भारतकोश
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

पृष्ठ 131, कुल 366 में से

संदर्भ में पढ़ें
पृष्ठ 131

ऽध्यायः ] बोधायनीयं १०१ स्रक्तीनां कोणानामर्धव्यायामेन द्वाभ्यामरत्निभ्यामपच्छेदः कर्त्तव्य इत्यर्थः । अयमर्थः—चतुरश्रस्य दक्षिणांसकोणादारभ्य पश्चिमपार्श्वेऽरत्नद्वयं मित्वा तत्र शङ्कुं निहत्य, एवमुत्तरपार्श्वेऽप्यरत्निद्वयं मित्वा तत्र शङ्कुं निहत्य शङ्कोरुपरि स्पन्द्यां नियम्य ( बहिः ? ) स्पन्द्यमपच्छिन्द्यात् । एवं तिसृषु स्रक्तिषु अपच्छेदो द्रष्टव्य इति । एवं चात्मनि पञ्चाशद् द्वे चेष्टका भवन्ति ॥ ५२ ॥ अर्धेति । उक्तार्थम् ॥ ५२ ॥ संनतं पुच्छम् ॥ ५३ ॥ संनतमिति । विस्तृतमित्यर्थः । संनतं पुच्छमित्युक्त्या पश्चादश पुच्छे- त्युक्त्या च त्र्यरत्निव्यासाष्टारत्निदीर्घचतुरश्रस्य त्रिभिस्त्रिभिररत्निभिः पुच्छापच्छेदः । वक्रश्येनपुच्छचतुरश्रस्य दक्षिणादंसादारभ्य उत्तरपार्श्वेऽर- त्नित्रयं मित्वा पुच्छयोस्त्रिभिस्त्रिभिरपनामं कुर्यात् ॥ ५३ ॥ संनतमिति । पुच्छपूर्व्वान्तस्य द्व्यरत्नित्वात् पूर्व्वस्मात् संनतं संकुचितम् । विस्प- ष्टार्थं सिद्धस्य पुनर्व्वचनम् ॥ ५३ ॥ पक्षयोस्त्रिभिस्त्रिभिररत्निभिरपनामः ॥ ५४ ॥ पक्षयोरिति । अयमर्थः—पक्षार्थं कृतस्य षडरत्निव्यास नवा- रत्निदीर्घ-दीर्घचतुरश्रस्यापरस्याः करण्या मध्यादारभ्य पुरस्ताद- रत्नित्रयं मित्वा तत्र शङ्कुं निहत्य श्रोणिस्रक्त्योरपि शङ्कुद्वयं निहत्य शङ्कूनामुपरि स्पन्द्यां नियम्य बहिःस्पन्द्यमपच्छिन्द्यात् । यदपच्छिन्नं तत् पुरस्ताद् दध्यात् । एवमुत्तरपक्षस्याप्यपनामो द्रष्टव्यः ॥ ५४ ॥ पक्षयोरिति । निर्णाम इत्यर्थः । पूर्व्वश्येने त्रिभिः प्रक्रमैर्दृष्टम् । इह अरत्नि- भिरित्यर्थः ॥ ५४ ॥ अध्यर्धार्धाभिः षट् षट् पत्त्राणि कुर्यात् ॥ ५५ ॥ अध्यर्धार्धाभिरिति । वक्ष्यमाणप्रमाणाभिः प्रतिपार्श्वं षट् षट् पत्त्राणि कुर्यादित्यर्थः ॥ ५५ ॥ अध्यर्धेति । व्याख्यातप्रायमेतत् ॥ ५५ ॥