बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 139, कुल 366 में से
संदर्भ में पढ़ेंऽध्यायः ] बौधायनीयं १०९ र्धेष्टकां चतुर्भिः परिगृह्णीयादर्धव्यायामेन द्वाभ्यामरत्निभ्यामर- त्निसविशेषेनेति ॥ ७५ ॥ पञ्चमभागीया इति । पञ्चमभागीयाः तदर्ध्याः तत्पाद्याः तदष्टम्य इत्यर्थः । नित्यमक्षणयापच्छेदन ( ३।३० ) मित्यस्य सार्वत्रिकत्वाद् वचनादृते सर्वत्राक्षणया- पच्छेदनम् । पादेष्टकामिति । पञ्चम्याश्चतुर्भागीयं क्षेत्रं चतुर्भिः फलकैः कुर्यात् । अर्ध- प्रादेशेनेति । चतुरस्रपाद्यासूत्रेण व्याख्यातम् । अत्र दक्षिणत उत्तरतः पश्चात् पुरस्ता- च्चेति क्रमः । अध्यर्धेष्टकामिति । अर्धव्यायामेन द्व्यरत्निनोत्तरं फलकम् । द्वाभ्यामर- त्निभ्यां प्रत्यग्दक्षिणफलके । अरत्निप्रमाणे द्वेत्यर्थः । अरत्निसविशेषेण पूर्वफलकम् । एवं सन्निवेशेऽर्धाधिका पञ्चमी भवति ॥ ७५ ॥ ताः षट् ॥ ७६ ॥ ता इति । एवं षट्प्रकारा इष्टका इत्यर्थः । विस्पष्टार्थं वचनम् । तत्र नवत्य- धिकं शतत्रयं पञ्चम्यः । अशीतिशतमर्ध्याः । अष्टशतं पाद्याः । विंशतिरष्टम्यः । विंश- तिश्चतुरस्रपाद्याः । द्व्यशीत्यधिकं शतद्वयं अध्यर्ध्याः । चोडानाकसदः षडर्ध्याः । पञ्च- म्यश्चतस्रः ॥ ७६ ॥ तासां चतुरस्रपाद्याः साष्टमभागाः पादयोरुपधाय शेषं यथायोगं यथासङ्ख्यं यथाधर्मञ्चोपदध्यात् ॥ ७७ ॥ अथोपधानम्— तासामिति । तासां षट्प्रकाराणां मध्ये । पादयोः प्रादेशव्यासा- रत्नदीर्घप्रदेशे द्वे द्वे चतुरस्रपाद्ये अन्तर्विशेषे उपधाय एकैकस्य द्वौ द्वौ अष्टमभागौ अभितः पश्चिमार्धे प्राग्भेदावुपधाय शेषाः चतुःप्रकाराः यथायोगमित्यादि व्याख्या- तम् । प्रस्तारद्वयस्य प्रपञ्चेनानुक्तिः । तत्रैवमुपधानम् । शिरोऽग्रे बहिर्द्वे अध्यर्धे । ततः शिरसि अरत्निचतुष्टयम् । आत्मापच्छेदेषु चतुर्षु बहिर्विशेषा अष्टौ अर्धेष्टकाः । आत्मशेषे अष्टचत्वारिंशदरत्नयः । पुच्छपार्श्वयोः षडर्ध्याः । मध्ये रीतिन्त्रयेण द्वादश पञ्चम्यः । एवं आत्मशिरः पुच्छेषु पादाभ्यां सह अष्टाशीतिरिष्टकाः । निर्णामाग्रे एकैका पाद्या । ततः पश्चात् पञ्चमी । ततः पश्चाद् द्वे अध्यर्ध्ये प्राक्प्रत्यग्रिके । तयोः पश्चात् प्रत्यगग्रिका अध्यर्ध्या । निर्णामादौ दक्षिणत उत्तरतो वा अवशिष्टक्षेत्रे पादेष्टकाः । एवं षडिष्टका रीतिः । प्रणामरीतिमभितः चतस्रोऽध्यर्धारीतयः चतुरिष्टकाः प्राच्यः । तासामभि- तश्चतस्रोऽरत्निरीतयः । तासु मध्ये पञ्च पञ्च पञ्चम्यः पार्श्वेषु अष्टाध्यर्ध्याः । एवं समेष्ट- का रीतयः । पक्षाङ्गुलाः षडर्ध्याः स्युः ।