपदध्या- दित्यर्थः । चुबुक इति । अग्रप्रदेशे प्रागग्रां शूलपाद्यामित्यर्थः । दीर्धे चेतर इति । दीर्धे द्वे पाद्ये आहत्य चतस्रः पाद्याः प्राक्प्रत्यग् दीर्घचतुरश्रं यथा भवति तथा स्वयमातृण्णास्थाने उपदध्यादित्यर्थः ॥ ८४ ॥ अपरस्मिन्निति । अपरस्मिन्ननीके अपरान्ते । पादेष्टकाः शूलपाद्याः इतरासाम- सम्भवात् । चतुर्विंशतिः प्रागग्राः । चुबुक इति । शूलपाद्याम् । दीर्घ इति । दक्षिणत उत्तरतश्चाभ्यन्तराग्रे दीर्घपाद्ये । इतरे शूलपाद्ये प्राक्प्रत्यगग्रिके । नियमार्थं वचनम् । अध्येंति । व्याख्यातम् । शेषमिति । पूर्ववत् । तत्रैवमुपधानम्— पश्चिमार्धे शूलपाद्याः सप्तचत्वारिंशत् । पूर्वान्ते चैका । मध्ये उदीच्यः एकादश रीतयः । तासु सर्वासु पार्श्वयोरर्ध्याः प्रागायताः । मध्यरीत्यां मध्यमामुद्धृत्य तस्याः स्थाने पूर्वोक्तपाद्याचतुष्टयम् । चतुर्थपञ्चम्योरीत्योः पार्श्वतस्तिस्रस्तिस्रो बृहतीरुद्धृत्य षट् षट् अर्ध्या निधेयाः । एवं द्विशतः प्रस्तारः । अस्मिन् प्रस्तारे चतुर्दशशतं बृहत्यः । चतुस्त्रिंशदर्ध्याः । पञ्चाशत् शूलपाद्याः। द्वे दीर्घपाद्ये । अत्र कल्पोक्तो विधिरनुसन्धेयः । तत्रैवमुक्तम् । प्रउगचितं चिन्वीत भ्रातृ- व्यवानिति । स एतस्यैव सतः समुद्गृह्यांसौ प्रागायातयति स तथा विहृतो भवति । न बहिर्वेदिपूषः स्यात् (बौ० श्रौ० सू० १७।२८ पृ० २०७) इति । समुद्गृह्येति अंसौ संकोचयित्वेत्यर्थः ॥ ८४ ॥ [ इति प्रउगचिदुपधानप्रकारः । ] उभयतः प्रउगं चिन्वीतेति ॥ ८५ ॥ उभयत इति ॥८५॥ उभयत इति । विज्ञायते इति शेषः ॥ ८५ ॥ यावानग्निः सारत्निप्रादेशस्तावदुभयतःप्रउगं कृत्वा नवमेन तिर्यङ्मान्याः प्रउगचितोक्ता विकाराः ॥ ८६ ॥ यावानग्निरिति । यावानग्निः सार्धसप्तविधमग्निक्षेत्रमुभयतःप्रउगा- कारं कृत्वेत्यर्थः । एतदुक्तं भवति—सार्धैर्काविंशतितिलाधिकविंशत्युत्तरशताङ्गुल(?)ति- र्यङ्‌मानीकं द्विगुणपार्श्वमानीकं प्राक्प्रत्यग्दीर्घचतुरश्रं विहृत्य पूर्वापरदक्षि-

ऽध्यायः ] बौधायनीयं ११७ णोत्तरेषु मध्ये शङ्कुचतुष्टयं निहत्य शङ्कषु स्पन्द्यामाबध्य बहिःस्पन्द्यमप- च्छिन्द्यादिति । नवमेनेति । तिर्यङ्मान्या मध्यकरण्या नवमांशेन अर्धतिलाधिकसार्ध- षट्त्रिंशदङ्गुलमानेनेत्यर्थः । प्रउगचितोक्तेति । सप्तम्यर्थे तृतीया । अस्मिन्नुक्ता विकारा इष्टकानां कर्त्तव्या इत्यर्थः । एतदुक्तं भवति--तिर्यङ्मानीनवमांशायामास्तदर्धव्यासा बृहतीः तासा- मर्ध्याः पाद्याश्च कुर्यादिति ॥ ८६ ॥ यावानिति । इष्टकाः कुर्याद् इत्यध्याहारः । अर्ध्राष्टमपुरुषक्षेत्रकरणोक्तेन विधिना उभयतःप्रउगं कृत्वा (१।४६), अयमत्र प्रकारः--सार्द्धसप्तविधक्षेत्र- करणीविस्तारं द्विगुणायामं दीर्घचतुरस्रं विहरेत् । तत्र त्रीणि शतान्यष्टाविंशतिश्च अङ्गुलय अर्धविंशांश्च तिलास्तिर्यङ्‌मानी । द्विगुणा पार्श्वमानी । एवं विहृत्य पूर्वायोः करण्योर्मध्यात् दक्षिणोत्तरयोर्मध्ये निपातयेत् । बहिःस्पन्द्यमपच्छिन्द्यात् । एवं कृते अर्धाधिकसप्तषष्टिशतत्रयमङ्गुल्यः करण्यो भवन्ति । नवमेनेति । इष्टकानामिति शेषः । तिर्यङ्‌मानी त्रीणि शतानि अष्टाविंशति- श्चाङ्गुलयोऽर्द्धद्वाविंशाश्चतिलाः । तस्या नवमभागेन प्रउगचितोक्ता विकाराः । नवम- भागं द्वादशस्थानीयं कृत्वा नवमभागायामास्तदर्धव्यासा बृहत्यः । तासामर्ध्याः, उभयप्रकाराः पाद्याश्च कारयेदित्यर्थः । तत्र बृहत्योऽष्टाविंशत्यधिकं षट्शतम् । षट्- पञ्चाशत्त्रिशतमर्ध्याः । अष्टौ शूलपाद्याः । तथा दीर्घपाद्याः चोडानाकसदृश द्रष्टव्याः ॥ ८६ ॥ तथोपधानम् ॥ ८७ ॥ तथोपधानमिति । प्रस्तारे पूर्ववदेवोपधानमित्यर्थः ॥ ८७ ॥ तथोपधानमिति । यथा प्रउगचित्युक्तम् । अत्र चुबुकयोर्द्वे द्वे अध्ये इति द्रष्टव्यम् । अर्ध्याश्चान्तयोरित्यत्रान्तेषु चेति । शेषमग्नं बृहतीभिरित्यादि च । तत्रैवसुपधानम् । प्राच्योऽष्टादश रीतयः । तत्र दक्षिणस्यां स्रक्त्यां अर्ध्याद्वये- नैका रीतिः । तस्या अन्तर्गतरीत्या मध्ये द्वे बृहत्यौ । अन्तयोरर्ध्ये । सर्वत्र बृहत्यः प्राच्यः अर्ध्याश्च । सर्वत्र अन्तेषु अर्ध्याः । तृतीया षडिष्टका । तुरीया अष्टेष्टका । पञ्चमी दशेष्टका । षष्ठी द्वादशेष्टका । तत्र मध्याद् दश बृहतीरुद्धृत्य विंशतिरर्ध्याः । सप्तमी चतुर्दशेष्टका । अष्टमी षोडशेष्टका । नवमी अष्टादशेष्टका । एवं उत्तरो विभागः । अस्मिन् प्रस्तारे चतुर्विंशतिशतं बृहत्यः । षट्सप्ततिरर्ध्याः ॥ ८७ ॥ अपरस्मिन् प्रस्तारे चुबुकयोर्द्वे पादेष्टक उपदध्यात् । सन्ध्र्यन्तयोश्चदीर्घपाद्ये । दीर्धे चेतरे चतस्रः स्वयमातृण्णावकाश

