बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 116, कुल 366 में से
संदर्भ में पढ़ें८६ शुल्वसूत्रम् [ तृतीयो- दक्षिणस्यामिति । आत्मनः दक्षिणस्यां श्रोण्यां षष्ट्यङ्गुलपरिमितं समचतुरस्रं क्षेत्रं परिगृह्य तत्र नव षष्ठ्य उपधेयाः । तयोत्तरस्यामिति । आत्मश्रोण्यां नव षष्ठ्यश्च- तुरस्रकृता इत्यर्थः । नव नवेति । आत्मनि दक्षिणांसे षष्ट्यङ्गुलपरिमितं सम- चतुरस्रं क्षेत्रं परिगृह्य तत्र नव षष्ठ्यः । तत उत्तरेण पूर्वापरे द्वे द्विपदे । तत उत्तरेण पूर्ववन्नव षष्ठ्यः । ततो द्वे द्विपदे । तत उत्तरांसे नव षष्ठ्यः । इतिरेवमित्यर्थे । एवं दक्षिणांसादारभ्योत्तरांसाद् विपर्यस्योपदध्यात् ॥ १५ ॥ शेषमग्निं पञ्चमभागीयाभिः प्रच्छादयेत् ॥ १६ ॥ शेषमिति । शेषमग्निमवशिष्टं क्षेत्रं पञ्चमभागीयाभिः प्रच्छादयेत् । पक्षयोरग्रप्रदेशयोः दश दश पञ्चमभागीयाः । आत्मपक्षसन्ध्योरग्रप्रदेशयोः दक्षिणोत्तरयोः पञ्च पञ्च पञ्चमभागीयाः । आत्मपक्षसन्ध्योः पञ्च पञ्च । तयोर्मध्ये पक्षसंमिताः नवरीतयः । पुच्छात्मसन्धौ पञ्च पञ्चम्यः । ततः पश्चात् पुच्छे पञ्चविंशतिः पञ्चम्यः समचतुरश्रं यथा भवति तथोपधेयाः । पुच्छात्मसन्धौ उपहिताभ्यः पुरस्तात् दश पञ्चम्यः दक्षिणोत्तरा दीर्घ- चतुरश्रं यथा भवति तथोपधेयाः । (दीर्घचतुरश्र) एवमवशिष्टक्षेत्रं प्रच्छाद- येदित्यर्थं ॥ १६ ॥ एष द्विशतः प्रस्तारः । व्यत्यासं चिनुयाद् यावतः प्रस्तारां- श्चिकीर्षेत् ॥ १७ ॥ एष इति । एवमेष द्विशतः प्रस्तार इति । ननु तृतीयप्रस्तारेऽपि यद्येवमेव उपधानं कुर्यात् तदा सन्ध्यपिधानरूपोऽग्निधर्मो न प्राप्नुयादित्यत आह—व्यत्यासमिति । पञ्च वा, दश, पञ्चदश वा यावतः प्रस्तारान् चिकीर्षेत् तावत्सु प्रथमवत्तृतीयं द्वितीयवच्चतुर्थम् एवमादिप्रकारेण व्यत्यासं विपरीतं चिनुयादित्यर्थः ॥ १७ ॥ यावतः प्रस्तारानिति । साहसे प्रथमः प्रस्तारस्त्रिरावर्तते । द्विषाहस्रे प्रथम- द्वितीयौ पञ्च पञ्च । त्रिषाहस्रे प्रथमः प्रस्तारः अष्टकृत्वः ॥ १७ ॥ अथापरः ॥ १८ ॥