बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 178, कुल 366 में से
संदर्भ में पढ़ेंमित्यर्थः । दक्षिणतः प्रत्यगग्रस्थितप्रउगमध्ये भागप्रमाणपृथ्वनीकमध्याद् आरभ्य आपश्चिमसूक्ष्माग्राद् आलिखेत् । एवं उत्तरस्मिन्नपि पार्श्वे स्थितं विभजेत् । ते द्वे पार्श्वयोरुपधायेति वक्ष्यमाणत्वात् । प्रउगमिति च तस्येति च जात्येकवचनम् । तस्येति । तस्य प्रउगावयवस्य । षड्धा पोढा । अनूचीनं विभागः कार्यः । तत्र प्रकारः । प्रत्यगग्रं षड्भागायतं महाप्रउगार्धं तिर्यक् त्रिधा विभजेत् । तत्र पूर्वखण्डस्य पूर्वतिर्यङ्मान्यां समान्तराले द्वे चिह्ने कृत्वा प्रथमचिह्नादारभ्य आर्जवेन अपरतिर्यङ्मानीं प्रत्यालिखेत् । एवं द्वितीयचिह्नाद् आरभ्य । एवं मध्यखण्डस्य पूर्वान्तन्मध्याद् आरभ्य आर्जवेन अपरान्तात् लिखेत् । एवं विभक्ते प्रथमे खण्डे बाह्यपार्श्वतः अर्धप्रउगाकारा एकेष्टका । मध्यतो द्वे दीर्घचतुरस्रे । मध्यमखण्डस्य बाह्यत एका प्रउगार्धा । अन्तरत एका दीर्घचतुरस्रा । अपरोभागः प्रउगार्धरूप एव । एवं षड्धा विभागः । एवं उत्तरतः । ता द्वाद- शेष्टकाः । तासु प्रउगार्धाकाराः षट् । दीर्धेष्टकाकाराः षट् । ते द्वे इति । ते षड्धा विभक्ते । द्वे प्रउगार्धे । पार्श्वयोः षड्भागायामप्रमाणस्य द्विभागप्रमाणतिर्यङ्मानी- कस्य चतुरस्रस्य पार्श्वयोर्दक्षिणोत्तरयोः प्रत्यगग्रे बहिर्भूतकर्णपार्श्वं उपदध्यात् । एवं द्वादशेष्टका उपहिता भवन्ति । एवं उपहितयोः प्रउगार्धयोर्मध्यभूतचतुरस्रस्योप- धानविधिः । भागत्तृतीयेति । इष्टका इति शेषः । भागस्य षट्तिलोनपञ्चाशीत्यङ्गुल- प्रमाणस्य तृतीयो नवतिलाष्टविंशत्यङ्गुलायामः । चतुर्थव्यासाः सप्ततिलैकविंशत्य- ङ्गुलव्यासाः कारयेत् = ता बृहतीसंज्ञिताः । तासामिति । आयामस्य मध्ये भिन्नाः सप्ततिलैकविंशत्यङ्गुलदीर्घाः सार्धचतु- स्तिलचतुर्दशाङ्गुलव्यासा अर्धेष्टकाः कार्या इत्यर्थः । ता अन्तयोरिति । ता अर्धेष्टका दक्षिणोत्तरायतः । अन्तयोः पूर्वापरयोः । इष्टका अष्टावष्टावुपधाय शेषमग्निं बृहती- भिरित्यादि तुल्यम् । अर्धेष्टकाभिरिति । पार्श्वयोरुपहितप्रउगार्धयोर्द्वादशेष्टकाः । मध्य- भूतचतुरस्रपूर्वापरान्तयोः षोडशार्धेष्टकाः । मध्ये षट्त्रिंशच्छतं बृहत्यः प्रागायताः । एवं चतुःषष्टिशतमिष्टकाः । षट्त्रिंशन्न्यूना भवन्ति । श्रोण्यंसेषु नव नव बृहतीः चतुरस्रकृता उद्धृत्य अष्टादशाष्टादशार्ध्या निधेयाः । एवं द्विशतः प्रस्तारः । द्वितीय प्रस्तारे चत्वारि करणानि । प्रउगार्धानामेकं करणम् । तस्य तिर्यङ्मानी सपञ्चतिलचतुर्दशाङ्गुला । साष्टतिलसप्ततिशताङ्गुला कर्णरूपा बाह्यपार्श्वमानी । सद्वा- विंशतितिला नवषष्टिशताङ्गुला अभ्यन्तरऋजुपार्श्वमानी । अनेन षडिष्टकाः । दीर्घचतुरस्राणां द्वितीयम् । तस्य प्रउगार्धतिर्यङ्मान्येव तिर्यङ्मानी । तस्यैव अभ्यन्तर- पार्श्वमान्येव पार्श्वमानी । अनेनापि षडिष्टिकाः । बृहतीनां तृतीयम् । सनवतिलाष्ट- विंशत्यङ्गुला पार्श्वमानो । ससप्ततिलैकविंशत्यङ्गुला तिर्यङ्मानी । अनेन शत- मिष्टकाः । अर्धेष्टकानां चतुर्थम् । सार्धचतुस्तिलचतुर्दशाङ्गुला तिर्यङ्मानी । सप्त- तिलैकविंशत्यङ्गुला पार्श्वमानी । अनेन करणेन अष्टाशीतिरिष्टकाः ।