उपदध्यात् । अर्ध्याश्चान्तयोः । शेषमग्निं बृहतीभि- प्रच्छादयेदर्धेष्टकाभिः सङ्ख्यां पूरयेत् ॥ ८८ ॥ द्वितीयप्रस्तारे विशेषमाह-अपरस्मिन्निति । चुबुकयोरिति । पूर्वा- परयोरग्रयोः द्वे शूलपादेष्टके प्राक्प्रत्यग्दीर्घ उपदध्यादित्यर्थः । सन्ध्यन्तयो- रिति । दक्षिणोत्तरयोः स्रक्त्योः द्वे दीर्घपाद्ये । स्वयमातृण्णावकाशे पूर्व- वच्चतस्रः पाद्या उपदध्यादित्यर्थः । शिष्टं स्पष्टम् ॥ ८८ ॥ चुबुकयोरिति । शूलपाद्ये । सन्ध्यन्तयोरिति । प्रउगसन्ध्यन्तयोः दक्षिणोत्तरस्र- क्त्योरित्यर्थः । शेषमिति । पूर्वेण व्याख्यातम् । तत्रैवमुपधानम् । पूर्वपश्चिमचुबुकयोर्द्वे शूलपाद्ये । मध्ये सप्तदश उदीच्यो रीतयः । सर्वत्र प्रागायता इष्टकाः । मध्ये बृहत्यः । अन्तेषु अर्ध्याः । दक्षिणोत्तर- स्रक्त्योर्दीर्घपाद्ये । मध्यमायां रीत्यां मध्यमायाः स्थाने पूर्ववत् पाद्याः । चतसृषु दिक्षु चतस्रश्चतस्रो बृहतीरुद्धृत्य अष्टावष्टावर्ध्या निधेयाः । एवं द्विशतः प्रस्तारः । अस्मिन् प्रस्तारे अष्टाविंशतिशतं बृहत्यः । चतुःषष्टिरर्ध्याः । चतस्रः शूल- पाद्याः । चतस्रोदीर्घपाद्याः । अत्र कल्पोक्तो विधिरनुसन्धेयः । तत्रैवमुक्तम् । उभयतःप्रउगं चिन्वीत यः कामयेत प्रजातान् भ्रातृव्यानुदेय प्रतिजनिष्यमाणानिति । एतस्यैव सतः समुद्गृह्यैव श्रोणीं प्रत्यायातयति स तथा विहृतो भवति यथा न वहिर्वेदिर्यूपः स्यादिति (बौ. श्रौ. सू. १७।२८ पृ. २०७) ॥ ८८ ॥ [ इति उभयतःप्रउगचिदुपधानप्रकारः । ] रथचक्रचितं चिन्वीतेति विज्ञायते ॥ ८९ ॥ रथचक्रचितमिति । रथचक्रमिव चीयत इति (तं ?) रथचक्रचित- मित्यर्थः ॥ ८९ ॥ रथेति । रथस्य चक्रमिव चीयत इति रथचक्रचित् पूर्वेष्टकाकरणेचानुक्तोऽपि श्रुतौ गम्यमानायां विज्ञायत इति विशेषप्रतिपादनार्थमुक्तम् ॥ ८९ ॥ द्वयानि तु खलु रथचक्राणि भवन्ति साराणि च प्रधियुक्तानि च । अविशेषात्ते मन्यामहेऽन्यतरस्याकृतिरिति ॥ ९० ॥ सांराणीति । साराणि अरैः सह वर्तत इति साराणि । प्रधियुक्तानि प्रधयो नाम मण्डलकृतचतुरश्राद्वहिःप्रदेशास्तैर्युक्तानीत्यर्थः । अविशेषादिति । रथचक्रचितं चिन्वीतेति ब्राह्मणे सारत्वप्रधियुक्तत्वादिविशेषाश्रवणादित्यर्थः ।

अध्यायः ] बौधायनीयं ११६ अन्यतरस्याकृतिरिति । अर्थद्वयविशिष्टब्राह्मणद्रष्टारः अन्यतरस्य (सारस्य ?) प्रधियुक्तस्य वा रथचक्रस्याकृतिविकल्पे चोद्येते इति ॥ ९० ॥ अमुमेव प्रतिपादयति—द्वयानीति । तु शब्दोऽवधारणे । तत्र द्विप्रकाराणि लोके रथचक्राणि भवन्त्येव । कानि पुनस्तानि ? सह अरैर्वर्त्तन्त इति साराणि । प्रधियुक्तानि च । प्रधयो नाम चक्रस्य अन्ताः । तद्युक्तानि च । ब्राह्मणे रथचक्रचितं चिन्वीतेति अविशेषेण श्रूयते । तस्मादविशेषात् ते वयं मन्यामहे । अन्यतरस्याकृतिरिति । तस्मादुभयप्रकारं वक्ष्याम इत्यर्थः ॥ ९० ॥ अथाग्निं विमिमीते । यावानग्निः सारत्निप्रादेशस्तावतीं भूमीं परिमण्डलां कृत्वा तस्मिन् यावत् सम्भवेत् समचतुरश्रं कृत्वा तस्य करण्या द्वादशेनेष्टकाः कारयेत् ॥ ९१ ॥ परिमण्डलामिति । मध्ये शङ्कुं निहत्य पञ्चाशीतिशताङ्गुलेन चतुर्दश- तिलयुक्तेन परिमण्डलं भ्रामयेदित्यर्थः । क्षेत्रप्रमाणमुक्त्वा करणीप्रकारं दर्शयति—तस्मिन्निति । परिमण्डले यावत् सम्भवति तावत् समचतुरश्रं कृत्वा तस्य समचतुरश्रस्य करण्याः पार्श्वमान्याः द्वादशेन द्वाविंशत्यङ्गुलेन पञ्चतिलोनेन समचतुरश्रं कारयेदित्यर्थः ॥ ६१ ॥ अथाग्निमिति । तस्य करण्या द्वादशेनेष्टकाः कारयेदिति वक्ष्यमाणेन सम्बन्धः । विष्कम्भो मण्डलविधा ( १।४७-४६ ) वेव प्रपञ्चितः । मध्ये शङ्कुं निहत्य पञ्चाशीतिशताङ्गुलेन चतुर्दशतिलयुक्तेन परिमण्डलं भ्रम- येत् । तस्य मध्ये विष्कम्भार्धद्विकरण्या सप्ततिलाधिकया द्विपष्टिशतद्वयाङ्गुल्या समचतुरस्रं कुर्यात् । चतुरस्राद् बहिः चत्वारः प्रधयः । द्वाविंशत्यङ्गुलेन पञ्चतिलोनेन समचतुरस्रकरणम् । चतुरस्रमध्ये चतुश्चत्वारिंशच्छतं इष्टकाः शेरते ॥ ६१ ॥ तासां षट् प्रधावुपधाय शेषमष्टधा विभजेत् । अस्मिन् प्रस्तारे चतुरश्रस्रक्तीरवान्तरदेशान् प्रति संपादयेत् ॥ ९२ ॥ अपरं प्रस्तारं तथोपद्ध्याद् यथा प्रध्यनीकेषु स्रक्तयो भवन्तोति ॥ ९३ ॥ तासामिति । पूर्वोक्तेष्टकानां मध्ये षट् षट् प्रधिमूलेषु उपधाया- वशिष्टं प्रधीनां क्षेत्रमष्टधा विभजेदित्यर्थः । प्रध्यनीकेषु प्रधिमध्येपु महादिक्षु चतुरस्रस्य स्रक्तयः कोणप्रदेशेषु यथा भवन्ति तथोपद्ध्या- दित्यर्थः ॥ ६२ ॥ ९३ ॥

