बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 148, कुल 366 में से
संदर्भ में पढ़ेंउपदध्यात् । अर्ध्याश्चान्तयोः । शेषमग्निं बृहतीभि- प्रच्छादयेदर्धेष्टकाभिः सङ्ख्यां पूरयेत् ॥ ८८ ॥ द्वितीयप्रस्तारे विशेषमाह-अपरस्मिन्निति । चुबुकयोरिति । पूर्वा- परयोरग्रयोः द्वे शूलपादेष्टके प्राक्प्रत्यग्दीर्घ उपदध्यादित्यर्थः । सन्ध्यन्तयो- रिति । दक्षिणोत्तरयोः स्रक्त्योः द्वे दीर्घपाद्ये । स्वयमातृण्णावकाशे पूर्व- वच्चतस्रः पाद्या उपदध्यादित्यर्थः । शिष्टं स्पष्टम् ॥ ८८ ॥ चुबुकयोरिति । शूलपाद्ये । सन्ध्यन्तयोरिति । प्रउगसन्ध्यन्तयोः दक्षिणोत्तरस्र- क्त्योरित्यर्थः । शेषमिति । पूर्वेण व्याख्यातम् । तत्रैवमुपधानम् । पूर्वपश्चिमचुबुकयोर्द्वे शूलपाद्ये । मध्ये सप्तदश उदीच्यो रीतयः । सर्वत्र प्रागायता इष्टकाः । मध्ये बृहत्यः । अन्तेषु अर्ध्याः । दक्षिणोत्तर- स्रक्त्योर्दीर्घपाद्ये । मध्यमायां रीत्यां मध्यमायाः स्थाने पूर्ववत् पाद्याः । चतसृषु दिक्षु चतस्रश्चतस्रो बृहतीरुद्धृत्य अष्टावष्टावर्ध्या निधेयाः । एवं द्विशतः प्रस्तारः । अस्मिन् प्रस्तारे अष्टाविंशतिशतं बृहत्यः । चतुःषष्टिरर्ध्याः । चतस्रः शूल- पाद्याः । चतस्रोदीर्घपाद्याः । अत्र कल्पोक्तो विधिरनुसन्धेयः । तत्रैवमुक्तम् । उभयतःप्रउगं चिन्वीत यः कामयेत प्रजातान् भ्रातृव्यानुदेय प्रतिजनिष्यमाणानिति । एतस्यैव सतः समुद्गृह्यैव श्रोणीं प्रत्यायातयति स तथा विहृतो भवति यथा न वहिर्वेदिर्यूपः स्यादिति (बौ. श्रौ. सू. १७।२८ पृ. २०७) ॥ ८८ ॥ [ इति उभयतःप्रउगचिदुपधानप्रकारः । ] रथचक्रचितं चिन्वीतेति विज्ञायते ॥ ८९ ॥ रथचक्रचितमिति । रथचक्रमिव चीयत इति (तं ?) रथचक्रचित- मित्यर्थः ॥ ८९ ॥ रथेति । रथस्य चक्रमिव चीयत इति रथचक्रचित् पूर्वेष्टकाकरणेचानुक्तोऽपि श्रुतौ गम्यमानायां विज्ञायत इति विशेषप्रतिपादनार्थमुक्तम् ॥ ८९ ॥ द्वयानि तु खलु रथचक्राणि भवन्ति साराणि च प्रधियुक्तानि च । अविशेषात्ते मन्यामहेऽन्यतरस्याकृतिरिति ॥ ९० ॥ सांराणीति । साराणि अरैः सह वर्तत इति साराणि । प्रधियुक्तानि प्रधयो नाम मण्डलकृतचतुरश्राद्वहिःप्रदेशास्तैर्युक्तानीत्यर्थः । अविशेषादिति । रथचक्रचितं चिन्वीतेति ब्राह्मणे सारत्वप्रधियुक्तत्वादिविशेषाश्रवणादित्यर्थः ।