बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 179, कुल 366 में से
संदर्भ में पढ़ेंCC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF ध्यायः ] बौधायनीयं १४९ उपधाने पूर्वस्मिन् अनीके पार्श्वयोर्द्वे प्रत्यगग्रे बाह्यकर्णपार्श्वप्रउगार्धे। तयोरभ्यन्तरतः प्रागायते द्वे द्वे दीर्घचतुरस्रे। तासां पश्चात् पूर्ववद् द्वे प्रउगार्धे। तयोरन्तरत एकैका दीर्घचतुरस्रा। तयोर्युगलयोः पश्चाद् द्वे प्रत्यगग्रे प्रउगार्धे। एवं द्वादशेष्टकाः। मध्यचतुरश्रस्य पूर्वापरयोरनीकयोरुदगायता अष्टावष्टावर्धेष्टकाः। तयोरन्तरत अष्टाभिरष्टाभिः प्रागायताभिः बृहतीभिरुदीच्यः सप्तदश रीतयः। तत्र श्रोण्यंसेषु बृहतीनां नवचतुष्कमुद्धृत्य द्वा सप्ततिरर्ध्या निधेयाः। एवं द्विशतः प्रस्तारः। अत्र कल्पोक्तो विधिरनुसन्धातव्यः। तत्रैवमुक्तम्। तस्य मात्रा यदि ग्रीवदध्नं पुरस्तान्नाभिदध्नं पश्चात्। यदि नाभिदध्नं पुरस्ताज्जानुदध्नं पश्चात्। यदि जानुदध्नं पुरस्ताद् गुल्फदध्नं पश्चात्। यदि गुल्फदध्नं पुरस्तात् समं भूमेः पश्चात्। स एष श्मशानचित् पितृलोककामस्येति (बौ० श्रौ० सू० १७।३० पृ० ३०९)। हस्तिपृष्ठवत् चिन्वीतेति तस्यार्थः॥ १२६॥ ऊर्ध्वप्रमाणमग्नेः पञ्चमेन वर्धयेत्। तत्सर्वं त्रेधा विभज्य द्वयोर्भागयोश्चतुर्थेन नवमेन वा चतुर्दशेनवेष्टकाः कारयेत्। ताभिश्चतस्रो वा नव वा चतुर्दश वा चितोरुपधाय शेषमवाञ्च- मदणयापच्छिन्द्यादर्धमुद्धरेत्॥ १२७॥ सर्वचयनापेक्षया श्मशानचयनोर्ध्वप्रमाणे विशेषोऽस्ति। तत्करणी- भूतेष्टकाकरणाद्युपायप्रकारमाह- ऊर्ध्वप्रमाणमिति। अग्नेर्जानुदध्नस्य नाभिदध्नस्य ग्रीवदध्नस्योर्ध्वप्रमाणं जानुप्रमाणं नाभिप्रमाणं ग्रीवप्रमाणं वा पञ्चमेनैकोर्ध्वप्रमाणेनेष्टकाद्वयोर्ध्वप्रमाणेने वा वर्धयेद् योजयेत्। अयमर्थः-प्रकृताग्न्यूर्ध्वप्रमाणं पञ्चधा विभज्य तादृशमेकं भागं योजयेत्। तत्सर्वमिति। तत्सर्वं भागषट्कं त्रेधा विभज्य त्रेधा कृत्वा द्वयोर्भागयोश्चतुर्थेन चतुर्थभागप्रमाणेन जानुदध्ने, द्वयोर्भागयोः नवमेन नवप्रमाणेने नाभिदध्ने द्वयोर्भागयोश्चतुर्दशेन चतुर्दशप्रमाणेन ग्रीवदध्ने इष्टकाः कारयेत्। अयमर्थः-षष्ठभागसहितं त्रेधा विभज्यैकं निधाया- वशिष्टभागद्वयं चतुर्थे नाभिदध्ने नव जानुदध्ने चतुर्दशधा ग्रीवदध्ने विभज्ये- ष्टकाः कुर्यादिति। ताभिरिति। ताभिरेवं कृतेष्टकाभिश्चतस्रश्चितिः प्रस्तारान् जानुदध्ने उपधाय, नवचितिर्नाभिदध्ने उपधाय, चतुर्दशचितीः ग्रीवदध्ने उपधाय, शेषमवशिष्टं तृतीयेन भागेन पञ्चमं दशमं Nepal Sanskrit University, Balmeeki Campus, Kathmandu