तासामिति । प्रधिमूलमध्ये षट् चतुरस्रा उपधाय तस्य प्रधेः शेषं अष्टधा विभ- जेत् । उपहितानां षष्णां पार्श्वयोर्द्वे द्वे, मुखे चतस्र इति । त्रिकोणमाद्यम् । त्रितिलयुक्तं षड्विंशत्यङ्गुलमेकं करणम् । सप्ततिलहीनत्रयस्त्रिंशदङ्गुलं द्वितीयम् । तिलत्रयहीनं द्विचत्वारिंशदङ्गुलं तृतीयं कर्णरूपम् । तद्धनुरिव तक्षयेद् यथा षट्तिलोनाङ्गुलः शरो भवति । द्वितीयस्य षड्विंशत्यङ्गुलं तिलत्रययुक्तमेकं तिर्यक्फलकम् । एकादशतिलयुक्तं द्विचत्वारिंशदङ्गुलं द्वितीयम् । सप्ततिलोनत्रयस्त्रिंशदङ्गुलमेकं पार्श्वम् । षट्त्रिंशदङ्गुलं षड्विंशत्तिलं पार्श्वान्तरम् । तद् धनुरिव तक्षयेद् यथा तिलत्रयोनाङ्गुलिः शरो भवति । तृतीयस्याः सार्धविंशत्यङ्गुलमेकं तिर्यक्फलकम् । त्रिंशदङ्गुलं षोडशतिलहीनं द्वितीयम् । सप्ततिलोनत्रयस्त्रिंशदङ्गुलमेकं पार्श्वम् चतुस्त्रिंशकं पार्श्वान्तरम् । तद् धनु- राकारं तक्षयेद् यथा षड्विंशति तिलाः शरो भवति । चतुर्थस्य त्रिंशदङ्गुलं षोडश- तिलहीनमेकं तिर्यक्फलकम् । सार्धद्वात्रिंशद् द्वितीयम् । सप्ततिलोनत्रयस्त्रिंशदङ्गुल- मेकम् । चतुस्तिलोनं त्रयस्त्रिंशदङ्गुलं पार्श्वान्तरं धनुरिव तक्षयेत् । पञ्चविंशति तिलाः शरः एतान्यत्र चत्वारि करणानि अन्यस्मिन् प्रध्यर्धे विपर्यासेन भवन्ति । एवमेव चत्वारः प्रधयः ॥९२॥ अपरमिति । पूर्वस्मिन् प्रस्तारे महादिक्षु प्रधयः । इह तेषु प्रध्यनीकेषु प्रधि- मध्येषु चतस्रः स्रक्तयः । महादिक्षु स्रक्तय इत्यर्थः । एतावानेव भेदः पूर्वस्मात् प्रस्तारात् । एवं व्यत्यासेन पञ्च चितयः । इतिकरणः समाप्तिसूचकः ॥ ९३ ॥ [ इति प्रधियुक्तरथचक्रचिदुपधानप्रकारः । ] अथापरः ॥ ९४ ॥ प्रधियुक्तरथचक्रचयनप्रकारमुक्त्वा साररथचक्र(चयन?) प्रकारमाह- अथापर इति । अथानन्तरमपरः प्रकार उच्यते इति शेषः ॥ ९४ ॥ अथापर इति । अनन्तरमपरः प्रकारः । साररथचक्रचिदुच्यत इत्यर्थः ॥ ९४ ॥ पुरुषाधार्त् पञ्चदशोनेष्टकाः समचतुरश्राः कारयेन्मानार्थाः । तासा द्वे शते पञ्चविंशतिश्च सारत्निप्रादेशः सप्तविधः संपद्यते । तास्वन्याश्चतुःषष्टिमावपेत् । ताभिः समचतुरस्रं करोति । तस्य षोडशेष्टकापार्श्वमानो भवति । त्रयस्त्रिंशदति- शिष्यन्ते । ताभिरन्तान् सर्वतः परिचिनुयात् ॥ ९५ ॥ पुरुषाधार्दिति । पुरुषक्षेत्रार्धात् । पुरुषक्षेत्रं तावच्चतुश्शताधिकचतुर्द- शसहस्राण्यङ्गुलयः तदर्धं द्विशताधिकसप्तसहस्राङ्गुलयः । एवं भूतात् अर्धपुरुषक्षेत्रादित्यर्थः । पञ्चदशेनेति । तत्क्षेत्रपञ्चदशभागेन समचतु-

रश्रा इष्टकाः कारयेत् । एवं पञ्चदशाधाविभक्तस्यैकैकस्य क्षेत्रमशी- त्यधिकचतुःशतान्यङ्गुलय इत्यर्थः । ननु एवं कृतेन क्षेत्रभागेन उप धाने प्रयोजनाभावात् कथं युक्तमित्यत आह—मानार्था इति । नोपधेया इत्यर्थः । उत्तरत्र वक्ष्यमाणेन कर्षणेन उपधानोपयुक्तेष्टका- करणं स्पष्टं भविष्यतीति भावः । एवं पञ्चदशाकर्तव्यत्वेन चोदिता इष्टकास्त्रिंशत्तिलाधिकैकविंशत्यङ्गुलपरिमाणका इत्यर्थः । तासामिति । पूर्वोक्तेष्टकानामित्यर्थः । द्वे शत इति । उक्तासु पञ्चविंशत्यधिकद्विशत- सङ्ख्याकासु अन्यास्तत्सदृशीश्चतुःषष्टिः इष्टका आवपेत् ताभिः सह संयोजयेदित्यर्थः । आहत्य एकोननवत्युत्तरशतद्वयेष्टकाः सम्पन्नास्ता- भिरिष्टकाभिः समचतुरश्रं करोति । समचतुरश्रकरणं स्वयमेव विवृणोति तस्येत्यादिना । तस्य करिष्यमाणस्य समचतुरश्रस्य षोडशेष्टकाः सर्वतः पार्श्वमानी भवति । एवञ्च सर्वस्मिन् पार्श्वे षोडशेष्टकारीति- र्भवति । आहत्य उपह्रियतेष्टकाः, षट्पञ्चाशदधिकशतद्वयसङ्ख्याकाभिः समचतुरश्रं कुर्यादित्यर्थः । तत्र त्रयस्त्रिंशदिष्टका अतिशिष्यन्ते । ताभि- रिति । ताभिश्चयस्त्रिंशदिष्टकाभिरवशिष्टाभिरन्तान् सर्वतः परिचिनुया- दित्यर्थः । अन्तप्रदेशान्सर्वतः सर्वान् त्रयस्त्रिंशद्भागान् परिचिनुयादिष्ट- काभिः प्रच्छादयेदित्यर्थः । यद्यपि अन्तानिति निर्देशाच्चतुर्षु पार्श्वेषु उपधानं प्रतीयते तथापि सर्वत्र षोडशेष्टकारीतित्वेन त्रयस्त्रिंशादिरश्रेसमस्यन्तीति (?) न्यायेन सोऽपि तत्र योजयितुं शक्यते, तथापि तथाकरणे पूर्वकृतेष्टकापरिमाणलोपेन तत्प्रमाणानुसारेण वक्ष्यमाणकर्षणाद्यसम्भवात् प्राग्दक्षिणयोर्वा प्रागुत्तर- योर्वा पश्चिमदक्षिणयोर्वा पश्चिमोत्तरयोर्वा योजयेत् । अथवा पर्यायाभि- प्रायेण बहुवचननिर्देशः । पार्श्वद्वयप्राप्तमुपधानमनियमेन ययोः कयोः पार्श्वयोः कर्तुं शक्यत इत्यर्थः । एवं केचिदाहुः । तत्र अवशिष्टानामिष्टकानां पुनः संयोजनं कथं ? नानार्थत्वापत्तेः । अन्तशब्दस्य सर्वतः प्रकृतक्षेत्रान्त- परतवावगमेन प्रकृतरीत्यन्त(र)परत्वकल्पनानुपपन्ना । अन्तशब्दस्य क्षेत्रान्त- १६

