बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 181, कुल 366 में से
संदर्भ में पढ़ेंऽध्यायः ] बौधायनीयं १५१ यथायोगमिति । भवत इति शेषः । यथा युज्यते तथा इष्टकानां ह्रासवृद्धी । अन्यथा वक्तुमशक्यत्वाद् एवमुक्तम् । महतः प्रस्तारस्य ऊर्ध्वप्रमाण एव विशेषः । इतरेषां प्रस्ताराणां यथापूर्वमेव । अत्र केचिद् वदन्ति इष्टकानां सम्पादयितुमशक्यत्वाद् इष्टकानां रूपेण मृदमेव प्रक्षिपन्ति । तदपि युक्तमयुक्तमिति विचारणीयं सूरिभिः ॥ १२८ ॥ [ इति श्मशानचिदुपधानप्रकारः । ] कूर्मचितं चिन्वीत यः कामयेत ब्रह्मलोकमभिजयेयमिति विज्ञायते ॥ १२९ ॥ कूर्मचयनप्रतिपादकं शाखान्तरीयं ब्राह्मणमाह--कूर्मचित मिति ।। १२९ ।। कूर्मचितमिति । छन्दश्विदध्याये तथैव कूर्मचिदिति ब्राह्मण इत्युक्तमिह विज्ञायत इति शाखान्तरब्राह्मणं दर्शितम् । एतस्मादेव गम्यते स्वशाखायां ब्राह्मणा- भावोऽन्य ब्राह्मण इत्युक्तं भवति । ब्रह्मलोकं हिरण्यगर्भलोकम् ।। १२९ ।। द्वयाः खलु कूर्मा भवन्ति वक्राङ्गाश्च परिमण्डलाश्च । अवि- शेषात्ते मन्यामहेऽन्यतरस्याकृतिरिति ॥ १३० ॥ द्वेधाः खल्विति । लोके वक्राकाराः कूर्माः संभवन्ति परिमण्डला- काराः कूर्माश्च संभवन्तीति । अविशेषादिति । श्रुतावविशेषात् ते वयं बोधायनाचार्याः कूर्मस्याकृतिरिति मन्यामहे ॥ १३० ॥ द्वया इति । वक्राङ्गानि कुटिलाङ्गानि येषां ते वक्राङ्गाः । एवं परिमण्डलाङ्गाः । अविशेषादिति । व्याख्यातमेतद् रथचक्रचितौ ॥ १३० ॥ अथाग्निं विमिमीते । चतुरस्र आत्मा भवति । तस्य दश- प्रक्रमाः पार्श्वमानी भवति । तस्य द्वाभ्यां द्वाभ्यां प्रक्रमाभ्यां सक्तीनामपच्छेदः । पूर्वस्मिन्ननीके प्रक्रमप्रमाणानि चत्वारि चतुर- स्राणि कृत्वा तेषां येऽन्त्ये ते अक्ष्णयापच्छिन्द्यात् । एवं दक्षिणतः एवं पश्चादेवमुत्तरतः । स आत्मा ॥ १३१ ॥ अथेति । अथाग्निमग्निक्षेत्रं विमिमीते । चतुरस्र इति । कूर्मस्य चतुरश्रात्मा भवति । चतुरश्रश्चासावात्मा स चतुरश्रात्मा । आत्मा समचतुरश्रो भवतीत्यर्थः । तस्येति । तस्यात्मनः दशप्रक्रमाः पार्श्वमानी