बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 176, कुल 366 में से
संदर्भ में पढ़ेंप्रउगाणि सर्वोऽग्निः संगृह्यीयादिति । अत्र आत्मनि मध्ये दक्षिणोत्तरां लेखामलिख्य पूर्वार्धे प्रत्यगग्राणि षट् प्रागग्राणि पञ्च । पश्चिमार्धे प्रत्यगग्राणि पञ्च प्रागग्राणि चत्वारि एवं विंशतिः । एवं शतद्वयसम्पत्तिः । अयम्प्रकारः । अग्निक्षेत्रं तिलद्वयोननवपञ्चशताङ्गुलायां सार्धचतुः पञ्चाशच्छतद्वयाङ्गुलं पुरस्ताद् व्यासं द्वादशतिलोनसप्ततिशताङ्गुलपश्चिमतिर्यङ्मानीकं एकतोऽणिमदीर्घचतुरस्रं विहृत्य इष्टकाः कुर्यात् । तत्र द्वे करणे प्रउगमुभयतः प्रउग- मिति । प्रउगस्य पृथ्वनीकं दशाङ्गुलं सार्धविंशतितिलम् । उभे पार्श्वे सार्धविंशतितिले त्रिषष्ट्यङ्गुले । ते द्वे पृथ्वनीकप्रदेशाभ्यां सङ्गते उभयतः प्रउगम् । प्रथमेन करणेन अशीतिरिष्टकाः । द्वितीयेन विंशशतम् । उपधाने पूर्वस्मिन् अनीके चतुर्विंशतिः प्रउगेष्टकाः प्रत्यगग्राः । ततः पश्चाद् उभयतःप्रउगाः त्रयोविंशतिः। ततः पश्चाद् द्वाविंशतिः । तत एकविंशतिः । ततः पश्चात् प्रागग्रा विंशतिः प्रउगाः । ततः पश्चाच्च विंशतिः प्रत्यगग्राः । ततः उभयतःप्रउगा एकोनविंशतिः । ततः पश्चादष्टादश । ततः सप्तदश । ततः अपरस्मिन् अनीके प्रागग्राः षोडश प्रउगाः । एवं उदीच्यो दश रीतयः । एष द्विशतः प्रस्तारः ॥ १२५ ॥ अपरस्मिन् प्रस्तारे प्रउगं मध्येऽनूचीनं विभजेत् । तस्य षड्धा विभागः । ते द्वे पार्श्वयोरुपदध्यात् । भागतृतीयायामा- श्चतुर्थन्यासाः कारयेत् । तासामर्ध्यास्तिर्यग्भेदाः । ता अन्तयो- रुपधाय शेषमग्निं बृहतीभिः प्राचीभिः प्रच्छादयेत् । अर्धैष्टकाभिः सङ्ख्यां पूरयेत् ॥ १२६ ॥ अपरस्मिन् प्रस्तार इति । अग्निक्षेत्रे प्रागग्रे द्वे प्रउगे प्रत्यग्- ग्राणि त्रीणि प्रउगाणि । एवं पञ्च समानि कृत्वा तत्रैकं प्रत्यगग्रं प्रउगं मध्येऽनूचीनं प्राक्प्रत्यग्दीर्घं यथा भवति तथा द्वेधा विभजेत् । अयमर्थः—पञ्चानां प्रउगाणां मध्ये एकस्य प्रउगस्य पृथ्वनीकमध्यादारभ्य प्रउगाग्रपर्यन्तमार्जवेन लिखेदिति । तस्येति । तस्य दलद्वयात्मकस्य द्वेधा विभक्तस्य एकस्य प्रउगस्य षड्धा षोढा विभागः प्रत्येकं कर्त्तव्यः । विभागप्रकारः । अत्राप्यनूचीनमित्यस्यानुवर्तमानत्वाद द्वयोः खण्डयोः पृथ्वनीकमध्यादारभ्य खण्डद्वयाग्रपर्यन्तं पूर्ववदार्जवम् । अयमत्र विभागप्रकारः—एकस्मिन् खण्डेऽर्धप्रउगे पृथ्वनीके समान्तराले द्वे चिह्ने कृत्वा पश्चादर्धप्रउगं समं तिर्यक् त्रेधा विभजेत् । तत्र