१२२ शुल्बसूत्रम् [ तृतीयो-

परत्वे प्रायेण बहुवचनसमर्थनमेव दोषः। किञ्च "नाभिः षोडशमध्यमा" इति मध्याभिधाने सप्तदशेष्टकपार्श्वमानीकचतुरश्रप्रसङ्गेन षोडशेष्टकाना- न्यतरतो वैषम्यप्रसङ्गेन मध्यमत्वासम्भवात् तत्र सप्तदशपार्श्वमानीक- योदशेष्टकचतुरश्रं परिगृह्य सक्त्येष्टकाषु चतसृषु शङ्कुं निहत्य स्पन्द्यया परिचयने अष्टाविंशत्युत्तरशतेष्टकाभिः अरवेदिकरणसम्भव इति वाच्यम्। इष्टकास्वरूपभङ्गप्रसङ्गात्। तस्मादयमत्र सूत्रार्थः—ताभिर- न्तान्सर्वतः परिचिनुयात्ताभिस्त्रयस्त्रिंशदिष्टकाभिः अन्तान् चतुरः पार्श्वान् परिचिनुयात् संयोजयेत् । अयमत्र संयोजनप्रकारः—त्रयस्त्रिंशदिष्टकासु एकां निधाय अवशिष्टा द्वात्रिंशदिष्टका द्वेधा विभज्य प्रतिपार्श्वं षोडश षोडश संयोजयेत्। अवशिष्टामिष्टकां चतुर्धा विभज्य चतुर्षु कोणेषु योजयेदिति। इष्टकाभङ्गस्तथापि समान इति चेत्; सत्यम् तव पक्षे नाभिकरणे षोडशेष्टकानां भङ्गः, अरवेदिकरणे अष्टाचत्वारिंशदिष्टकानां भङ्ग इति दुर्बोधतया गौरवम्। मम तु त्रयस्त्रिंशदिष्टकानामेवेति लाघवम्॥ ९५॥ पुरुषार्धादिति। पुरुषक्षेत्रं चतुर्दशसहस्राणि चत्वारि शतान्यङ्गुलयः। तस्यार्धात् द्विशताधिकसप्तसहस्रात्। पञ्चदशांशं अशीत्यधिकचतुःशताङ्गुलं मूलं गृहीत्वा तेन भागेन इष्टकाः समचतुरस्राः कारयेत्। मानार्थाः एताभिरिष्टकाभिरग्निमानं वक्ष्यति तदर्थाः। नोपधानार्थाः। तत्र पञ्चदशभागस्य करणीक्लृप्तिः। अशीत्यधिकचतुःशतमङ्गुलीश्चतुस्त्रिंशत्ति- लववर्गेण षट्पञ्चाशच्छताधिकसहस्रेण हत्वा तस्य मूलमानीय तिलवर्गमूलेन चतुस्त्रिंशधा विभज्य लब्धं एकविंशतिरङ्गुलय एकत्रिशत्तिलाः। तेनेष्टकाः समचतु- रस्राः कारयेत्। तासामिति। तृतीयार्थे षष्ठी। अर्धपुरुषक्षेत्रे पञ्चदशेष्टकाः शेरते। ताः पञ्चदशभिर्गुणिताः द्वे शते पञ्चविंशतिश्च भवन्ति। तास्विति। तासु मानार्थासु। अन्याः तत्सदृशाः। उक्ताभ्योऽतिरिक्ताः चतुःषष्टिमिष्टका आवपेत् संयोजयेत्। एवं अग्निक्षेत्राधिकाभिः सह एकोननवतिशतद्वयं भवन्ति। ताभिरिति। ताभिः एकोननव- तिशतद्वयसंख्याकाभिः। तस्येति। पूर्वेषां चतुरस्राणां प्रदर्शनार्थमिदम्। अग्निक्षेत्रमध्यं परिगृह्य प्रथमं द्वाभ्यां द्वाभ्यां चतुरिष्टकं चतुरस्रं कृत्वा ततस्त्रिभिस्त्रिभिर्नवेष्टकम्। ततश्चतुर्भिश्चतुर्भिः षोडशेष्टकमित्यादि। षोडशभिः षट्पञ्चाशच्छतद्वयेष्टकं चतुरस्रं चात्र कुर्यादित्यर्थः।

ऽध्यायः ] बौधायनीयं १२३ त्रयस्त्रिंशदिति । एवं षोडशेष्टकाभिः चतुरस्रे कृते एकोननवतिशतद्वयात् त्रय- स्त्रिंशदिष्टका अतिरिच्यन्ते । ताभिरिति । ताभिरतिशिष्टाभिः । अन्तान् आदित आरभ्य प्रदक्षिणमुपधीयमानत्वात् पर्यायापेक्षया बहुवचनम् । पूर्वोत्तरपार्श्वयो- रित्यर्थः । पूर्वपार्श्वमान्यां षोडश । उत्तरपार्श्वमान्यां षोडश । पूर्वोत्तरकोट्यां खण्डक्षेत्रे एका । एवं त्रयस्त्रिंशत् ॥ ९५ ॥ नाभिः षोडशमध्यमाः ॥ ९६ ॥ नाभिरिति । मध्यगताः षोडशेष्टका नाभिर्भवति । सप्तदशपार्श्वमानीके चतुरस्रे प्रतिपार्श्वं सार्धषडिष्टकाक्षेत्रं विहाय मध्ये चतुरिष्टकापार्श्वमानीकं नाभिं कुर्यादित्यर्थः ॥ ९६ ॥ नाभिरिति । एवमुपहितानामिष्टकानां मध्यमाः मध्यगताः षोडशेष्टकाः । चक्रस्य नाभिर्भवति । तत्र प्रकारः । मध्ये पञ्चेष्टकापार्श्वमानीकं पञ्चविंशेष्टक- चतुरस्रं परिगृह्य तस्य चतुरस्रस्यावान्तरदिक्षु स्रक्तिषु या इष्टकास्तासां मध्येषु शङ्कून् निहत्य स्पन्द्यया परितनोति । एवं षोडशेष्टकं चतुरस्रं भवति । सा नाभिः ॥ ९६ ॥ चतुःषष्टिरराः ॥ ९७ ॥ चतुःषष्टिरिति । अरा इति रथचक्रावयवविशेषाः ॥ ९७ ॥ चतुःषष्टिरिति । शिष्टानामिष्टकानां चतुःषष्टिरिष्टकाः चक्रस्य आराः प्रसिद्धा अवयवा भवन्ति ॥ ९७ ॥ चतुःषष्टिर्वेदिः ॥ ९८ ॥ वेदिरिति । अरान्त एव प्रदेशो वेदिः । अरवेद्यर्थं अष्टाविंशत्युत्तर- शतेष्टकाभिर्मध्यचतुरश्रं कुर्यादित्यर्थः । द्वादशेष्टकपार्श्वमानीकं चतुरश्रं मध्ये कुर्यात् । एवं चतुरश्रे कृते नाभ्यर्थं मध्यतः षोडशेष्टकास्वपनीतासु अष्टाविंशत्युत्तरशतेष्टकाः सम्पद्यन्ते ताभिररवेदी कुर्यादित्यर्थः ॥ ९८ ॥ चतुःषष्टिरिति । वेदिरपि चतुःषष्टिरिष्टकाः आराणामन्तरालभूमिः । वेदिसंज्ञक- नामधेयत्वात् तत्र स्तरणादयो धर्माः । आराणां वेद्या (श्च ?) सह अष्टाविंशतिशत मिष्टकाः । तत्र प्रकारः चतुरस्रमध्ये त्रयोदशेष्टकपार्श्वमानीकं नवषष्टिशतेष्टकं चतु- रस्रं परिगृह्य तस्य चतुरस्रस्य कोटिषु या इष्टकाश्चतस्रस्तासां मध्येषु शङ्कवः स्पन्द्यया- वेष्टिता अष्टाविंशतिशतं भवन्ति ॥ ९८ ॥

