भारतकोश
बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)

Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya

आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा

DevanagariHindipublished366 पृष्ठ

पृष्ठ 122, कुल 366 में से

संदर्भ में पढ़ें
पृष्ठ 122

६२ शुल्बसूत्रम् [ तृतीयो- व्याख्याताः । स इति । आत्मश्रोण्यंसेषु अर्धपञ्चमाश्रतुर्थ्यो निरस्ता भवन्ति । अथ शिष्टा अर्धपञ्चाविंशच्चतुर्थ्यो भवन्ति ॥ ३३ ॥ शिरोऽर्धषष्ठपदायाममर्धपुरुषव्यासम् तस्यांसौ प्रक्रमेण प्रक्रमेणापच्छिन्द्यात् ॥ ३४ ॥ शिर इति । अर्धं षष्ठं यस्य तदर्धषष्ठम् । सार्धपञ्चपदप्राक्प्रत्यग्दीर्घं, प्रक्रमद्वयविस्तारम्, आत्मनः पुरस्ताद् मध्यप्रदेशे दीर्घचतुरश्रं कृत्वा शिरसः पूर्वस्यां करण्यां मध्यप्रदेशे शङ्कुं निहत्यांसयोः स्रक्तीभ्यामारभ्य पश्चाद्भागयोः प्रक्रमप्रमाणे शङ्कू निहत्य शङ्कूनामुपरि स्पन्द्यां नियम्य बहिःस्पन्द्यमपच्छिन्द्यात्, यदवशिष्टं तच्छिर इत्यर्थः ॥ ३४ ॥ शिरविति । तस्य शिरसः । अयमत्र प्रकारः । पूर्वस्याः करण्या मध्ये शङ्कुं निहत्य दक्षिणोत्तरयोः करण्योः पूर्वभागे प्रक्रमप्रमाणे लक्षणं कृत्वा स्पन्द्यां नियम्य बहिःस्पन्द्यमपच्छिन्द्यात् । एवं अपच्छेदेन एका चतुर्थी निरस्ता भवति । इतरा अर्धपञ्चमाः शिरो भवन्ति ॥ ३४ ॥ पुच्छस्य षट्पदा प्राची द्विपुरुषोदीची । तस्य पूर्वे स्रक्ती त्रिभिस्त्रिभिः प्रक्रमैरपच्छिन्द्यात् ॥ ३५ ॥ पुच्छस्येति । तस्येति । दक्षिणोत्तरे अंससक्ती आरभ्य त्रिषु त्रिषु प्रक्रमेषु शङ्कुद्वयं निहत्य श्रोणिस्रक्त्योरपि शङ्कुद्वयं निहत्य शङ्कुषु स्पन्द्यामावध्य बहिःस्पन्द्यमपच्छिन्द्यात् । अवशिष्टः पुच्छमित्यर्थः ॥ ३५ ॥ पुच्छस्येति । आत्मपश्चिमपार्श्वेन सह । एवं चतुर्विंशतिश्चतुर्थांगीयाः । तस्येति । दक्षिणादंसादुत्तरतः प्रक्रमत्रयेऽतीते लक्षणम् । एवं उत्तरांसाद् दक्षिणतः । तयोः स्पन्द्यां नियम्य श्रोण्योर्निपातयेत् । एवं नव चतुर्थ्यो निरस्ता भवन्ति । पुच्छक्षेत्रे पञ्चदश परिशिष्टा भवन्ति ॥ ३५ ॥ पक्षो द्वादशपदायामो दशपदन्यासः । तस्य मध्यात् प्राञ्चि षट्पदानि प्रक्रम्य शङ्कुं निहन्यात् । श्रोण्योरेकैकम् । अथैनां स्पन्द्यया परिचिनुयात् । अन्तःस्पन्द्यमपच्छिद्य तत्पुरस्तात् प्राञ्चं दध्यात् । स निर्णामः । एतेनोत्तरस्य पक्षस्य निर्णामो व्याख्यातः । पक्षाग्रयोः प्रक्रमप्रमाणानि पञ्च पञ्च चतुरश्राण्यनूचीनानि कृत्वा