१२४ शुल्बसूत्रम् [ तृतीयो- नेमिः शेषाः ॥ ९९ ॥ नेमिरिति । नेमिः रथचक्रान्त्यप्रदेशः । पञ्चचत्वारिंशच्छतेष्टका नेमिः । ताभिर्नेमिं कुर्यादित्यर्थः ॥ ९९ ॥ नेमिरिति । शेषाः विनियुक्तावशिष्टाः पञ्चचत्वारिंशच्छतमिष्टकाः नेमि- र्भवन्ति । रथचक्रस्य बाह्यावयवो नेमिः ॥ ९९ ॥ नाभिमन्ततः परिलिखेत् ॥ १०० ॥ नाभिमिति । नाभ्यन्तरं कृतं चतुरश्रं परिमण्डल(१।४७)मित्यादिना परिमण्डलं कुर्यात् । यद्यपि परिलिखेदिति सामान्यनिर्देशाद् यथा कथञ्चि- दुपपद्यते, तथापि लोके रथचक्रनाभिमण्डलाकारदर्शनादिहापि परिमण्डलं कर्त्तव्यमिति गम्यते ॥ १०० ॥ नाभिमिति । नाभिः षोडशमध्यमा (३।९६) इत्युक्तम् । तां नाभिमन्ततः सर्वतो लिखेत् । अक्ष्णयार्ध (१।४७) मित्यादिना ॥ १०० ॥ नेमिमन्ततश्चान्तरतश्च परिलिख्य नेमिनाभ्योरन्तरालं द्वात्रिंशद्धा विभज्य विपर्यासं भागानुद्धरेत् । एवमावाप उद्धृतो भवति ॥ १०१ ॥ नेमिमिति । नेमिमन्तरं ततः परिलिखेत् नेमेरन्तरं तस्य नेमेरन्तरं(१) तस्य नेमेरन्त्यप्रदेशे च परिमण्डलद्वयं कुर्यात् । पूर्वोक्तन्यायेनान्तप्रदेशे परिमण्डलं भवति । लोके मध्ये परिमण्डलाभावेऽपि रथचक्रकरणसम्भ- वादिहापि मध्ये परिमण्डलकरणे प्रमाणं नास्तीति चेन्न, अत्रापि लेखन- विधानाच्चतुरश्रातिरिक्तं यत्किञ्चित्कर्त्तव्यमुभयत्रापि परिमण्डलदर्शनाद- विशेषादत्रापि परिमण्डलं भवति । अयमर्थः—अरवेद्यर्थं कृतं चतुरश्रं परिमण्डलं कुर्यात् । एवं नेम्यर्थं कृतं चतुरश्रं परिमण्डलं कुर्यात् । एवं त्रीणि मण्डलानि भवन्ति । ननु मण्डलत्रैविध्ये प्रमाणाभावात् प्रत्युत चतुःषष्टिरराश्चतुःषष्टिर्वेदिरिति पृथग्, नेमिः शेषा इति पृथगुपदेशाच्च- त्वारि मण्डलानि भवन्ति । अथ परिमण्डलमूलभूतचतुरश्रचतुष्टयासम्भवाद् न परिमण्डलचतुष्टयं सम्भवति । अस्तु वा चतुरश्रचतुष्टयसम्भवः अथापि अरार्थकृतपरिमण्डलादुपरि वेद्यर्थं परिमण्डलं कर्त्तव्यम् । तस्या-

ाणाञ्चorअराणां च? It is अराणाञ्च(withञ्च). And वेदेश्च: वेदेश्च`.

*   Let's check line 3 again:
    `यथायोगमष्टौ विधाय अवशिष्टानांमष्टानामधर्धक्षेत्रं विधाय उद्धृतार्धक्षेत्रेण`
    Wait, let's look at `अवशिष्टानांमष्टानां`:
    Is there a space? `अवशिष्टानांमष्टानाम्` - wait, there is no space between `अवशिष्टानां` and `मष्टानाम्`?
    Let's look at line 3:
    `यथायोगमष्टौ विधाय अवशिष्टानांमष्टानामधर्धक्षेत्रं विधाय उद्धृतार्धक्षेत्रेण`
    Notice the spacing: `विधाय` [space] `अवशिष्टानांमष्टानामधर्धक्षेत्रं` [space] `विधाय` [space] `उद्धृतार्धक्षेत्रेण`.
    Wait, is there a space between `अवशिष्टानां` and `मष्टानां`? No space, it's run together: `अवशिष्टानांमष्टानामधर्धक्षेत्रं`.
    Wait, look at line 8:
    `नेमिनिविष्टानांमराणामन्तरालदेशेषु` - also run together!
    This is a common feature in this edition.

१२६ शुल्बसूत्रम् [ तृतीयो- नेमिमिति । नेमिं व्यवलिख्य चतुःषष्टिभागान् कृत्वा नेमिमध्ये सर्वतः परिमण्डलरूपेण परिलिखेत् । अयमर्थः—अररेखाभिरसंयुक्ततया परिलिखेत् । एवं कृते अष्टाविंशत्यधिकशतेष्टकाः सम्पन्नाः । अन्यस्मिञ्छ्रयने सर्वत्र इष्टकानुरोधेन करणान्युन्नेयानि । अत्र नेमीष्टकासु करण- द्वयम् ॥ १०२ ॥ नेमिमिति । नेमिप्रदेशमभ्यन्तरदेशादारभ्य आ बाह्यान्तात् चतुःषष्टिं कृत्वा चतुःषष्टिभागान् समान् कृत्वा । तत्र द्वितीये प्रस्तारे अरा नेमिं प्रविशन्ति तत्र भेदो यथा न भवति तथा अराणां पार्श्वदेशभागान् षोडशभागान् कृत्वा । एकैकं भागं समशश्चतुरो भागान् कृत्वा । व्यवलिख्य व्यवधामालिख्य । नेमिं मध्ये परिकृषेत् । सर्वतः कृषेत् । ता इति । बाह्याः चतुःषष्टिः । तासामेकं करणम् । अन्ततश्चतुःषष्टिः । तासामेकं करणम् ॥ १०२ ॥ अरांश्चतुर्धा विभजेत् । नाभिमष्टधा विभजेत् । एष प्रथमः प्रस्तार ॥ १०३ ॥ अरानिति । षोडश अरानेकैकं तिर्यक् चतुर्धा विभजेत् । यद्यप्यराणां चतुर्धा विभागो दीर्घेरज्जुवाकारेणापि कर्तुं शक्यते, तथापि षोडश करणोप- पत्त्यर्थमेव विभागो सदं (१) द्रष्टव्यः । एवञ्च षोडशारेषु चतुःषष्टिरिष्टकाः सम्पद्यन्ते । अत्र चत्वारि करणानि । नाभिमिति । नाभिमष्टौ भागान् समान् कुर्यात् । तत्राष्टाविष्टकाः । तत्रैकं करणम् । आहत्य अस्मिन् प्रस्तारे सप्त करणानि ॥ १०३ ॥ अरानिति । अरांश्चतुर्धा विभज्य लेखाः कुर्यात् । तासां चत्वारि (करणानि ?) । ताश्चतुःषष्टिः । नाभिमिति । अत्रापि द्वितीयप्रस्तारानुगुणं विभागः । अरप्रदेश- मध्येषु लेखा इत्यर्थः । तास्त्रिभुजाः । तासामेकं करणम् । बाह्यफलकं धनुर्वक्रम् । एवं सप्त करणानि । एष इति । एवं शतद्वयसंपत्तिः । तत्र मध्ये भेदो न परिहरणीयः । न सक्तिपार्श्वयो (२।९) रित्युक्तम् ॥ १०३ ॥ अपरस्मिन् प्रस्तारे नाभिमन्ततश्चतुर्थवेलायां परिकृषेत् । नेमिमन्तरतः । नेमिमन्तरतश्चतुःषष्टिं कृत्वा व्यवलिखेत् ॥ १०४ ॥ अपरस्मिन्निति । नाभिमन्तरतः नाभिमन्ततः अन्त्यप्रदेशे तद्वत्प्रदेशे इत्यपेक्षायां चतुर्थवेलायामिति । चतुर्थांशे परिकृषेत् परिलिखेत्,

[ऽध्यायः ] बौधायनीयं १२७

नाभेश्चतुर्थवेलायामिति इत्यवगम्यते । अयमर्थः—नाभौ मध्यप्रदेशे अंशत्रयं निधाय अवशिष्टमेकं भागमरवेदिभ्यां संयोजयेत् । अत्रापि पूर्ववदंशनिहितांशत्रयं संयोज्य चतुर्थांशयोर्मध्ये पूर्वोक्तन्यायेन मण्डलं परिलिखेत् । नेमिमन्तरत इति । चतुर्थवेलायां परिकृषेदित्यनुषङ्गः । अयमर्थः—नेम्यामन्ततः प्रदेशे अंशत्रयं निधाय अन्तःप्रदेशे स्थितं चतुर्थभागमरवेदिभ्यां संयोजयेत् । निहितांशत्रयं संयोज्य चतुर्थांशयोर्मध्ये पूर्ववत्परिमण्डलं कर्त्तव्यम् । एवञ्च त्रीणि मण्डलानि भवन्ति । मध्य- मण्डले पूर्वपेक्षया क्षेत्रमधिकं नाभिनेमिक्षेत्राभ्यां नाभिक्षेत्रान्नेमिक्षेत्रात् किञ्चित्किञ्चित् क्षेत्रमरवेद्यर्थं मण्डलेन योजितत्वात् । नन्वेवं तर्हि पूर्वोक्त- नाभ्यादिपरिमाणभङ्ग इति चेन्न, मध्यमण्डलान्तर्गतनेमिनाभिचतुर्थांशयो- ररत्वे प्रमाणाभावात् । “अराणां पञ्चधा विभाग” (३।१०५) इति सूत्र- कारेण नेमिनाभिचतुर्थांशसहितानामरत्वेन व्यवहार एव प्रमाणमिति चेन्न, “आ परिकर्षणयो”रिति परिकर्षणद्वयसहितानामराणां पञ्चधाकरणवचनेन परिकर्षणविधातिरिक्तस्यैवारत्वविभागो द्रष्टव्यः । नेमिमिति । नेमिं यथा चतुःषष्टिभागा भवन्ति तथा व्यवलिखेदित्यर्थः ॥ १०४ ॥ अपरस्मिन् इति । उपधानमुच्यत इति शेषः । अन्तत अरसंयोगदेशे । चतुर्थ- वेलायां मध्यादारभ्य बाह्यतो नाभिचतुर्थमवशिष्य परिलिखेत् । नेमिमन्तरत इति । अरसंयोगदेशे नेमिमभ्यन्तरतो नेमिप्रमाणचतुर्थभागेऽतीते परिकृषेत् । नेमिमन्तरत इति । नेम्यन्तरं परिकर्षणबाह्यभागं चतुःषष्टि कृत्वेत्यादि । अत्र प्रथमप्रस्तारलेखानां मध्येऽणु लेखास्तासामेकं करणम् ॥ १०४ ॥ अराणां पञ्चधा विभाग आ परिकर्षणयोः ॥ १०५ ॥ अराणामिति । अराणां नाभिकर्षणचतुर्थांशनेमिचतुर्थांशसहितानां पञ्चधा विभागः कर्तव्यः । परिकर्षणशब्देन रेखया परिगृहीतनाभिनेम्यो- श्चतुर्थांश उच्यते । आङ् अभिविधौ पञ्चम्यर्थे च (नेष्टा ?) तेन नाभिचतु- र्थांशसहितानाम् अराणां पञ्चधा विभागः कर्त्तव्य इत्यर्थः ॥ १०५ ॥ अराणामिति । अराणां भेदपरिहारेण पञ्चधाविभागः । आ परिकर्ष- णयोः । परिकर्षणशब्देन नेमिनाभ्युदरेषु प्रविष्टचतुर्थांशावुच्येते । नाभ्यामराणां

१२८ शुल्बसूत्रम् [ तृतीयो- भेदपरिहारेण पञ्चधा विभाग इत्यर्थः । ता अशीतिरिष्टकाः । तासां पञ्च- करणानि ॥ १०५ ॥ नेम्यामन्तरालेषु द्वे द्वे । नाभ्यन्तरालेष्वेवैकाम् । यच्छेषं नामेस्तदष्टधा विभजेत् ॥ १०६ ॥ नेम्यामिति । अरान्त्येष्टकाद्वयान्तरालनेमिचतुर्थांशेषु एकैकस्मिन् द्वे, द्वे इष्टके उपदध्यात् । यच्छेषमिति । उपर्युक्तचतुर्थांशव्यतिरिक्तनाभेस्त्रिभाग- देशमष्टधा विभजेत् ॥ १०६ ॥ नेम्यामिति । अराणामन्तरालेषु वेदिप्रदेशसमीपे नेम्यां द्वे द्वे इष्टके । अराणां नेम्यां प्रविष्टत्वान्न नेमिचतुर्भागा वेदिविस्तारभूमयः सम्भवन्ति । तासामनूचीनां विभागः । तासामेकं करणम् । ता द्वात्रिंशत् । नाभ्यन्तरालेति । अराणां नाभौ प्रविष्टत्वान्नाभिचतुर्थांशा वेदिविस्तारभूमयः सम्भवन्ति । तेष्वेकामिष्टकाम् । ताः षोडश । यच्छेषमिति । चतुर्थवेलायां परिकल्पे (३।१०४) दित्युक्तम् । ततोऽभ्यन्तर- मित्यर्थः । तद्‌भेदपरिहारेणाष्टधा विभजेदित्यर्थः । तासामेकं करणम् । ता अष्टा- विष्टकाः । एवं नव करणानि । नेम्यन्ते एकम् । नेम्यन्तराले एकम् । अरेषु पञ्च । नाभ्यन्तराले एकम् । नाभिशेषे एकम् । इष्टकास्तु नाभ्यां अष्टौ । नाभ्यन्तरालेषु षोडश । अरेषु अशीतिः । नेम्यन्त- रालेषु द्वात्रिंशत् । नेम्यन्तरेषु चतुःषष्टिः । एवं द्विशतपूर्त्तिः । एवमिष्टकाविभागे नव करणान्युक्तानि भवन्ति । सर्वत्र भूमौ लिखित्वा इष्टकाः कारयेत् ॥ १०६ ॥ स एष षोडशकरणः सारो रथचक्रचित् ॥ १०७ ॥ स एष इति । प्रस्तारद्वयनिष्कृष्टकरणसङ्ख्यानिर्देशपुरःसरमुपसंहारः कृतः। अस्मिन् प्रस्तारे नव करणानि । तथाहि नाभित्रिभागे एकं करणम्, नाभिचतुर्थांशान्तराले एकम्, अ(प)रेषु पञ्च, नेमिचतुर्थांशान्तराले एकम्, नेम्यामेकमिति नव करणानि । प्रथमप्रस्तारे सप्त आहत्य षोडशकरणानीति यावत् ॥ १०७ ॥ स एष इति । उत्तरपटलोऽपि द्रष्टव्यः । पूर्वत्र सप्त । अपरस्मिन् नव । सुख- ग्रहणार्थं करणानां ग्रहणम् । अत्र कल्पोक्तो विधिरनुसन्धेयः । तत्रैवमुक्तम् । रथचक्रचितं चिन्वीत भ्रातृ- व्यवानिति विज्ञायते । आकृतिविकारस्य शब्दसंयोगाद् यावानग्निः सारत्निप्रादेश- स्तावतीं भूमिं परिमण्डलां कृत्वा अनुशर्करमिष्टकाः परिचिनोति । अथान्तरतोऽथा-

ऽध्यायः ] बौधायनीयं १२९ न्तरत एवमेव स्वयमातृण्णायाः । अथाभितः स्वयमातृण्णाया मध्ये नाभिभिव करोति । तस्यानुदिशमवान्तरदिशमराणि च नेमिमिवेष्टका आयातयति । स एष रथचक्रचिद् भ्रातृव्यवतः परिकृष्यत इति ( बौ. श्रौ. सू. १७।२९ पृ : ३०७ ) । तत्र परिकर्षणं मण्डलकर्षणम् ॥ १०७ ॥ [ इति साररथचक्रचिदुपधानप्रकारः । ] द्रोणचितं चिन्वीतेति विज्ञायते ॥ १०८ ॥ साररथचक्रचयनमुक्त्वा द्रोणचयनप्रकारमाह द्रोणचितमिति ॥१०८॥ द्रोणेति । द्रोणाकारमिव चिन्वीतेति विज्ञायते ॥ १०८ ॥ द्वयानि तु खलु द्रोणानि भवन्ति चतुरश्राणि परिमण्डलानि च । अविशेषात्ते मन्यामहेऽन्यतरस्याकृतिरिति ॥ १०९ ॥ यद्यपि श्रुतौ सामान्यतः द्रोणचितं चिन्वीतेति वर्तते तथापि लोके द्विविधानि द्रोणानि अन्नसाधनत्वेन दृष्टानीत्यभिप्रायेणाह— द्वयानीति ॥ १०६ ॥ द्वयानीति । द्वयानि द्विप्रकाराणि लोके प्रसिद्धानि । त्सरुमन्ति चतुरस्राणि । परिमण्डलानि ओष्ठवन्ति । एतत् सर्वं रथचक्रे व्याख्यातम् ॥ १०६ ॥ अथाग्निं विमिमीते । चतुरश्र आत्मा भवति । तस्य त्रयः पुरुषास्त्रिभागोनाः पार्श्वमानी भवति । पश्चात् त्सरुर्भवति । तस्यार्धपुरुषो दशाङ्गुलानि प्राची । त्रिभागोनः पुरुषः उदीची । एवं सारत्निः प्रादेशः सप्तविधः संपद्यते ॥ ११० ॥ तस्येति । तस्यात्मनस्त्रयः पुरुषा एकपुरुषतृतीयेन भागेनोनाः त्रिभा- गोना विंशत्यधिकत्रिशताङ्गुलप्रमाणका पार्श्वमानी भवतीत्यर्थः । पश्चात् त्सरुर्भवतीति । त्सरुः पुच्छस्थाना भवतीत्यर्थः । तस्यार्धेति । प्राक् प्रत्यक् सप्तत्यङ्गुलदीर्घं दक्षिणोत्तरमशीत्यङ्गुलदीर्घमेवं दीर्घचतुरश्रं कुर्यात् । आत्मना अव्यवहिततया कुर्यादित्यर्थः । एवं सारत्निप्रादेशः सप्तविधः संपद्यते ॥ ११० ॥ चतुरश्रति । तस्याग्नेः समचतुरस्र आत्मा भवति । तस्येति । तस्य आत्मनः । त्रयः पुरुषास्त्रिभागोनाः द्वौ पुरुषौ तृतीयः तृतीयभागहीनः पुरुषः । न प्रत्येकम् । एवं त्रिभागोनास्त्रयः पुरुषाः । विंशत्यधिकशतत्रयाङ्गुला पार्श्वमानी भवति । १७ Nepal Sanskrit University, Balmeeki Campus, Kathmandu

१३० शुल्बसूत्रम् [ तृतीयो- पश्चादिति । पश्चात् पुच्छस्थाने त्सरुर्भवति । तस्येति । तस्य त्सरोः । अर्धपुरुषः षष्टिर- ङ्गुलयो दशाङ्गुलानि च । एवं सप्ततिरङ्गुलयः प्राची भवति । त्रिभागेन इति । अशी- तिरङ्गुलय उदीची भवति । आत्मपश्चिमपार्श्वमान्या दक्षिणत उत्तरतश्चोभयत्र पुरुषमात्रमवशिष्य मध्यतोऽशीत्यङ्गुलदक्षिणोत्तरं सप्तत्यङ्गुलायतं ( दीर्घचतुरस्रं ) पश्चात् त्सरुर्भवतीत्यर्थः । इति करणो मानसमाप्त्यर्थः । एवमिति । अस्याग्नेः षष्ठीनां प्रथमकरणत्वात् ताभिः संपत्तिरुच्यते । आत्मनि षट्पञ्चाशच्छतद्वयं षष्ठ्यः शेरते । त्सरौ चतुर्दश । एवं सारत्निप्रादेशः सप्तविधः सप्ततिशतद्वयं षष्ठ्यः संपद्यन्ते ॥ ११०॥ तस्येष्टकाः कारयेत् पुरुषस्य षष्टयस्ता एवैकतोऽध्यर्धा- स्तासामर्धास्तिर्यग्भेदाः पुरुषस्य चतुर्थ्य इति ॥ १११ ॥ तस्येष्टकाः कारयेदित्येतत्सूत्रमारभ्य चतुरश्रद्रोणचयनप्रतिपादक- सूत्रपर्यन्तं सूत्रभङ्गीकृतव्याख्यानं दूषयितुं वाक्यतो नोपपद्यते, तथा हि- तस्येष्टका इति । षष्ठ्यः विंशत्यङ्गुलास्ता एवैकतोऽध्यर्धास्त्रिंशदङ्गुल- पार्श्वमान्यस्तासामर्धास्तिर्यग्भेदाः । पुरुषस्य चतुर्थ्य इति । षष्ठ्यः विंशत्यङ्गुलाः ता एवैकतोऽध्यर्धास्त्रिंशदङ्गुलपार्श्वमान्यस्तासामर्धा- स्तिर्यग्भेदाः विंशत्यङ्गुलपार्श्वमानीकाः दशाङ्गुलतिर्यङ्-मानीकाः चतुर्थ्य- स्त्रिंशदङ्गुलाः । तत्र द्विचत्वारिंशत्षष्ठ्यः द्विपञ्चाशतसप्तशतमध्यर्धा द्विषष्टिशतमध्यर्धाश्चत्वारिंशच्चतुर्थ्यः । तत्र चोडानाकसदः अष्टा अध्यर्धा द्वे (अर्ध्ये ?) इति करणः (प्र) करणसमाप्तिसूचकः ॥ १११ ॥ अथेष्टकानां विकाराः । तस्येष्टका इति । षष्ठ्यो विंशत्यङ्गुलाः । ता एवैकतो- ऽध्यर्धाः त्रिंशदङ्गुलपार्श्वमान्यः । तासामर्धास्तिर्यग्भेदाः विंशत्यङ्गुलपार्श्वमानीका दशाङ्गुलतिर्यङ् मानीकाः । चतुर्थ्यस्त्रिंशदङ्गुलाः । तत्र द्विचत्वारिंशत् षष्ठ्यः । द्विपञ्चाशत्सप्तशतमध्यर्धाः । द्विषष्टिशतमध्यर्धाः । चत्वारिंशच्चतुर्थ्यः । तत्र चोडाना- कसद अष्टावध्यर्धाः । द्वे अर्ध्ये । इति करणः करणसमाप्तिसूचकः ॥ १११ ॥ तासां त्सरुश्रोण्यन्तरालयोः षट् षट् षष्ठीरुपधाय शेष- मग्निं बृहतीभिः प्रच्छादयेत् । अर्धैष्टकाभिः सङ्ख्यां पूरयेत् ॥ ११२ ॥ तासामिति । अध्यर्धाभिः प्राचीभिः प्रागायताभिः प्रच्छादयेत् । षोडश हीयन्ते । तत्र अर्धैष्टकाभिरिति । भेदपरिहारेणोभयस्मिन् पार्श्वे चत- स्रश्चतस्रोऽध्यर्ध्या उद्धृत्य द्वादश द्वादशार्ध्या निधेयाः । एवमुपधाने भेदं संभवं

ऽध्यायः ] बौधायनीयं १३१ मत्वान्यथोपधानमाहुः । तत्र त्सर्वग्रे चतस्रोऽर्धेष्टका उदगायताः । ततश्चतस्रस्तु षष्ठ्यः । ततश्चतस्रो रीतयः प्रत्येकं द्वादशाध्यर्धेष्टकाः प्रागायताः । ततः त्सरु- श्रोण्यन्तयोर्द्वादश द्वादश प्रागायताध्यर्ध्याः । ततः पार्श्वयोः प्रागायताभिर- ध्यर्धाभिः षट् षड् रीतयो दश दशेष्टकाः । एवं द्विशतः प्रस्तारः । अस्मिन् प्रस्तारे चतस्रः षष्ठ्यः, अष्टषष्टिशतमध्यर्धाः, अष्टाविंशतिरर्ध्याः ॥११२॥ तासामिति । अध्यर्धाभिः प्राचीभिः प्रागायताभिः प्रच्छादयेत् । षोडशही- यन्ते । तत्र अर्थ इति । भेदपरिहारेण उभयस्मिन् पार्श्वे चतस्रश्चतस्रोऽध्यर्धा उद्धृत्य द्वादश द्वादश अध्यर्ध्या निधेयाः । एवमुपधाने भेदं सम्भवं मत्वा अन्यथो- पधानमाहुः । तत्र त्सर्वग्रे चतस्रोऽर्धेष्टका उदगायताः । ततश्चतस्रः षष्ठ्यः । ततश्च- तस्रो रीतयः प्रत्येकं द्वादश अध्यर्धेष्टकाः प्रागायताः । त्सरुश्रोण्यन्तयोर्द्वादश द्वादश प्रागायता अध्यर्ध्याः । ततः पार्श्वद्वये प्रागायताभिरध्यर्धाभिः षड्रीतयो दशेष्टकाः । एवं द्विशतः प्रस्तारः । अस्मिन् प्रस्तारे चतस्रः षष्ठ्यः । अष्टषष्टिशतमध्यर्धाः । अष्टा- विंशतिरर्ध्याः ॥ ११२ ॥ अपरस्मिन् प्रस्तारे दक्षिणेऽंसेऽध्यर्धामुदीचीमुपदध्यात् । तथोत्तरे । पूर्वस्मिन्ननीके षड्भागीया उपदध्यात् । दक्षिणोत्तर- योश्चतुर्भागीयाः । त्सरोः पुरस्तात् पार्श्वयोर्द्वे चतुर्भागीये उपदध्यात् । तयोरवस्तादभितो द्वे द्वे अध्यर्धे विषूची । तयोरवस्तान्मध्यदेशे षष्ठ्यौ प्राच्यौ । शेषमग्निं वृहतीभिः प्रच्छादयेत् । अर्धेष्टकाभिः सङ्ख्यां पूरयेत् ॥ ११३ ॥ अपरस्मिन्निति । आत्मनो दक्षिणेऽंसे । उदीचीमुदगायताम् । तथो- त्तर इति । अध्यर्धामुदीचीमित्येव । पूर्वस्मिन्निति । आत्मपूर्वान्ते अंसयोः पूर्वोपहिताध्यर्धयोर्मध्ये । अर्थात् त्रयोदश षड्भागीयाः । दक्षिणोत्तरयो- रिति । अनीकानुवृत्ते दक्षिणोत्तरयोरनीकयोरर्थाद्दश दश चतुर्भागीयाः । त्सरोरिति । त्सरोः पूर्वान्ते द्वयोः पार्श्वयोरेकैका चतुर्भागीया । तयोर- वस्तादिति । तयोरुपहितयोश्चतुर्भागीययोः पश्चादभितः पार्श्वयोर्द्वे द्वे अध्यर्धे विषूची दक्षिणोत्तरायते उपदध्यात् । तयोरवस्तादिति । तयोः पूर्वोक्तचतुर्थ्योः पश्चाद्भूतप्रदेशे । मध्यदेशे त्सरुमध्यदेशे । त्सरुमध्यपश्चिमा- न्तादारभ्य षष्ठीद्वयमुपदध्यादित्यर्थः । शेषमग्निमिति । त्सरुणि(?)

यहाँ प्रस्तुत पृष्ठ का पंक्ति-दर-पंक्ति देवनागरी पाठ्यान्तर दिया गया है:

१३२ शुल्बसूत्रम् [तृतीयो- चतुर्थ्योर्मध्ये एका बृहती श्रोण्योर्द्वे । एवं त्सरौ नवेष्टकाः । आत्मनि त्रिंशच्छतमध्यर्धाः प्राच्यः न्यूनाः षड्विंशतिः । अर्धेटका- भिरिति । आत्मनि पुरस्ताद्भागे मध्ये वा त्रयोदश बृहतीरुद्धृत्य एकोनचत्वारिंशदर्थ्याः निधेयाः । अस्मिन् प्रस्तारे भेदपरिहारं दुःशकं मत्वान्यथोपधानमाहुः । त्सरौ पूर्ववत् नवेष्टकाः । आत्मनि दक्षिणत उत्तर- तश्च दश दश चतुर्थ्यः । अंसयोर्द्वे अध्यर्धे उदीची । आत्ममध्ये प्राच्यास्त्रयो- दशरीतयस्तास्वेकैकस्यमादितो नव नवाध्यर्धाः प्रागायताः । तत एकैकार्धेटका उदीची । तत एकैका षष्ठी । ततो द्वे द्वे अर्धेटके तिरश्च्यौ । एवं त्रयोदशेष्टकाः त्रयोदश रीतयः । एवं द्विशतः प्रस्तारः । अस्मिन् प्रस्तारे पञ्चदश षष्ठ्यः । चतुर्विंशतिशतमध्यर्धाः । एकोन- चत्वारिंशदर्थ्याः । द्वाविंशतिः चतुर्थ्यः । अयमत्रसूत्रभंगिनोऽभिप्रायः—सूत्रानुसारेण प्रथमप्रस्तारे इष्ट- कोपधानं कृत्वा वक्ष्यमाणसूत्रोक्तप्रकारेणेष्टकोपधाने सन्धिदर्शनात् असि...त्प्रसंगेनान्यथैवोपधानमिति । अयन्तु सर्वथानुपन्रः । सूत्रोक्तोपधान- पक्षे सत्यपि सन्धिदर्शने सूत्रकारवचनप्रामाण्येन तस्यादोषत्वात् । ननु भेदान् वर्जयेत्, अधरोत्तरयोः पार्श्वसन्धानं भेदा ( २।९ ) इत्युपहितसन्धि- पिधानस्यासिधर्मत्वेनोपन्यासात् कथं सन्धिदर्शनमदोष इति ? न, तदन्यन्तेषु न विद्यते, न सक्तिपार्श्वयो(२।९)रित्यस्य उपलक्षणत्वेन चतुरश्रदोणचयन- व्यतिरिक्तचयनविषयत्वेनापि भेदवर्जनवचनोपपत्तेः । यदि च सन्ध्यपिधान- मभिहितं स्यात् तदापि सूत्रोक्तप्रकारेण प्रथमद्वितीयप्रस्तारयोः अन्यतरोप- धानं कृत्वा तदनुरोधेन यथा सन्ध्यपिधानं भवति तथा एकप्रस्तारकल्पना- मात्रेणापि तदुपपत्तौ प्रस्तारद्वयान्यथाकरणास्यात्यन्तायुक्तत्वात् । तस्मादेवं हि सूत्रार्थः । तथाहि तस्येष्टकाः कारयेत् , तस्य द्रोण- स्येत्यर्थः । पुरुषस्य षष्ठ्यः सर्वतो विशत्यङ्गुलप्रमाणकाः समचतुरश्रा इष्टका इत्यर्थः । ता एवैकतोध्यर्धाः, पूर्वोक्ता एवेष्टका एकेन पार्श्वेनार्धाधिकाः त्रिंशदङ्गुलदीर्घा विशत्यङ्गुलपार्श्वाः । तासां, अध्यर्धानां चेत्यर्थः । पुरुषस्य